________________ 426 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तेन मूलमूलिनोर्मध्ये मूलमेव बलवत् / अशुचित्वबोधकागमस्तु मूल्यनुमानापेक्षया बलवानेव / एतदेवाह - उपजीव्यजातीयत्वेनेति टीका / नरशिरःशौचानुमानस्य मूलं य आगमः स उपजीव्यस्तज्जातीयत्वेन अशुचित्वबोधको य आगमः सप्रबल एव, अनेन च प्रबलेनाशुचित्वबोधकागमेन शुचित्वबोधकानुमानं बाध्यत एवेति नानुमानेनागमबाध इत्यभिप्रायः / ननु अशुचित्वबोधकागमस्य बलवत्त्वाज्ञानदशायामनुमानेन [217B] बाधः स्यात् इत्यत आह - तद्बलत्वेति टीका। यतोऽनुमानापेक्षया शब्दस्य बलवत्त्वाज्ञानं तदाऽनुमानेन शब्दस्य बाधः क्रियत एव, अत एव तद्दशायामनुमानेनागमबाधे इष्टापत्तिरित्यर्थः / मूले हेत्वाभासलक्षणे यद्विषयत्वेनेत्यादिरूपे शङ्कते - न त्विति। अयं पाठः चिन्त्यमेतत्पर्यन्तः सर्वमवदातमित्यतः पूर्वं टीकायां द्रष्टव्यः / भ्रमाल्लिखितमप्यत्रैव व्याख्यायते। यद्विषयकं ज्ञानमनुमितिप्रतिबन्धकं तद्धेत्वाभासत्वं चेत् तदा गौरवस्यापि हेत्वाभासत्वम्, गौरवविषयकमपि ज्ञानमनुमितौ प्रतिबन्धकामास्ति / अन्यथा कार्यत्वहेतुना क्षितेंचि (र्द्वि)कर्तृकत्वानुमानं स्यात् / मध्ये शङ्कते - न चेति / हेतुविषयतया यद् ज्ञानं प्रतिबन्धकं स हेत्वाभास इति गौरवज्ञानं तु हेतुविषयतया न प्रतिबन्धकं हेत्वविषयकस्यापि गौरवज्ञानस्य प्रतिबन्धकत्वात् / न गौरवस्य हेत्वाभासत्वमिति शङ्कार्थः / दूषयति - बाधस्येति। तर्हि बाधस्यापि हेत्वाभासत्वं न स्यात्। न हि हेतुविषयकमेव बाधज्ञानं प्रतिबन्धकं किन्तु साध्याभावज्ञानमात्रम्, तेन बाधस्यापि हेत्वाभासत्वं न स्यादित्याक्षेपार्थः / समाधत्ते - यज्ज्ञाने सतीति टीका। यज्ज्ञाने सति अवश्यमनुमितिप्रतिबन्धः स हेत्वाभासः / न हि गौरवज्ञाने सति अवश्यमनुमितिप्रतिबन्धः यतः फलमुखगौरवज्ञाने विद्यमानेऽप्यनुमितेरप्रतिबन्धात् / यथा यागः स्वर्गसाधनं श्रुत्युपदिष्टकारणताकत्वात् / अत्र फलमुखं गौरवम् - यागे यदि स्वर्गसाधनता स्यात् तदाऽधिकाऽपूर्वकल्पना स्यात्, यागस्य चिरविनष्टत्वेन आशुतरविनाशित्वेन कालान्तरभावि स्वर्गं प्रति साधनता कथं स्यादतोऽपूर्वं कल्पनीयम्। इत्यपूर्वकल्पनमपि गौरवम्। इदं यद् गौरवज्ञानं तदनुमितिप्रतिबन्धकंन भवति, फलमुखत्वात् कारणतानिर्वाहकत्वात् / अपूर्वकल्पनाव्यतिरेकेण यागस्वर्गयोः कार्यकारणनिर्वाहो न स्यादिति गौरवं न दोषायेति गौरवज्ञानस्यानुमितिप्रतिबन्धकत्वाभावात् न तस्य हेत्वाभासत्वम् / अत्र चिन्त्यमाह - एवमिति टीका / अप्रामाणिकगौरवज्ञानस्य हेत्वाभासोपाधितापत्तिः / यतोऽप्रामाणिकगौरवज्ञानेनानुमितिप्रतिबन्धः क्रियते इति कृत्वाऽप्रामाणिकगौरवस्य हेत्वाभासतापत्तिः / यथा क्षित्यादिकं सकर्तृकं कार्यत्वात् इत्यत्र कर्तृद्वयं कुतो न सिद्धयति / यत्र कर्तव्यानुमितौ अप्रामाणिकगौरवज्ञानं प्रतिबन्धकमित्यप्रामाणिकगौरवमपि हेत्वाभासः स्यात् / स(सा)म्प्रदायिकानां मते गौरवस्य हेत्वाभासव्यवहाराभावात् तदनुरोधेन गौरवान्यत्वे सति यद्विषयकंज्ञानमनुमितिप्रतिबन्धकंस हेत्वाभासः इति चिन्त्योद्धारः / उत्तरमूलं योजयितुमाह - ते चेति टीका [218 A]| / हेत्वाभाससामान्यनिरुक्तिः समाप्ता।