________________ 417 हेत्वाभाससामान्यनिरुक्तिः यो धर्मस्तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वं विवक्षितम्, तच्च सत्प्रतिपक्षेऽप्यस्तीति नाव्याप्तिः / तथाहि - अनित्यत्वानुमितौ प्रतिबन्धकं नित्यत्वव्याप्यव्योमैकगुणत्वज्ञानम्, प्रतिबन्धकतावच्छेदकं च नित्यत्वव्याप्यव्योमैकगुणत्ववत्त्वम्, तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वं च कृतकत्वेऽप्यस्ति यथा इदं कृतकत्वम् अनेन व्योमैकगुणत्वेन सत्प्रतिपक्षितमिति सकलमतसिद्धव्यवहारादिति समाधानार्थः / ननु व्यभिचारादौ वह्निधूमव्यभिचारीति ज्ञानस्यैवानुमितिप्रतिबन्धकस्य प्रकृतहेत्वाभासलक्षणघटकत्वमिति वैषम्यमिति अत आह - तथेति। व्यभिचारादौ प्रतिबन्धकीभूतज्ञानस्यैव लक्षणघटकत्वं सत्प्रतिपक्षे चातादृशस्यापिअप्रतिबन्धकस्यापि लक्षणघटकत्वमित्यन्यदेतत्।अनेनेदं सत्प्रतिपक्षितमितिज्ञानं सत्प्रतिपक्षेन प्रतिबन्धकं किन्तु विरुद्धपरामर्शज्ञानस्यैव प्रतिबन्धकत्वमिति [212 B] भावः / न ह्येतावता प्रकृते काऽपि क्षतिरिति भावः / अन्यथेति। अनुमितिप्रतिबन्धकीभूतज्ञानस्यैव प्रकृतलक्षणघटकत्वे बाधिते जलह्रदो वह्निमान् धूमात् इत्यत्र बाधितेऽव्याप्तिः / अव्याप्तिमेव द्रढयति- नहीति। इदं लिङ्गं बाधितमितिज्ञानस्य प्रकृतलक्षणघटकत्वम्।न च तदनुमितिप्रतिबन्धकं किन्तु जलह्रदो न वह्रिमानिति ज्ञानमेव / ग्राह्यो वह्रिस्तदभावावगाहितया प्रतिबन्धकम् / तथा च जलह्रदो वह्निमान् धूमात् इति बाधिते अव्याप्तिः / अनुमितिप्रतिबन्धकतावच्छेदको यो धर्मो बाधः तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वरूपलक्षणघटकीभूतज्ञानस्य जातस्य बाधितमिदं लिङ्गमित्येवंरूपस्यानुमित्यप्रतिबन्धकत्वात् / इति लक्षणघटकीभूतज्ञानस्यानुमितिप्रतिबन्धकत्वावश्यकत्वे बाधितेऽव्याप्तिरिति अन्यथेत्यारभ्यार्थः। किन्त्विति / पक्षे साध्याभावविषयकस्यैव ज्ञानस्य प्रतिबन्धकत्वं ग्राह्याभावावगाहित्वात् / ननु लिङ्गनिष्ठसाध्याभाववत्पक्षसम्बन्धित्वज्ञानस्य बाधितमिदमितिज्ञानस्य विरोधाविषयत्वात्ग्राह्याभावानवगाहित्वादित्यर्थः / पक्षे साध्याभावज्ञानं प्रतिबन्धकं हेतौ साध्यस्याग्राह्यत्वात्। हेतुनिष्ठबाधितवृत्तित्वज्ञानस्य ग्राह्याभावानवगाहित्वात्न प्रतिबन्धकत्वमितिभावः / अत्रेति टीका। अत्रलक्षणे यथाअनुमितिप्रतिबन्धकतावच्छेदको योधर्मः तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वम् इति हेत्वाभासलक्षणे अनुमितिप्रतिबन्धकतावच्छेदकवत्त्वं येन केनापि सम्बन्धेन अथवा सत्प्रतिपक्षितत्वादिव्यवहारप्रयोजकतत्तत्सम्बन्धेन वा ? नाद्यः, वह्रिमान् धूमात् इत्यत्र धूमे सद्धेतौ अतिव्याप्तेः, धूमेऽपि वह्नयभाववदृत्तित्वस्य येन केनापि सम्बन्धेन सत्त्वात्, कालिकसम्बन्धेन यथा यत्र काले धूमः पर्वते तत्र कालेऽयोगोलके वह्नयभावसम्बन्धः / नान्त्यः, अननुगमात् / तथाहि प्रकृतलक्षणे एकसम्बन्धस्याप्रवेशात् / व्यभिचारादौ समवायादिः प्रविष्टः। धूमाभाववान् अयोगोलकः तत्संयोगस्तु वह्रौ समवायेनास्ति इति व्यभिचारे समवायः, सत्प्रतिपक्षे च ज्ञानरूपः सम्बन्धो यथा अनेनेदं सत्प्रतिपक्षितमिति ज्ञानमत्र ज्ञानरूपः सम्बन्धः इत्यननुगम इति चिन्त्यं दूषणम् / अत्र समाधानं चिन्त्यम्। नन्विति। ज्ञाने विषयतया अनुमितिप्रतिबन्धकतावच्छेदको यो धर्मो लिङ्गान्यत्वे सति तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वमिति लक्षणे पर्यवसिते ज्ञाने याथार्थ्यमनुमिति