________________ 414 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदनवतारदशायामपि मैत्रं प्रतिहेत्वाभासत्वापादकाभावादित्यर्थः / ननु अस्त्येवआपादकम्, तथाहि - अनुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वगोचरयथार्थज्ञानविशेष्यत्वमेव हि सर्वपुरुषं प्रति हेत्वाभासत्वमिति / तत्रापि तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वात् मैत्रं प्रत्यपि हेत्वाभासत्वापत्तिरित्यत आह - न हीति / तादृशेति / अनुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वगोचरयथार्थज्ञानविशेष्यः सर्वपुरुषं प्रति हेत्वाभास इतिन प्रकृतलक्षणार्थः / किन्त्विति। तादृशेति। अनुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वगोचरयथार्थज्ञानविशेष्ये हेत्वाभासत्वमित्येव हेतुतदाभासविवेकोपपत्तिरित्यर्थः / तथा च पुरुषविशेषनियन्त्रितहेत्वाभासत्वव्यवहारप्रयोजकमिदं लक्षणं नोच्यते किन्तु सामान्यतो हेत्वाभासत्वव्यवहारप्रयोजकं लक्षणमुच्यते / तच्च चैत्रानुमितिप्रतिबन्धकत्वात् नातिप्रसङ्गो मैत्रं प्रत्यपीति समाधानार्थः। नन्वेवं चैत्रस्य सत्प्रतिपक्षावतारदशायां मैत्रस्यापि तस्य हेतोः सत्प्रति-.. पक्षत्वापत्तिः चैत्रसमानबलोपस्थिता, यथाऽनित्यत्वव्याप्यकृतकत्ववानयं तथा नित्यत्वव्याप्यव्योमैकगुणत्ववान् इत्येवंरूपया प्रतिरुद्धचैत्रानुमितिकत्वात् इति मैत्रं प्रत्यपि कृतकत्वहेतोः सत्प्रतिपक्षत्वापत्तिरित्यत आह - तत्पुरुषीयेति। तथा च मैत्रानिरूपितसत्प्रतिपक्षतायां मैत्रस्य समानबलोपस्थित्या प्रतिरुद्धं यत् मैत्रानुमितिरूपं कार्यलिङ्गं तत् त्वस्य मैत्रनिरूपितसत्प्रतिपक्षतायां प्रयोजकत्वात् / चैत्रसत्प्रतिपक्षावतारेऽपि मैत्रस्यानुमितिप्रतिबन्धकत्वाभावात् न मैत्रं प्रति सत्प्रतिपक्षत्वापत्तिरिति प्रघट्टकार्थः / एवमिति / शब्दोऽनित्यः शब्दत्वात् इत्यत्रशब्दत्वमनित्यत्ववन्नित्यत्ववढ्यावृत्तमिति चैत्रीयाऽसाधारण्यावतारदशायां मैत्रं प्रत्यापत्तिः शब्दत्वस्येति न भवति आपादकाभावात् / न हि सर्वपुरुषीयहेत्वाभासत्वव्यवहारप्रयोजकमिदं लक्षणं निरुच्यते किन्तु सामान्यतो हेत्वाभासत्वव्यवहारप्रयोजकम्, हेत्वाभासत्वस्य निष्प्रतियोगिकत्वात् यथापुरुषविशेषप्रत्यसाधारण इतिवत् पुरुषविशेष प्रति हेत्वाभासइतिव्यवहाराभावात्। तथा चन मैत्रं प्रतिचैत्रासाधारण्यावतारदशायां हेत्वाभासत्वापत्तिरित्यर्थः / सामान्यत इति / हेत्वाभासत्वव्यवहारमात्रापादने इष्टापत्तिः चैत्रानुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वगोचरयथार्थज्ञानविशेष्यत्वात् / सामान्यतो हेत्वाभासत्वं भवतु परं मैत्रीयहेत्वाभासत्वं न भवति आपादकत्वाभावादित्युक्तम् / न च चैत्रस्यासाधारण्यावतारदशायां मैत्रस्य तदनवतारदशायां सद्धेतौ शब्दत्वे मैत्रीयासाधारण्यापत्तिः [211 A] चैत्रीयानुमितिप्रतिबन्धकज्ञानविषयत्वादिति वाच्यम् तत्तत्पुरुषीयासाधारण्यव्यवहारं प्रति [? न] तत्तत्पुरुषीयानुमितिप्रतिबन्धकसकलसपक्षविपक्षव्यावृत्तत्वज्ञानमस्ति येन मैत्रं प्रत्यप्यसाधारणं स्यादिति भावः / न चेति / धूमवान् वढेः इत्यत्र वह्निधूमव्यभिचारी धूमसामग्री धूमव्याप्येति समूहालम्बनमादायधूमसामा यामतिव्याप्तिः, तथाहि वह्नौ अनुमितिप्रतिबन्धकतावच्छेदकधूमव्यभिचारवत्त्वगोचरयथार्थज्ञानविशेष्यत्वात् धूमसामा याः वह्निर्धूमव्यभिचारीधूमसामग्रीधूमव्याप्येति समूहालम्बनसम्भवात् / अयमाशयः / उक्तरूपं समूहालम्बनज्ञानं वह्निव्यभिचारधूमसामग्रीविषयकमेकमेव।तथा चवह्नौ धूमव्यभिचार