________________ हेत्वाभाससामान्यनिरुक्तिः 425 एवं सत्प्रतिपक्षेऽपि; नविरोधिनिश्चयसामग्रीत्वेन प्रतिबन्धकत्वंप्रत्यक्षे, अपितुप्रत्यक्षविरोधिनिश्चयसामग्रीत्वेनेति मूलव्याख्यावसरे उक्तप्रायम् / कुत इत्यत आह - अपीतत्वानुमितावपीति / यदि बाधज्ञानमात्रं प्रत्यक्षे प्रतिबन्धकं स्यात् तदा अनुमितिरूपबाधसम्भवात् यत् पीतप्रत्यक्षं जायते तन्न स्यादित्यर्थः / अनुमितौ अप्रामाण्यशङ्काशून्यबाधज्ञानमात्रं प्रतिबन्धकम् अनुमितिस्तु उक्तबाधे सति न जायते एवेति, प्रत्यक्षे तु तन्नास्ति इति / एतदेवाह - बाधमात्रेणेति टीका / ननु प्रत्यक्षे बाधमात्रं प्रतिबन्धकं मा भवतु, शाब्दज्ञाने तु बाधज्ञानं प्रतिबन्धकं भवत्येव अयोग्यतानिश्चयमात्रस्यैव शाब्दज्ञाने प्रतिबन्धकत्वात् इत्याशयेन शङ्कते - नन्विति / समाधत्ते - अत्यन्तेति टीका / यथा - अयं वन्ध्यासुतो याति खपुष्पकृतशेखरः। मृगतृष्णाम्भसि स्नातः [217 A] शशशृङ्गधनुर्धरः // अस्य क्षोणिपतेरित्यादौ चायोग्यतानिश्चये विद्यमानेऽपि शाब्दबोधो जायते / न चैवं मानाभावः / शाब्दबोधजन्यचमत्कारविशेषानङ्गीकारे मुखप्रसादादीनामनुभवो न स्यात् / उत्तरदलं यथा अबाधात् तु प्रमामत्र स्वतः प्रामाण्यनिश्चलाम्' इति। ननु शाब्दबोधे योग्यताज्ञानस्य कारणत्वाभावेशाब्दीप्रमा प्रति योग्यताप्रमया शाब्दप्रमा जायते योग्यताभ्रमाच्छाब्दभ्रम इति न स्यात् / यत्सामान्ययोः कार्यकारणभाव इति न्यायाभावात् सामान्ययोग्यताज्ञानस्य यदि कारणतैव नास्तीत्यत आह - अबाधादिति। शाब्दबोधमात्रे योग्यताज्ञानमात्रस्य कारणत्वाभावेऽपि वस्तुतो यत्र बाधाभावः तत्र शाब्दप्रमा यत्र बाधस्तत्र शाब्दभ्रमः इत्येव भ्रमप्रमाप्रयोजकम्। ननु अबाधात् यत्र शाब्दप्रमोत्पन्ना तत्र तस्याः प्रमात्वं केन निश्चेतव्यमित्यत आह - स्वत इति / वस्तुगत्या यत्र बाधो नास्ति तत्र शाब्दप्रमायाः प्रमात्वं केन ग्राह्यम् ? स्वत एव अनुव्यवसायेनैव ग्राह्यम् / तत्प्रतिबन्धकत्वमिति टीका / बाधमात्रस्य न शाब्दज्ञानप्रतिबन्धकात्वाम्, उक्तस्थले बाधज्ञाने सत्यपि शाब्दज्ञानोदयात। अत्राशङ्कते-न चेति टीका। तथा च स्वमतेऽपि बाधमात्रस्य न शाब्दज्ञानप्रतिबन्धकत्वम / कुतः ? यदि शाब्दज्ञाने बाधमात्रस्यैव प्रतिबन्धकत्वं स्यात् तदा 'नरशिरः कपाल) शुचि प्राण्यङ्गत्वात् शङ्खशुक्त्यादिवत्' अनेन अनुमानेन अशुचित्वबोधकस्याप्यागमस्य बाधः स्यात् / आगमस्तु नारं स्पृष्ट्वा तु सस्नेहं सचेलो जलमाविशेत्' इत्यागमोऽपि अनुमानेन बाध्येत / यदि बाधमात्रस्य शाब्दज्ञानप्रतिबन्धकत्वं तदाऽनुमानेनागमस्यापि बाधः स्यादिति न च वाच्यम् / समाधत्ते - उपजीव्येति टीका / तथा च वाधस्य तत्र शाब्दज्ञाने प्रतिबन्धकत्वं यत्र स्वापेक्षया बलवत्त्वेनाज्ञातशब्दजन्यज्ञाने बाधस्य प्रतिबन्धकत्वम्, प्रकृते च स्वशब्देनानुमानं तदपेक्षया बलवत्त्वेनैव शब्दस्य ज्ञातत्वात् / बलवत्त्वमागमस्य निरूपयति - उपजीव्येति टीका / नरशिरःशौचानुमानमपि किञ्चिन्मूलकं वक्तव्यम् आगममूलकं वक्तव्यम् / तथा च नरशिरःशौचानुमानस्य मूलमागम एव / ततः अनुमानस्य मूलमागमः / आगमत्वेन रूपेण मूलता, शौचत्वानुमानत्वेन रूपेण मूलिता,