________________ 413 हेत्वाभाससामान्यनिरुक्तिः सार्थकत्वमिति न्यायात्धूमप्रागभावत्वस्य धूमप्रागभावनिष्ठव्याप्त्यवच्छेदकतयासार्थकत्वम्।तथाहिधूमप्रागभावनिष्ठा व्याप्तिधूमप्रागभावावृत्तिना धूमत्वेन नावच्छिद्यते परं धूमप्रागभावत्वेनावच्छिद्यते / यथा यत्र यत्र धूमप्रागभावस्तत्र वह्रिरिति (210 A) व्याप्तिग्रहात् इति कृत्वा धूमप्रागभावपदं न व्यर्थम्, तथा प्रकृतेऽपि अनुमितिप्रतिबन्धकतावच्छेदको यो धर्मस्तद्वत्त्वगोचरयथार्थज्ञानविषयत्वरूपहेत्वाभासेतरभेदसाध्यकहेतौ या व्याप्तिर्गृह्यते साऽनुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वेन नावच्छिद्यते / तस्य हि अनुमितिप्रतिबन्धकतावच्छेदकवत्त्वगोचरयथार्थज्ञानविषयत्वावृत्तित्वेन व्याप्तिव्यधिकरणत्वादिति न वैयर्थ्यमिति समाधानार्थः / तथा चेति / अनुमितिप्रतिबन्धकतावच्छेदकस्य ज्ञानविशेषणत्वे ज्ञाने च यथार्थत्वविशेषणाप्रवेशे वह्निमान् धूमात् इत्यत्र धूमेऽतिव्याप्तिः। तत्रापि हि धूमो वहिव्यभिचारीति भ्रममादायानुमितिप्रतिबन्धकतावच्छेदको यो धर्मो वह्नयभाववद्वृत्तित्वं तद्वत्त्वगोचरज्ञानविषयत्वस्य धूमे सत्त्वादिति सद्धेतौ धूमेऽप्यतिव्याप्तिः / तथा च तद्वत्त्वस्य ज्ञानविशेषणत्वमित्युक्तत्वात् यथार्थत्वविशेषणप्रवेशे च न तत्रातिव्याप्तिः, धूमे वहिव्यभिचारित्वगोचरयथार्थज्ञानविशेष्यत्वाभावात् धूमो वह्निव्यभिचारीति ज्ञानस्यायथार्थत्वात् धूमे वहिव्यभिचारित्वाभावात् इत्यभिप्रायः। नन्वनित्ये दोषसाधारणादावज्ञानदशायामव्याप्तिर्णोद्धृता। तथाहि - साधारण्येऽनुमितिप्रतिबन्धकतावच्छेदको यो धर्मो व्यभिचारादिस्तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वाभावात् साधारण्यं तु ज्ञातमेव नास्ति। तत्र विशेषणत्वपक्षे ज्ञानगर्भ लक्षणमव्याप्तम्।न चतस्योपलक्षणमस्त्विति वाच्यम्। तस्यासाधारण्योत्तीर्णतादशायां सद्धेतावतिव्याप्तिरित्युक्तत्वादित्यत आह - तादृशेति। अनुमितिप्रतिबन्धकतावच्छेदको यो धर्मो व्यभिचारादिस्तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वस्य विशेषणत्वमेव, विद्यमानत्वे सति व्यावर्तकत्वं यद्विशेषणत्वंतत्त्वमेवेत्यर्थः / तथा च नोपलक्षणतापक्षमादायासाधारण्योत्तीर्णे सद्धेतावतिव्याप्तिः, तदानीं तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वरूपविशेषणस्याभावात् इति भावः।नचेति।धूमो वहिव्यभिचारीति ज्ञानाभावदशायां धूमेऽनुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वगोचरयथार्थज्ञानविशेष्यत्वाभावात् तद्दशायां साधारणे वक़्यादावव्याप्तिरिति शङ्कार्थः / तत्रेति। साधारणे वढ्यादावस्मदादिज्ञानाविषयत्वदशायामपि वहिधूमव्यभिचारीत्याकारकेश्वरज्ञानमादायानुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वगोचरयथार्थज्ञानविशेष्यत्वस्य सत्त्वात् नाव्याप्तिरीश्वरज्ञानस्य हि नित्यत्वात् सर्वविषयत्वाच्चेतिभावः। एतद्वदिति। इदं लिङ्गंवहिरूपंलिङ्गम्, एतद्वत्धूमव्यभिचारित्ववदित्यर्थः / न चेति शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वात् इत्ययं सत्प्रतिपक्षावतारः, यदा चैत्रस्य सत्प्रतिपक्षावतारो जातस्तत्र मैत्रं प्रति कृतकत्वस्य हेतोः हेत्वाभासत्वापत्तिः, मैत्रेणैवं ज्ञातं चैत्रायानुमितिप्रतिबन्धकतावच्छेदकयथार्थज्ञानविशेष्यत्वं कृतकत्वे इति[210B] शङ्कार्थः / तथा च मैत्रस्यापीदृशज्ञानसत्त्वात् हेत्वाभासताज्ञानं स्यादिति भावः / आपादकाभावादिति टीका / चैत्रस्य सत्प्रतिपक्षावतारदशायां मैत्रस्य