________________ हेत्वाभाससामान्यनिरुक्तिः _ 423 बन्धकं तदा सोऽसाधारणः सत्प्रतिपक्षश्च भवति / ननु बाधसत्प्रतिपक्षयो नुमितिमात्रप्रतिबन्धकत्वम् / किन्तु प्रत्यक्षेशाब्दज्ञाने च बाधस्य प्रतिबन्धकत्वम् / यथा घटाभाववत्तया निश्चिते घटज्ञानानुदयात्। एवं शाब्दज्ञानेऽपि अग्निना सिञ्चतीति वाक्यात् शाब्दज्ञानानुदयात् शाब्दज्ञानेऽपि बाधः प्रतिबन्धकः / अतो बाधस्यानुमित्यसाधारणदोषत्वाभावात्नानुमितिमात्रे बाधो दोषः / हेत्वाभासत्वं चानुमितिमात्रस्यैव दोषत्वम्।एवं सत्प्रतिपक्षोऽपि प्रत्यक्षशाब्दज्ञानयोरपि प्रतिबन्धकः। यथाहि यदा पुरुषत्वव्याप्यकरादिमानयमितिप्रत्यक्षसामग्री पुरुषत्वाभावव्याप्यवक्रकोटरादिमानयमिति यदा पुरुषत्वाभावप्रत्यक्षसामग्री उभयोर्विरोधिनिश्चयसामा योः समवधानकाले एकतरनिश्चयरूपप्रत्यक्षाभावेन सत्प्रतिपक्षस्य प्रत्यक्षेऽपिप्रतिबन्धकत्वम्। एवं शाब्दज्ञानस्थलेऽपिशब्दोऽनित्यः केनचिदुक्तं शब्दोऽनित्यो नेति तत्र विरोधिनोनित्यत्वानित्यत्वयोर्विरोधिानिश्चयाशाब्दसामा योः समवधाने शाब्दज्ञानं न जायतेइति कृत्वा सत्प्रतिपक्षस्य शाब्दज्ञानेऽपि प्रतिबन्धकत्वात् नानुमित्यसाधारणो दोषः सत्प्रतिपक्षः। ततश्चानयोर्हेत्वाभासमध्ये निरूपणमनुचितमित्यर्थः / अयंभावः - बाधसत्प्रतिपक्षयोर्हेत्वाभासत्वमनुचितम् उक्तरीत्याऽनुमित्यसाधारणदोषत्वाभावादिति पूर्वपक्षार्थः / समाधत्ते - तथापीति मूलम् / अत्र हेत्वाभासग्रन्थे यदाभासस्य लक्षणं तज्ज्ञायमानस्य / अयमर्थः - यस्य ज्ञानमनुमितिप्रतिबन्धकं स हेत्वाभासः / न च निग्रहस्थानादौ अतिव्याप्तिरिति वाच्यम्। निग्रहस्थानमनुमितिदोषो न भवतिकिन्तुपुरुषदोषः। तथा च बाधज्ञानस्याप्यनुमितिप्रतिबन्धकत्वात् बाधोऽपि हेत्वाभासः, एवं सत्प्रतिपक्षस्याप्यनुमितिप्रतिबन्धकत्वात् हेत्वाभासत्वम् / तथा चहेत्वाभासपरिभाषायां मात्रपदानुपादानेन यज्ज्ञानस्यानुमितिप्रतिबन्धकत्वंस हेत्वाभासो न त्वनुमितिमात्रप्रतिबन्धकत्वेन हेत्वाभासत्वमित्यर्थः। अथानुमितिमात्रप्रतिबन्धकत्वंहेत्वाभासत्वमित्यप्यङ्गीकृत्य पक्षान्तरमाह - यद्वेति मूलम्। प्रत्यक्षादाविति [216 A] मूलम् / शङ्खो न पीतः शङ्खत्वात् इत्यनुमितिरूपबाधज्ञाने विद्यमानेऽपि पीतविषयकं प्रत्यक्षमुत्पद्यत एव। यथाशङ्खो न पीतः शङ्खत्वात् इति पीतत्वाभावानुमितावपि पीतप्रत्यक्षोदयः काचकामलादिदोषात्, तर्हि बाधेन किं क्रियते इत्यत आह - उत्पन्न इति मूलम् / उत्पन्ने पीतः शङ्ख इति प्रत्यक्षज्ञाने तेनानुमितिरूपबाधज्ञानेनाप्रामाण्यं प्रत्यक्षज्ञाने ज्ञाप्यते / ननु अनुमितिरूपबाधे न प्रत्यक्षोत्पत्तेरेव प्रतिबन्धः क्रियते इति कृत्वा बाधस्य प्रत्यक्षप्रतिबन्धकत्वं नास्ति। तथा च बाधस्य प्रत्यक्षे बाधत्वेन रूपेण प्रतिबन्धकता नास्ति किन्तु तदिन्द्रियजन्यबाधत्वेन तदिन्द्रियजन्यप्रत्यक्षत्वेन बाध्यबाधकभावः / यदिन्द्रियजन्यं प्रत्यक्षं तदिन्द्रियजन्यो बाधस्तदिन्द्रियजन्ये प्रत्यक्षे प्रतिबन्धकः / यथा पीतः शङ्ख इति भ्रमः चक्षुरिन्द्रियेण जन्यते चक्षुरिन्द्रियेण चेद् बाधज्ञानं भवति तदा चक्षुरिन्द्रियेण पुनः पीतः शङ्ख इति ज्ञानं नोत्पद्यते। एवमनुमितौ अयं विशेषो यत् [य]किञ्चिदेव बाधज्ञानं प्रतिबन्धकं तथा चानुमितौ बाधत्वेन प्रतिबन्धकता प्रत्यक्षत्वे तुन बाधत्वेन प्रतिबन्धकता किन्तु बाधविशेषत्वेनैव प्रतिबन्धकता। एवं सत्प्रतिपक्षेऽपि विरोधिनिश्चयसामग्रीत्वेन सत्प्रतिपक्षस्य प्रत्यक्षे न प्रतिबन्धकत्वं किन्तु प्रत्यक्षविरोधिनिश्चयासामग्री)त्वेन प्रत्यक्षो यो