________________ हेत्वाभाससामान्यनिरुक्तिः 415 वत्त्वगोचरवहिधूमव्यभिचारी धूमसामग्री धूमव्याप्येति समूहालम्बनमादाय धूमसामा यां सद्धेतौ प्रकृतलक्षणातिव्याप्तिरिति स्पष्टः शङ्कार्थः / समाधत्ते - तदंशे इति टीका / यत्र हेत्वाभासत्वेन लक्षणोपसंहारस्तस्मिन्नंशे तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वस्य विवक्षितत्वादित्यर्थः / न चैवं धूमसामा यां सद्धेतावतिव्याप्तिः, तथाहि वहिधूमव्यभिचारीधूमसामग्रीधूमव्याप्येतिसमूहालम्बनविषयत्वेऽपिधूमसामा या धूमसामा यशेधूमव्यभिचारवत्त्वगोचरयथार्थज्ञानविशेष्यत्वाभावात् तस्य समूहालम्बनस्य वह्नयंशे धूमव्यभिचारवत्त्वांशे यथार्थत्वात् इति तदंशे हेत्वाभासत्वमेव धूमसामा यास्तु तथात्वाभावात् नातिव्याप्तिरिति समाधानार्थः / ननु जलह्रदो वह्निमान् द्रव्यत्वात् इत्यादौ बाधितेऽव्याप्तिः, तत्र वढ्यभाववति जलहदे जलह्रदो न वह्निमान् इति बाधज्ञानमनुमितिप्रतिबन्धकम्, तत्र विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदकः साध्याभावएव, न चानुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वं हेतौ द्रव्यत्वेऽस्तीति, यतः साध्याभाववत्त्वं जलह्रदे पक्षे एव वर्तते परं द्रव्यत्वरूपहेतौ नास्तीति ज्ञानेऽनुमितिप्रतिबन्धकतावच्छेदको यो धर्मस्तद्वत्त्वगोचरयथार्थज्ञानविषयत्वस्य बाधिते हेतौ अव्याप्तिरित्यत आह - सबाधितमिदमिति / तथा च द्रव्यत्वं सबाधितमिति / ज्ञानविषय इति / तत्रापि द्रव्यत्वेऽप्यनुमितिप्रतिबन्धकतावच्छेदकस्य साध्याभावविशिष्टपक्षस्य हेतोः सत्त्वात् / तथा च साध्याभावविशिष्टपक्षवृत्तित्वं हेतावस्त्येवेति नाव्याप्तिः / इदमिति द्रव्यत्वं हेतुः / न चेति तथापीति / ज्ञानेऽनुमितिप्रतिबन्धकतावच्छेदको यो धर्मस्तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वस्य हेत्वाभासलक्षणस्य निर्वचनेऽपि सत्प्रतिपक्षे शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वात् इत्यादौ अव्याप्तिः।अव्याप्तिमेव दर्शयति - विरोधीति।प्रथममनित्यत्वव्याप्यकृतकत्ववान् इतिपरामर्शजन्यानुमितौ नित्यत्वव्याप्यव्योमैकगुणत्ववान् इति[211B] साध्याभावव्याप्यवत्त्वपरामर्शस्यैवप्रतिबन्धकत्वम्। तत्रचप्रतिबन्धकतावच्छेदकं विषयतया नित्यत्वव्याप्यव्योमैकगुणत्ववत्तैव / नचनित्यत्वव्याप्यव्योमैकगुणत्ववत्त्वंकृतकत्वेऽस्ति, व्योमैकगुणत्ववत्त्वस्य शब्दनिष्ठत्वात् कृतकत्वेऽभावात् / एवं नित्यत्वव्याप्यव्योमैकगुणत्ववान् इतिपरामर्शजन्यानुमितौ अनित्यत्वव्याप्यकृतकत्ववान् इति साध्याभावव्याप्यवत्तापरामर्शस्य प्रतिबन्धकत्वम् / तत्र विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदकं तु अनित्यत्वव्याप्यकृतकत्ववत्त्वमेव / न च तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वं व्योमैकगुणत्वेऽस्ति व्योमैकगुणत्वे कृतिजन्यत्वाभावादिति सत्प्रतिपक्षेऽव्याप्तिरिति शङ्कार्थः / प्रतिसाधनस्येति / अनित्यत्वरूपसाध्यस्याभावो नित्यत्वम्, तस्य यत् साधनं व्योमैकगुणत्वादिस्तज्ज्ञानस्यैव प्रतिबन्धकत्वादित्यर्थः / स्थापनाहेताविति। कृतकत्वे हेतौ तत्सम्बन्धाभावेन अनित्यत्वानुमितिप्रतिबन्धकीभूतनित्यत्वव्याप्यवत्तापरामर्शविषयनित्यत्वव्याप्यवत्त्वगोचरयथार्थज्ञानविशेष्यत्वाभावेनेत्यर्थः / इदंलिङ्गमिति। भवतु अनित्यत्वानुमितौ नित्यत्वव्याप्यवत्तापरामर्शस्य प्रतिबन्धकत्वं भवतु चतद्विषयीभूतनित्यत्वव्याप्यवत्त्वस्यप्रतिबन्धकतावच्छेदकत्वं तथापि अनित्यत्वानुमिति