________________ 420 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका मेवेत्यत आह - ज्ञायमानदोषस्यैवेति टीका / यद्विषयकं ज्ञानमनुमितिप्रतिबन्धकं तस्यैव हेत्वाभासत्वेनात्र लक्ष्यत्वात्।न चपक्षताविरहादिज्ञानस्यानुमितिप्रतिबन्धकत्वं किन्तुपक्षताविरहस्यैवेति[214A] पक्षताविरहादेरलक्ष्यत्वान्न तत्राव्याप्तिर्दोषायेति भावः / प्राचीनमते अनुमितिप्रतिबन्धकमात्रस्यैव हेत्वाभासत्वात् तस्य लक्ष्यत्वम् / न च मणिकृन्मते तथेति पक्षतारूपानुमितिकारणाभावादेवानुमितिरूपकार्याभाव इति सुष्ठूक्तम् - इष्टापत्तेरिति।नचेति।अज्ञानादिः परामर्शाभावादिः ज्ञायमानो ज्ञानविषयीभूतः प्रतिबन्धकः / ननु व्याप्यवत्त्वाज्ञानदशायां कथं नानुमितिर्यदि परामर्शाभावस्य न प्रतिबन्धकत्वमित्यत आह - कारणाभावत्वेनेति टीका / परामर्शरूपस्य कारणस्याभावत्वेन स्वरूपसत एव ज्ञानाविषयीभूतस्यैव प्रतिबन्धकत्वात्। तथा च तस्य पक्षताविरहस्य परामर्शाभावस्य च न हेत्वाभासत्वमिति भावः / न चैवमिति टीका / परामर्शाभावरूपासिद्धेर्यदि न हेत्वाभासत्वेन लक्ष्यत्वंतदासन्दिग्धासिद्धया (द्धा)दयोऽपि निग्रहस्थानत्वेन प्रतिवादिषु नोद्भाव्याः हेत्वाभासत्वेनालक्ष्यत्वात्।सन्दिग्धासिद्धः स उच्यते यस्य व्याप्तिपक्षधर्मतान्यतरसन्देहेन प्रतिवादिनो व्याप्तिपक्षधर्मतान्यतरनिश्चयाभावः / यथा सर्वमनित्यं मेयत्वात् इत्यत्रमेयत्वस्यानित्यत्वव्याप्तिसन्देहदशायां मेयत्वस्यानित्यत्वव्याप्तिनिश्चयाभावः इत्ययं सन्दिग्धासिद्धः / अज्ञायमानदोषत्वेनेति / उक्तसन्दिग्धासिद्धस्य ज्ञानविषयीभूतत्वेनाप्रतिबन्धकत्वेन हेत्वाभासत्वाभावात्भवतांज्ञायमानदोषस्यैव हेत्वाभासत्वात्पूर्वं सन्दिग्धासिद्धेहेत्वाभासत्वं नास्तीत्युक्तम् यतो ज्ञायमानदोषस्यैव हेत्वाभासत्वेनोपवर्णितत्वात् / सन्दिग्धासिद्धिर्ज्ञायमानो दोषो न भवति / यत्र हेतुनिश्चयः पक्षे नास्ति स सन्दिग्धासिद्धः / स च हेत्वाभासो न भवतीति पूर्वमुक्तम् यतो ज्ञायमान एव दोषः प्रतिबन्धकः / तस्य ज्ञान प्रतिबन्धकं सन्दिग्धासिद्धस्य ज्ञान प्रतिबन्धकं न भवति किन्तु स्वरूपसन्नेव सन्दिग्धासिद्धः कारणाभावत्वेन दोषः / यत्तु हेतुः सन्दिग्धः तत्र हेतुज्ञानमेव निश्चयरूपं नास्तीति, यथा पर्वतो वह्निमान् वह्निमत्प्रकारकप्रमाविषयत्वात् इत्यत्र वह्रौ अनिश्चिते वह्निमत्त्वप्रकारकप्रमाविषयत्वमपि निश्चेतुं न शक्यते इतिकृत्वाऽयं सन्दिग्धासिद्धः, तेन सस्वरूपसन्नेवप्रतिबन्धको न तुहेतुनिश्चयाभावस्यापिज्ञानमपेक्षितम्, तथा च सन्दिग्धासिद्धः 'कारणाभावमात्रं न तु तस्य दोषत्वम्, तथा च तस्य दोषत्वमेव नास्ति, तथा च सन्दिग्धासिद्धेर्वादे उद्भावनं न स्यात् / यदि एतस्य हेत्वाभासविधयोद्भावनं तदाऽस्य हेत्वाभासत्वमेव नास्ति यतो यद्विषयकं ज्ञानमनुमितिप्रतिबन्धकं स एव हेत्वाभासः / एतस्य च ज्ञानं प्रतिबन्धकमेव न भवति इति कृत्वा नायं हेत्वाभासः / नन्वस्य हेत्वाभासत्वाभावेऽपि निग्रहस्थानविधया एतस्य वादे उद्भावनं [214 B] भविष्यतीत्यत आह - निग्रहेति टीका। तथा च निग्रहस्थानमध्येऽप्येतस्यागणितत्वात् न तत्रान्तर्भाव इति / ज्ञानघटितं हेत्वाभासलक्षणं न कर्तव्यमेवेत्याशङ्कार्थः।समाधते- हेत्वाभासाश्चेतिटीका।पञ्चमाध्यायसमाप्तिस्थितचकारेणा१. अनुमिति / प्रतौ टिप्पणी।