________________ 424 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विरोध(? धि)निश्चयस्तत्सामग्रीत्वेन / यथा घटप्रत्यक्षे घटाभावप्रत्यक्षस्यैव यदि सामग्री तदा घटप्रत्यक्षा(क्ष)प्रतिबन्धः न तु विरोधिनिश्चयसामग्रीत्वेन प्रतिबन्धकत्वम्।अन्यथा श्वैत्यव्याप्यशङ्खत्ववानयमित्यनुमितिरूपनिश्चयसाम यां विद्यमानायामपिपीतप्रत्यक्षंनस्यात्। विरोधिनिश्चयसामग्रीत्वेऽनुमितिनिश्चयसामग्र यांसत्यामपि पीतप्रत्यक्षं भवति / अतो विरोधिनिश्चयसामग्रीत्वेन न प्रतिबन्धकता किन्तु प्रत्यक्षविरोधिनिश्चयसामग्रीत्वेनैव सा च प्रत्यक्षस्थल एव / सत्प्रतिपक्षस्य तु यदि प्रत्यक्षे विरोधिनिश्चयसामग्रीत्वेन प्रतिबन्धकत्वं स्यात् तदाऽनुमित्यसाधारणदोषत्वं न स्यात् / तथा च सत्प्रतिपक्षस्य प्रत्यक्षे प्रतिबन्धकत्वमेव नास्ति किन्तु अनुमितावेव तत्रैव विरोधिनिश्चयसामग्रीत्वेन सत्प्रतिपक्षस्य प्रतिबन्धकता।के ते हेत्वाभासा इत्यत आह - ते चेति मूलम् / अध्यायसूत्रमाह - सव्यभिचारेत्यादि / ___ अथटीका।ननुसत्प्रतिपक्षस्य प्रत्यक्षेप्रतिबन्धकत्वं कुतः स्यात् ? सत्प्रतिपक्षोहि हेत्वाभासः। स च हेतुजन्यानुमितावेव प्रतिबन्धकः, न तु स प्रत्यक्षे प्रतिबन्धक इत्यत आह - अत्रेति टीका / सत्प्रतिपक्षपदमिति टीका / किमर्थमिदं व्याख्यानमित्यत आह - तत्त्वेनैवेतिटीका।सत्प्रतिपक्षस्य विरोधिनिश्चयसामग्रीत्वेनैवानुमितिप्रतिबन्धकता, यथा पर्वतो वह्निमान् धूमात् वह्नयभाववान् पाषाणवत्त्वात् इत्युभयोरपि हेत्वोः सत्प्रतिपक्षयोर्या प्रतिबन्धकता साऽपि विरोधिनिश्चयसामग्रीत्वेनैव यतः पाषाणवत्त्वं वह्नयभावज्ञानसामग्री धूमवत्त्वं [216 B] वह्रिज्ञानसामग्रीति उभयोः परस्परं विरोधात्धूमज्ञानं वह्नयभावविरोधिज्ञानसामग्री पाषाणवत्त्वज्ञानं वह्निविरोधिज्ञानसामग्रीति सत्प्रतिपक्षयोविरोधिनिश्चयसामग्रीत्वेनैव प्रतिबन्धकत्वम् / ननु यथाश्रुतं सत्प्रतिपक्षपरमेव कुतो नस्यादित्यत आह - नन्विति टीका। तस्य सत्प्रतिपक्षस्य अन्यत्रानुमितिव्यतिरिक्तस्थले प्रतिबन्धकत्वाभावात् मूलकृता यदुक्तं प्रत्यक्षशाब्दज्ञानयोर्बाधसत्प्रतिपक्षयोः प्रतिबन्धकत्वं तदसतं स्यादित्यर्थः / ननु तथापीति समाधानग्रन्थोऽसङ्गतः / बाधसत्प्रतिपक्षयोर्जायमानयोः प्रतिबन्धकत्वेऽपि हेत्वाभासलक्ष्यताप्रयोजकं यदि अनुमित्यसाधारणदोषत्वं तत् तु नास्त्येवेत्यत आह - नत्विति टीका। तथा चानुमित्यसाधारणदोषत्वेन लक्ष्यतैव नास्तिकिन्तुज्ञायमानदोषत्वेनैव लक्ष्यता, सातु अनुमितौतुतिष्ठत्येवेत्यनुमितौसत्प्रतिपक्षस्य प्रतिबन्धकत्वादित्यर्थः / उत्तरग्रन्थं योजयति - अनुमितीति टीका। तथा च भवतु अनुमित्यसाधारणदोषत्वम्, तदपि तयोर्वर्तत एवेत्यर्थः / ननु मूलकृता बाधस्य प्रत्यक्षे बाधत्वेन न प्रतिबन्धकता इति बाधवारणं कृतं परं सत्प्रतिपक्षवारणं तु न कृतमित्यत आह - उपलक्षणमिति टीका / बाधपदं सत्प्रतिपक्षस्याप्युपलक्षणम्, तेन सत्प्रतिपक्षणापि प्रत्यक्षज्ञानोत्पत्तेः प्रतिबन्धो न कर्तव्य एवेत्यर्थः / ननु बाधेन प्रत्यक्षज्ञानं न प्रतिबध्यत इत्ययुक्तम्। चक्षुरिन्द्रियेण यदा शङ्खनिष्ठश्वेतविषयकं ज्ञानं जातं न पीतः किन्तु श्वेतः' इति तदा पीतप्रत्यक्षानुदयात् प्रत्यक्षोत्पत्तावपि बाधः प्रतिबन्धको भवत्येवेत्यत आह - प्रत्यक्षेति टीका / प्रत्यक्षे प्रत्यक्षबाधत्वेन अयमाशयो मूलकृतः - बाधत्वेन रूपेण या बाधस्य प्रतिबन्धकता साऽनुमितावेव न तु प्रत्यक्षे, प्रत्यक्षे तु प्रत्यक्षबाधत्वेन न तु बाधत्वेन /