________________ 410 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका आद्य इति। येनेति। यथाऽयं गौरश्वत्वादित्यत्राश्वत्वस्य येनगोत्वविरुद्धत्वं नगृहीतं तं प्रति अश्वत्वस्य विरुद्धत्वरूपहेत्वाभासत्वं न स्यात्, तत्पुरुषीयानुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वाभावात् / अन्त्यपक्षं दूषयति - अन्त्ये इति। यथाशब्दोऽनित्यः कृतकत्वादित्यत्रअनित्यत्वविपक्षबाधकग्रहदशायां चैत्रस्यानुमितिजनकत्वेऽपि मैत्रस्यानित्यत्वविपक्षबाधकाग्रहदशायां मैत्रस्यानुमितिप्रतिबन्धकज्ञानविषयत्वात् चैत्रं प्रत्यपि तस्य हेत्वाभासत्वापत्तिरित्यर्थः / वस्तुगत्या चैत्रं प्रति हेत्वाभासत्वं नास्तीति भावः / ननु व्यभिचारादिधर्मेऽतिव्याप्तिरित्यत आरभ्य हेत्वाभासत्वापत्तेरित्यन्तेन ग्रन्थेन महापूर्वपक्षग्रन्थान] / अत्रोच्यते इति / सिद्धान्तः क्रियते इत्यर्थः / अनुमितीति।अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वमित्यत्र लक्षणेऽनुमितिप्रतिबन्धकपदेनानुमितिप्रतिबन्धकतावच्छेकमेव विवक्षितम्, तच्च सव्यभिचारत्वादिकधर्म एव / उपाधयो धर्मा इत्यर्थः / नन्वनुमितिप्रतिबन्धकतावच्छेदकत्वं यदि अनुमितिप्रतिबन्धकतावच्छित्तिप्रत्ययहेतुत्वं तदा व्यभिचारादिज्ञानत्वेऽतिव्याप्तिस्तस्याप्यनुमितिप्रतिबन्धकतावच्छित्तिप्रत्ययहेतुत्वात्। व्यभिचारादिज्ञानस्यप्रतिबन्धकत्वे व्यभिचारादिज्ञानत्वमेव तदवच्छेदकम् / अथ ज्ञानस्यानुमितिप्रतिबन्धकतायां विषयतया यदवच्छेदकं यस्य ज्ञान प्रतिबन्धकं तस्य विषयतया प्रतिबन्धकतावच्छेदकत्वम् / यथा जलह्रदो वह्निमान् इत्याद्यनुमितौ जलह्रदो न वह्रिमानिति ज्ञानस्य प्रतिबन्धकतायां जलहदे वह्नयभावस्य ज्ञाने विषयतासम्बन्धेनावच्छेदकत्वं तदा लिङ्गे हेतौ अव्याप्तिः, ज्ञानस्य विषयतासम्बन्धेन प्रतिबन्धकतावच्छेदको यस्तद्वत्त्वाभावात् / कथम् ? वहिधूमव्यभिचारीति ज्ञाने विषयतासम्बन्धेन प्रतिबन्धकतावच्छेदको व्यभिचारादिविशिष्टो हेतुर्वयादिरेव, तस्य वयादिहेतोर्व्यभिचारादिविशिष्टवढ्याद्यभावात्। न हि वयादिव्यभिचारविशिष्टवल्यादिमान् भवतीत्यत आह - अनुमितिप्रतिबन्धकतावच्छेदकत्वमिति। लिङ्गान्यत्वे सतीति। तथा च हेतौ वढ्यादौ नाव्याप्तिः / तथाहि - वह्निधूमव्यभिचारीति ज्ञाने विषयतया [208B]लिङ्गभिन्न प्रतिबन्धकतावच्छेदकं भवति।वह्नौ अयोगोलके धूमाभाववद्वृत्तित्वं तद्वत्त्वं तु वह्रौ वर्तते एवेति लिङ्गान्यत्वे सति अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वमेव सिद्धम् / नन्विदं पूर्वमेव दूषितमेव लिङ्गत्वम्। तथाहि - लिङ्गत्वंव्याप्यत्वंवाव्याप्यत्वेनाभिमतत्वं वा।नाद्यः, पुनरपिवढ्यादावव्याप्तिस्तस्यापि धूमाव्याप्यत्वेन लिङ्गान्यत्वात् / तथा च लिङ्गान्यत्वे सति यद्विषयतया ज्ञानेऽनुमितिप्रतिबन्धकत्वं तद्वत्त्वं तु वह्रौ नास्ति।न हि वह्नौ वह्निरस्तीति।न द्वितीयः, वहिधूमव्यभिचारीति ज्ञानदशायां वह्वेधूमव्याप्यत्वेन ज्ञानाभावात्। कथम् ? लिङ्गान्यत्वे सति ज्ञाने विषयतया यदनुमितिप्रतिबन्धकतावच्छेदकं तद्वत्त्वं लक्षणं तदानीं व्यभिचारग्रहदशायांलिङ्गान्यत्वेसतिअनुमितिप्रतिबन्धकतावच्छेदको व्यभिचारविशिष्टवहिरेव, वह्रौ वह्रिमत्त्वाभावात् व्यभिचारिणि वह्रौ हेत्वाभासेऽव्याप्तिरिति चेत् उच्यते - लिङ्गान्यत्वे सतीति / अत्र लिङ्गपदेन यस्य हेत्वाभासत्वेन लक्ष्यत्वं तद् विवक्षितम् / न चैवं वह्रावव्याप्तिः / धूमवान् वह्नः इत्यत्र हेत्वाभासत्वेन लक्ष्यो