________________ 416 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रतिबन्धकतावच्छेदकनित्यत्वव्याप्यवत्त्वं कृतकत्वेऽस्ति। तथाहि - वस्तुसत्त्वे प्रतीतिरेव प्रमाणम्, तथा च इदं लिङ्गं कृतकत्वरूपं लिङ्गमनेन व्योमैकगुणत्वादिना सत्प्रतिपक्षितमिति प्रतीतेः कृतकत्वेऽपि व्योमैकगुणत्वसम्बन्धोऽस्ति, तेन सम्बन्धेन तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वमप्यस्ति, अनेनेदं सत्प्रतिपक्षितमिति ज्ञानस्य सर्वमते यथार्थत्वात्। एवं व्योमैकगुणत्वेऽपि अनित्यत्वव्याप्यकृतकत्वसम्बन्धोऽस्ति, इदं व्योमैकगुणत्वमनेन अनित्यत्वव्याप्यकृतकत्वेन सत्प्रतिपक्षितमिति सकलमतसिद्धप्रतीतेः। तथा च कृतकत्ववत्त्वगोचरयथार्थज्ञानविशेष्यत्वमप्यस्ति, अनेनेदं सत्प्रतिपक्षितमिति प्रतीतेः / इति सत्प्रतिपक्षे नाव्याप्तिरिति समाधानार्थः / ननु कृतकत्वे व्योमैकगुणत्वस्य कः सम्बन्धः ?, न तावत् समवायः व्योमैकगुणत्वस्योपाधित्वात्, नापि संयोगः तस्य च द्रव्यवृत्तित्वात् कृतकत्वस्याद्रव्यत्वात्, इत्यत आह - ज्ञानरूपेति। तथा च कृतकत्वे व्योमैकगुणस्य समवायादिसम्बन्धाभावेऽपि ज्ञानरूप एव सम्बन्धो वक्तव्यः / यथा घटज्ञानं घटस्य ज्ञानमिति प्रतीत्या घटे ज्ञानमेवसम्बन्धः समवायाद्यभावात् विशिष्टज्ञानस्य सत्त्वात् तथा प्रकृतेऽप्यनेनदं सत्प्रतिपक्षितमितिविशिष्टप्रतीतेः कृतकत्वेऽपि व्योमैकगुणत्वस्य ज्ञानरूप एव सम्बन्ध इति समाधानार्थः / नन्वस्तु सम्बन्धः ज्ञानरूप इत्यत्र किं विनिगमकम् ?, कृतकत्वादेरेव [212 A] हेतोः स्वरूपस्य सम्बन्धत्वसम्भवादित्यत आह - अत एवेति। यत एव ज्ञानरूप एव तत्र सम्बन्धोऽतएव ज्ञानस्यानित्यत्वात् सत्प्रतिपक्षस्यानित्यदोषत्वम्। कृतकत्वादेः सम्बन्धत्वे सत्प्रतिपक्षस्यानित्यत्वदोषत्वं न स्यात्, सम्बन्धः कृतकत्वं सम्बन्ध्यपि कृतकत्वमेवेत्येवं सम्बन्धसम्बन्धिनोनित्यत्वात्।ज्ञानस्य सम्बन्धत्वे तदभावदशायां भवतिसत्प्रतिपक्षस्यानित्यदोषत्वम्, नित्यकृतकत्वस्य सम्बन्धिनः सत्त्वेऽपि ज्ञानस्य सम्बन्धस्याभावादिति भावः / न चैवमिति / सत्प्रतिपक्षे यथा ज्ञानरूपसम्बन्धमादायानुमितिप्रतिबन्धकतावच्छेदकाधीवत्त्वं तथा धूमो वहिव्यभिचारीति ज्ञानरूपसम्बन्धमादाय धूमेऽपि अनुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वस्य सत्त्वात् धूमेऽतिव्याप्तिरित्याशङ्कार्थः / तज्ज्ञानस्येति।धूमो वह्निव्यभिचारीति ज्ञानस्यायथार्थत्वेन सकलमतसिद्धायथार्थत्वेन तत्र धूमे तत्सम्बन्धत्वाकल्पनात् धूमो वह्निव्यभिचारीति ज्ञानस्य सम्बन्धत्वाकल्पनात् / अतो धूमे ज्ञानसम्बन्धाभावात् नातिव्याप्तिरित्यर्थः / न चेति / शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वात् इत्यत्र सत्प्रतिपक्षेऽनित्यत्वनित्यत्वव्याप्यवत्तापरामर्शस्यैव सम्बन्धीभूतस्यानित्यत्वनित्यत्वानुमितौ प्रतिबन्धकत्वम् / ननु ज्ञानरूपसम्बन्धावगाहिनोऽनेनेदं सत्प्रतिपक्षितमिति ज्ञानस्य प्रतिबन्धकत्वम्, तथा च सत्प्रतिपक्षे पुनरप्यव्याप्तं तद्वत्त्वगोचरयथार्थज्ञानस्यैव प्रतिबन्धकत्वम्, तच्च सताप्रतिपक्षे नास्तीति शङ्कितुराशयः / दूषयति - इष्टापत्तेरिति / इष्टापत्तिबीजमाह - न हीति। यादृशज्ञानविशेष्यत्वं प्रकृतलक्षणघटकं तादृशज्ञानस्यानुमितिप्रतिबन्धकत्वं न विवक्षितं येन सत्प्रतिपक्षेऽव्याप्तिः स्यात् / किन्त्विति। अनुमितिप्रतिबन्धकीभूतस्य यस्य कस्यापि ज्ञानस्य प्रतिबन्धकतावच्छेदको