________________ हेत्वाभाससामान्यनिरुक्तिः 419 व्यभिचारीति ज्ञानस्य वहिव्यभिचारविषयत्वेन प्रतिबन्धकत्वात् यद्विषयत्वेन प्रतिबन्धकत्वं तत्त्वं व्यभिचाररूपे धर्मेऽस्तिनतुधर्मिणि वढ्यादौ अस्ति इत्यत आह - अनेनेतिटीका।यद्विषयत्वेन ज्ञानस्य प्रतिबन्धकत्वमित्यनेन व्यभिचारादयोधर्माः साध्याभाववद्वृत्तित्वादयो विवक्षिताः।आदिपदा विरुद्धत्वादय उपगृह्यन्ते। नन्वेवं धर्मिणि वढ्यादौ अव्याप्तिस्तदवस्थेत्यत आह - तत्त्वमिति। तत्रेति। यद्विषयत्वेन ज्ञानस्य प्रतिबन्धकत्वं तत्त्वं ज्ञायमानम् / यद् यदनुमितिप्रतिबन्धकं तत्त्वमिति लक्षणद्वये द्वितीयतृतीयरूपे तत्त्वमित्यनेन तद्वत्त्वमिति विवक्षितम्, [213 B] तथा च यद्विषयत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वं तद्वत्वं ज्ञायमानं सत् यदनुमितिप्रतिबन्धकं तद्वत्त्वमिति द्वितीयतृतीयलक्षणे पर्यवसितम् / तेन धर्मिणि वक़्यादौ नाव्याप्तिः / तथाहि धूमवान् वह्नः इत्यादौ वह्निधूमव्यभिचारीति ज्ञानस्य वह्नौ धूमाभाववद्वृत्तित्वविषयत्वेन प्रतिबन्धकत्वं वह्नौ धूमाभाववद्वृत्तित्ववत्त्वमस्त्येव / एवमयं गौरश्वत्वात् इत्यादौ अश्वत्वं गोत्वाभावव्याप्यमिति ज्ञानस्याश्वत्वे गोत्वाभावव्याप्यत्वविषयत्वेन प्रतिबन्धकत्वम्, गोत्वाभावव्याप्यत्ववत्त्वं चाश्वत्वे वर्तत एवेति नाश्वत्वेऽव्याप्तिरिति / एवमन्यत्रापि असिद्धत्वाधिर्मविषयत्वेनैव ज्ञानस्य प्रतिबन्धकत्वात् तद्वत्त्वमसिद्धादौ धर्मिण्येव वर्तत इति न धर्मिणि कुत्रापि अव्याप्तिरित्यर्थः / तेनेति / ज्ञाने यद्विषयत्वेनानुमितिप्रतिबन्धकत्वं तद्वत्त्वमिति विवक्षणेन व्यभिचारादौ धर्मे धूमाभाववद्वृत्तित्वादौ नातिव्याप्तिः, तद्वत्त्वाविवक्षायां तुभवतिधर्मे व्यभिचारादौ अतिव्याप्तिः। तथाहि धूमवान् वढेरित्यादौ वह्निर्धूमव्यभिचारीति ज्ञानस्य व्यभिचारविषयत्वेन प्रतिबन्धकत्वं ताद्वात्त्वं च व्यभिचारेऽस्तीति भवति व्यभिचारे अतिव्याप्तिः / ज्ञाने यद्विषयत्वेनानुमितिप्रतिबन्धकत्वं तद्वत्त्वमिति विवक्षायां चन धर्मे व्यभिचारादौ अतिव्याप्तिः। तथाहिधूमवान् वढेरित्यादौ वह्निधूमव्यभिचारीति ज्ञानस्य वह्नौधूमव्यभिचारविषयत्वेनैव प्रतिबन्धकत्वं तद्वत्त्वं तु वहावेव वर्तते न तु व्यभिचारादाविति न तत्रातिव्याप्तिरिति पर्यवसितोऽर्थः / असम्भव इति / धर्मिणि वक़्यादौ व्यभिचारविषयत्वे ज्ञानस्य प्रतिबन्धकत्वात् तत्त्वं तद्वति धर्मत्वं व्यभिचारादौ धर्मेऽस्ति न तु व्यभिचारिणि वह्नावस्तीत्यसम्भवः / न चेति टीका / पर्वतो वह्रिमान् धूमात् इत्यत्र पर्वते वह्निसिद्धिदशायां वन्यनुमितिः सिद्धसाधनात्। स चानुमित्यभावः सिद्ध्यभावरूपपक्षताविरहप्रयुक्त इतितत्रपक्षताविरहरूपाश्रयासिद्धे हेत्वाभासे लक्ष्येऽव्याप्तिः। न हि तत्र सिद्धियभावरूप]पक्षताविरहज्ञानस्य प्रतिबन्धकत्वं किन्तु पक्षताविरहस्यैवप्रतिबन्धकत्वम्।एवं वह्रिव्याप्यवत्त्वपरामर्शाभावदशायांवढ्यनुमित्यभावात् वहिव्याप्यवत्त्वपरामर्शाभावस्यैवासिद्धेः प्रतिबन्धकत्वमिति न तु परामर्शाभावज्ञानस्येति / तत्र स्वरूपासिद्धावव्याप्तिरित्याशङ्कार्थः / भवता तु लक्षणं कृतं यद्विषयत्वेन ज्ञानस्य प्रतिबन्धकत्वमिति तत्रोक्तस्थले ज्ञानस्याप्रतिबन्धकत्वादिति भावः / इष्टापत्तेरिति टीका / पक्षताविरहरूपासिद्धस्य परामर्शाभावरूपस्वरूपासिद्धस्यासङ्ग्रहेऽपि दोषाभावात् / ननु अनुमितिप्रतिबन्धकमात्रस्यैव लक्ष्यत्वात् तयोरपिअनुमितिप्रतिबन्धकत्वात् लक्ष्यत्वमेवेति। तत्राप्यव्याप्तिर्दूषण