SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ 412 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पक्षोत्तीर्णे सत्प्रतिपक्षाभावदशायामप्यस्तीति तद्दशायामतिव्याप्तिरित्यतआह - तात्कालिकेति। तात्कालिकत्वं चात्र यस्मिन् काले यो लक्ष्यत्वेनाभिमतो हेत्वाभासस्तत्कालावच्छेदेनानुमितिप्रतिबन्धकतावच्छेदकवत्त्वगोचरयथार्थज्ञानविशेष्यत्वं विवक्षितम्।न चेदं सत्प्रतिपक्षोत्तीर्णतादशायां सद्धेतावस्ति। तथाहि - नष्टो गकार इत्यादि नित्यत्वरूपविपक्षबाधकावतारदशायां सत्प्रतिपक्षोत्तीर्णे तत्कालावच्छेदनानुमितिप्रतिबन्धकतावच्छेदकवत्त्वगोचरयथार्थज्ञानविशेष्यत्वाभावात् / अनुमितिप्रतिबन्धकतावच्छेदकं तु सत्प्रतिपक्षे विषयतया साध्याभावव्याप्यत्वमेव।नच सत्प्रतिपक्षोत्तीर्णतादशायां हेतौ तद्वत्त्वमस्ति येन तत्कालावच्छेदेन तद्वत्त्वज्ञानं यथार्थं स्यात्, इति सत्प्रतिपक्षोत्तीर्णतादशायां सद्धेतौ अनित्यत्वसाध्यकृतकत्वदशायां नातिव्याप्तिः / पाकरक्ते इति / यथा [209 B]पाकात् पूर्वं घट: श्यामोऽभवत्, पाकानन्तरं श्यामे रूपे नष्टे रक्तरूपमुत्पन्नम्, तद्दशायां रक्तत्वदशायां श्यामोऽयं घट इति बुद्धिर्यथार्था, बुद्धेर्याथार्थ्यं तु तद्वति तत्प्रकारकत्वमेव, तच्च रक्तत्वदशायां घटः श्याम इति ज्ञानेऽप्यस्तिश्यामत्ववति घटेश्यामत्वप्रकारकत्वात्।अयथार्था तु बुद्धिः रक्तत्वदशायाम् इदानीं श्यामइति ज्ञानं तस्यहि रक्तत्वकालावच्छेदेनश्यामत्वप्रकारकत्वात्।यत् यदवच्छेदेन नास्ति तस्य तदवच्छेदेन ज्ञानमयथार्थम्, यथा शाखावच्छिन्नः कपिसंयोगो मूलावच्छेदेन नास्ति मूलावच्छेदेन शाखावच्छिन्नकपिसंयोगज्ञानमयथार्थं मूलावच्छेदेन शाखावच्छिन्नकपिसंयोगाभावात् / तथा प्रकृतेऽपि रक्तत्वकालावच्छेदेन घटे श्यामरूपं नास्ति इति तत्कालावच्छेदेन श्यामरूपज्ञानमयथार्थम्, तद्वत् प्रकृते सत्प्रतिपक्षतोत्तीर्णतादशायां सद्धेतौ कृतकत्वेऽनुमितिप्रतिबन्धकतावच्छेदको धर्मो नित्यत्वव्याप्यव्योमैकगुणत्ववत्त्वादिः तद्वत्त्वाभावात् तत्कालावच्छेदेन तद्वत्त्वज्ञानमयथार्थमेवेति तत्कालावच्छेदेन तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वस्य नातिव्याप्तिरित्यभिप्रायः / न चैवमिति। एवं लक्ष्यत्वाभिमतत्कालावच्छेकत्वविवक्षणेन यथार्थत्वपदं व्यर्थमिति यतः तात्कालिकेति लक्ष्यत्वाभिमतकालावच्छेदेनानुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वाभावात्सद्धेतौ नातिव्याप्तिः। तथाहि - शब्दोऽनित्य:शब्दत्वात् इत्यत्रशब्दत्वे हेतौ विपक्षे बाधकग्रहदशायामसाधारणतोत्तीर्णेऽनुमितिप्रतिबन्धकतावच्छेदकस्य निश्चितसाध्यवद्व्यावृत्तत्वस्याभाव इति तद्दशायां सद्धेतौ नातिव्याप्तिरित्याशङ्कार्थः / तद्वत्त्वमिति टीका / लक्ष्यत्वाभिमतकालावच्छेदेनानुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वं न विषयविशेषणं न लक्ष्यत्वाभिमतहेतुविशेषणमित्यर्थः / किन्त्विति। ज्ञानविशेषणमनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वमिति हेत्वाभासलक्षणे यज्ज्ञानपदं तद्विशेषणमित्यर्थः। तथा चधूमप्रागभावादितिवत् अन्यविशेषणत्वान्न वैयर्थ्यमिति भावः। तथाहिपर्वतो वह्निमान् धूमप्रागभावात् इत्यत्र प्रागभावपदस्य न वैयर्थ्यम् / तत्र हि वहिव्यभिचार्यवृत्तिधूमत्वप्रवेशेऽपि धूमत्वस्य' प्रागभावावृत्तित्वात् / यन्निष्ठा यन्निरूपिता व्याप्तिर्येन विशेषणेन विना ग्रहीतुं न शक्यते तस्यैव 5. धूमत्वं धूमप्रागभावे / प्रतौ टिप्पणी।
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy