SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 422 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ग्रहसामग्रीद्वारा परस्परव्याप्तिग्रहप्रतिबन्ध एवासाधारणे दूषकताबीजम् / कथम् ? यत्र यत्र अनित्यत्वाभावस्तत्र पृथिवीत्वाभावो यथा आकाशे इति व्यतिरेकसहचारात् किं पृथिवीत्वमनित्यत्वव्याप्यमिति वा व्याप्तिग्रहो भविष्यति किं वा यत्रानित्यत्वं तत्र पृथिवीत्वाभाव इति व्यतिरेकसहचारात् किं नित्यत्वपृथिवीत्वयोर्व्याप्तिरिति परस्परव्यतिरेकसहचाराभ्यां परस्परव्याप्तिग्रहप्रतिबन्धो दूषकताबीजम् / यदा पृथिवीत्वमसाधारणोत्तीर्णमनित्यत्वव्याप्तिग्रहेऽनुकूलतर्को ज्ञातस्तदानीमसाधारणोत्तीर्णो भवति तदानीं विरोधिव्याप्तिग्रहसामग्रीवत्त्वमनु-. मितिप्रतिबन्धकज्ञानविषयतावच्छेदरूपं पृथिवीत्वे नास्ति इत्यसाधारणेऽव्याप्तिरित्याभासार्थः / एतदेवाह - सत्प्रतिपक्षत्वादेरिति टीका। आदिशब्दात् सपक्षव्यावृत्तत्वं वा विरोधिव्यतिरेकव्याप्तिग्रहसामग्रीसमावेशो वा अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं वा परिग्राह्यम्। दशाविशेषे हेत्वोरेवासाधारणसत्प्रतिपक्षयोराभासत्वात् तद्बुद्धेरप्यनुमितिप्रतिबन्धकत्वम्।यद्यपिबाधसत्प्रतिपक्षयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वान्न लिङ्गाभासत्वं तथापि ज्ञायमानस्याभासस्यात्र लक्षणम् / यद्वा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते किन्तूत्पन्नज्ञानेऽप्रामाण्यं ज्ञाप्यते अनुमितौ तूत्पत्तिरेव प्रतिबध्यते। ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिता: पञ्च। दशेति मूलम् / एतयोः सद्धेत्वोरसाधारणसत्प्रतिपक्षयोर्यद्धेत्वाभासत्वं तद् दशाविशेषेज्ञेयम् / तथाहि यदा धूमे वह्रिव्याप्तिः पाषाणवत्त्वे वह्नयभावव्याप्तिरवतीर्णा तदोभयगोचरसमूहालम्बनविषयत्वमुभयोस्तदानीं सत्प्रतिपक्षत्वं भवति। यदा चैकत्रानुकूलतर्कोऽवतीर्णः तस्यां दशायां विरोधिव्याप्त्यादिमत्त्वं नास्ति। यदा एकत्रानुकूलतर्कोऽवतीर्णस्तदाऽन्यत्र व्याप्त्यादिमत्त्वस्य बाधो जातः, तस्यां दशायांसत्प्रतिपक्षतोत्तीर्णे सद्धेतौ अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकविरोधिव्याप्त्यादिमत्त्वस्य [215B] तदानीमभावात् तदासद्धेतुः सत्प्रतिपक्षो न भवत्येव। अत एव सत्प्रतिपक्षस्यानित्यदोषत्वम्, एवमसाधारणस्यापि दशाविशेष एव दोषत्वम्। तथाहि यदा पृथिवी अनित्या पृथिवीत्वात् इत्यत्र यत्र नित्यत्वं तत्र पृथिवीत्वाभावमनित्यत्वव्यतिरेकव्याप्तिग्रहसामग्री, यत्रानित्यत्वं तत्र पृथिवीत्वाभाव इति नित्यत्वव्यतिरेकव्याप्तिग्रहसामग्री, उभयोर्व्यतिरेकव्याप्तिग्रहसामग्री यदाऽवतीर्णा तदानीं तस्यां दशायां पृथिवीत्वस्यापि सद्धेतोरसाधारण्यम्, यदा तु एकसाध्यव्यतिरेकव्याप्तिग्रहसामर याः प्रबलत्वं तदानीमसाधारणतोत्तीर्णे सद्धेतौ पृथिवीत्वेऽनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकविरोधिव्याप्तिग्रहसामग्रीसमानकालीनत्वं सद्धेतौ नास्तीति सोऽसाधारणस्तद्दशायांनास्तीति सोऽसाधारणस्तदानीं न भवतीति दशाविशेष एवासाधारण्यमित्यर्थः / तदिति मूलम् / सत्प्रतिपक्षत्वज्ञानमसाधारण्यज्ञानं च यदा प्रति
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy