________________ हेत्वाभाससामान्यनिरुक्तिः 421 नुक्तसमुच्चयार्थेन एतेषामपि सन्दिग्धासिद्धादीनामपि निग्रहस्थानत्वेन गणितत्वात् वादे एतस्य(तेषाम्) उद्भावनं युक्तमेव, न त्वस्य(त्वेतेषां) हेत्वाभासत्वमित्यर्थः / एवं सन्दिग्धासिद्धादीनां हेत्वाभासत्वे खण्डिते पुनः सिद्धसाधनमपि हेत्वाभासो न भवतीत्याह - सिद्धसाधनमिति / सिद्धसाधनमपि स्वरूपसदेव दूषणमित्यन्वयः / पक्षतेति टीका। सिद्धसाधने सन्देहघटितपक्षताया अभावात् दूषणत्वम् / अथवाऽर्थान्तरत्वेनेति। यथा चन्दनखण्डवह्नौ साधनापेक्षायां सत्यां यदा चन्दनखण्डप्रभववह्निरेव सिद्धयति, पर्वतो वह्निमान् इत्यत्र कस्यचिदिष्टः चन्दनखण्डप्रभवो वह्निः साध्यत्वेन, धूमेन तु चन्दनखण्डप्रभववह्निमात्रं न सिद्धयति अचन्दनखण्डप्रभवस्यापि सिद्धत्वात् इत्यर्थान्तरः। ततः सिद्धसाधनस्यापि दूषणत्वं तु निग्रहस्थानमुद्रयैवेतिभावः। उत्तरग्रन्थयोजनार्थमाभासमाह - नत्विति टीका। एतदिति टीका। अनुमितिप्रतिबन्धकज्ञाने विषयतयाऽवच्छेदका ये धर्मा व्यभिचारत्वादयः तद्रूपवत्त्वं हेत्वाभासत्वम्, तच्च सद्धैतौ सत्प्रतिपक्षे नास्ति, असाधारणे चाव्याप्तम्। कथम् ? एको हेतुः पर्वतो वह्निमान् धूमात्। द्वितीयः पर्वतो वह्नयभाववान् पाषाणवत्त्वात् / अयं सत्प्रतिपक्षः / पश्चात् परस्परानुमितिप्रतिबन्धे सतिधूमपाषाणवत्त्वयोः सत्प्रतिपक्षत्वं वर्तते। तदनन्तरं धूमे यदाऽनुकूलतर्को जातः यथा वयभावे धूमो न स्यादिति रूपस्तदा धूमस्य हेतोः प्रबलत्वं पाषाणवत्त्वहेतोर्दुर्बलत्वं तदा धूमान] वह्नयनुमितिः क्रियते, तदानीं वह्नयनुमितिकालेधूमे सत्प्रतिपक्षितेपाषाणवत्त्वेन अव्याप्तिः।अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकविरोधिव्याप्त्यादिमत्त्वस्यएकज्ञानविषयतालक्षणसम्बन्धेनधूमेऽभावात्।नहिधूमेन यदा वह्नयनुमितिः क्रियते तदानीं पाषाणवत्त्वे हेतौ वन्यभावव्याप्तेर्ज्ञानं न वा ? तज्ज्ञाने धूमो विषयः इति / यथा घटपटाविति समूहालम्बनकाले घटत्वमेकज्ञानविषयतालक्षणसम्बन्धेन पटेऽपिवर्तते तथासत्प्रतिपक्षेऽपि विरोधिव्याप्त्यादिकं वन्यभावव्याप्तिपक्षधर्मते समूहालम्बनज्ञानविषयतासम्बन्धेन [215 A] धूमे तिष्ठति / एवं वह्निनिरूपितव्याप्तिपक्षधर्मते एकज्ञानविषयतालक्षणसम्बन्धेन पाषाणवत्त्वेऽपि तिष्ठति।सत्प्रतिपक्षता तस्योभयविषयकत्वेन समूहालम्बनत्वम्, तेन धूमेऽनुकूलतर्कावतारो यदा जातस्तदानीं पाषाणवत्त्वे वह्नयभावव्याप्तिज्ञानमेव नास्ति, तज्ज्ञानाभावे च एकज्ञानविषयतालक्षणसम्बन्धेन वयभावव्याप्त्यादिकं धूमेऽपि नास्ति, पाषाणवत्त्वे एव वन्यभावव्याप्तिज्ञानं नास्ति इतिकृत्वा सत्प्रतिपक्षेधूमेऽव्याप्तिः। एवमसाधारणेऽपिसद्धेतुतादशायामनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं यत् सपक्षव्यावृत्तं तदपि नास्ति तदपि ज्ञानरूपसम्बन्धेन सद्धेतौ नास्ति, यथा घटोऽनित्यः घटत्वात् इत्यत्र घटत्वेन यदाऽनित्यत्वानुमितिः क्रियते तदा घटत्वे सपक्षव्यावृत्तरूपं ज्ञानमस्ति, असाधारणोऽयं भवति, परं कृतकत्वादिनारूपेण घटेऽनित्यत्वं निश्चितं यदा सिषाधयिषया घटत्वेनापि अनित्यत्वंसाध्यते तदानीं सपक्षव्यावृत्तज्ञानं नास्ति अनित्यत्वरूपसाध्यवतः पक्षस्यैव सपक्षत्वात्। अथवाऽसाधारणस्य दूषकताबीजं विरोधिव्याप्तिग्रहसामग्रीद्वारा यथा पृथिवी अनित्या पृथिवीत्वात्। अत्र साध्यतदभावयोर्व्याप्ति