SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ हेत्वाभाससामान्यनिरुक्तिः 411 भवति वह्निः। तत्र वहिधूमव्यभिचारीति ज्ञाने विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदको धर्मो वह्रिवृत्तिव्यभिचार इति तद्वत्त्वं च वह्नौ वर्तते एव व्यभिचारस्य लक्ष(क्ष्य)वह्निभिन्नत्वात् इत्यभिप्रायः / लिङ्गान्यत्वे सतीति विशेषणं तुव्यभिचारिणिहेतौ अव्याप्तिवारणार्थम्। तथाहि - वह्निधूमव्यभिचारीतिज्ञाने विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदको यस्तद्वत्त्वं लक्षणम्, तच्च प्रतिबन्धकतावच्छेदकं वह्निविशिष्टधूमाभाववद्वृत्तित्वमेव।न चवह्नौ वह्निविशिष्टधूमाभाववद्वृत्तित्वमस्ति वह्निरूपविशेषणाभावात् / इतो वह्रौ अव्याप्तिः, तद्वारणं तु लिङ्गान्यत्वे सतीति पदेन भवत्येव / तथाहि - वह्निधूमव्यभिचारीति ज्ञाने विषयतया लिङ्गान्यत्प्रतिबन्धकतावच्छेदकं धूमाभाववद्वृत्तित्वमेव तद्वत्त्वं तु वह्रावस्तीति नाव्याप्तिर्वह्रिरूपहेत्वाभासे इति भावः / ननु अनुमितिप्रतिबन्धकज्ञाने लिङ्गान्यत्वेसतिविषयतया प्रतिबन्धकतावच्छेदको योधर्मस्तद्वत्त्वमितिलक्षणंपर्यवसितम्, तच्च संयोगसम्बन्धेन द्रव्यसाध्यकसंयोगसम्बन्धेन द्रव्यान्तरे हेतौ व्यभिचारिणि अव्याप्तम् / तथाहि - अयं प्रदेशः चैत्रवान् तत्सोदरमैत्रवत्त्वात् इत्यत्र व्यभिचारिणि मैत्रेऽव्याप्तिः, यदा चै मुक्त्वा मैत्रः कुत्रापि गतः पुनरप्यागतस्तदा मैत्रे चैत्राभाववद्वृत्तित्वं नास्ति चैत्रवतिप्रदेशे तदानीं मैत्रस्य विद्यमानत्वात् तदा चैत्राभाववद्वृत्तित्वस्याभावादव्याप्तिरित्यत आह - तद्वत्त्वगोचरेति / तथा च तत्र प्रदेशे तदानीं चैत्राभाववद्वृत्तित्वाभावेऽपि चैत्राभाववद्वृत्तित्वज्ञानस्य यथार्थत्वात्, पूर्वं मैत्रवत्त्वस्य चैत्राभाववद्वृत्तित्वात्, [209 A] रक्ते घटे पूर्वश्यामे घटश्याम इति ज्ञानवत् यदाकदाचित् घटस्य श्यामत्वात्। ननु पुनरपिव्यभिचारादिधर्मेऽतिव्याप्तमिदं लक्षणम्, तथाहि वहिधूमव्यभिचारीति ज्ञानविषयत्वंवह्नौधूमेचवर्तते इतिज्ञानेऽनुमितिप्रतिबन्धकतावच्छेदको योधर्मो व्यभिचारादिस्तद्वत्त्वगोचरयथार्थज्ञानविषयत्वं वरिव व्यभिचारादेरप्यस्ति इत्यत आह - विषयत्वमिति। विशेष्यत्वं यथा घटइति ज्ञाने घटत्वस्य प्रकारताख्यविषयता, घटस्य विशेष्यताख्यविषयता, घटघटत्वसमवाययोः सांसर्गिकी विषयता, तासां मध्ये या विशेष्यताख्या विषयता साऽत्र विवक्षितेत्यर्थः / तेनेति टीका। विशेष्यत्वविवक्षणेनेत्यर्थः / व्यभिचारादौ इति / आदिपदग्राह्यस्तु विरुद्धत्वादिः ।वहिधूमव्यभिचारीत्याद्यनुमितिप्रतिबन्धकज्ञाने लिङ्गत्वं भवति, वह्रौ तदन्यत्वे सति विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदको धर्मो व्यभिचारादिस्तद्वत्त्वगोचरयथार्थज्ञानं तु वहिधूमव्यभिचारवानिति ज्ञानमेव, तादृशज्ञानविशेष्यत्वं तु वह्नावेव न तु व्यभिचारादिधर्मे इति न तत्रातिव्याप्तिरिति। ननु ज्ञाने लिङ्गान्यत्वे सति अनुमितिप्रतिबन्धकतावच्छेदको यो धर्मस्तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वविवक्षायामपि सत्प्रतिपक्षाद्युत्तीर्णतादशायां विपक्षे बाधकग्रहदशायां कृतकत्वहेतौ अनित्यत्वसाधके पुनरतिव्याप्तिः। तथाहि शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वात् इति सत्प्रतिपक्षितत्वदशायामनुमितिप्रतिबन्धकतावच्छेदको यो धर्मो विरोधिज्ञानसमानकालीनानित्यत्वव्याप्यकृतकत्वम् अथवा विरोधिसामग्री नित्यत्वव्याप्यव्योमैकगुणत्वज्ञानम्, तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वं विपक्षबाधकग्रहदशायामपि सत्प्रति
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy