________________ हेत्वाभाससामान्यनिरुक्तिः 409 मानत्वदशायां तद्दशायामतिव्याप्त्यापत्तेः, विशेषलक्षणस्य लक्ष्यं हि सामान्यलक्षणाक्रान्तमेवेति भावः / यथा पृथिव्याः सामान्यलक्षणं गन्धवत्त्वम्, विशेषलक्षणं सुरभित्वमसुरभित्वंच, सुरभित्वमसुरभित्वंवा विशेषलक्षणं गन्धवति(त्त्व)सामान्यलक्षणानाक्रान्ते कुत्रापि वर्तत इत्यभिप्रायः। द्वितीय इति। ज्ञायमानत्वस्योपलक्षणतायाः पक्ष इत्यर्थः / यथागुरूणांटीका गुरूणां नष्टत्वेऽपिगुरूपलक्षिततत्कृतित्वादेरुपलक्ष्यतावच्छेदकस्यव्यावर्तकत्वम् / सद्धताविति। यथा शब्दोऽनित्यः शब्दत्वादित्यत्रसद्धेतौ शब्दत्वस्य सद्धेतोः अनित्यत्वसाध्यवत्त्वेन निश्चितात् सपक्षादेया॑वृत्ततया गृहीतस्य विपक्षात् नित्यत्ववत्तया निश्चितादाकाशादेावृत्ततया गृहीतस्य शब्दत्वस्य हेतोरसाधारण्येन विपक्षा(क्ष)बाधकाज्ञानदशायां यथा विपक्षबाधकं च शब्दस्य नष्टो गकार उत्पन्नो गकार इत्यादि ज्ञानमेव तदनवतारदशायां हेत्वभावस्य साध्याभावो नित्यत्वं तद्व्याप्तिग्रहात् तद्व्यापकत्वग्रहात् शब्दत्वाभावस्येतिव्यतिरेकितया अनित्यत्वानुमितिसामग्रीवर्तते, शब्दत्वस्य नित्यत्वाभावो नित्यत्वव्यापकाभावप्रतियोगितया नित्यत्वानुमितिसामग्री वर्तते, इति सत्प्रतिपक्षोत्थापकतयाऽसाधारणस्य प्रतिबन्धकत्वम्, तत्र विपक्षबाधकग्रहदशायां शब्दत्वेनाऽनित्यत्वानुमितिरेव यदा भवति तत्र नित्यत्वानुमितिसामग्या विपक्षबाधकाग्रहात् दुर्बलत्वात् तदाप्रकृतलक्षणेऽनुमितीत्यादिके ज्ञायमानत्वस्योपलक्षणत्वपक्षे हेतौ शब्दत्वेऽतिव्याप्तिः / असाधारण्यानवतारदशायामनुमितिप्रतिबन्धकं ज्ञानम् अनित्यत्ववद्वयावृत्तत्वज्ञानम्, तदनवतारदशायां यद्यपि तदानीमसाधारण्यज्ञानं नास्ति तथापि विपक्षबाधकानवतारदशायां पूर्वं तदासीत् / तदुपलक्षितम् अनुमितिप्रतिबन्धकज्ञानोपलक्षितं यथार्थज्ञानविषयत्वं शब्दत्वे वर्तते एवेत्यतिव्याप्तिरित्यर्थः / सत्प्रतिपक्षे चेति। यथा शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वात् इत्यत्र सत्प्रतिपक्षेऽनित्यत्वनित्यत्वविपक्षबाधकाग्रहदशायामुपनयानुमितिप्रतिबन्धो भवति / तत्र सद्धेतौ कृतकत्वे शब्देऽनित्यत्वस्य विपक्षो नित्यत्वम्, तद्बाधकं नष्टो गकार इत्यादिज्ञानामा, तद्ग्रहदशायां यदाऽनित्यत्वानुमितिरेव भवतिनित्यत्वानुमितिसामा या दुर्बलत्वात् / तत्र दशायां ज्ञायमानत्वस्योपलक्षणत्वपक्षेऽतिव्याप्तिः अनुमितिप्रतिबन्धकज्ञानविषयत्वस्य विपक्षबाधकाग्रहदशायां सत्त्वात्इति सद्धेतावप्यतिव्याप्तिरितिभावः। अनुमित्यनुत्पादनियतयथार्थज्ञानविषयत्वंहेत्वाभासत्वमिति लक्षणेऽपि दूषणान्तरमाह - अपि चेति / तादृशेति। अनुमितिप्रतिबन्धकज्ञानविषयत्वमित्यर्थः / तथा च यस्य हेतोर्यत्पुरुषायानुमितिप्रतिबन्धकज्ञानविषयत्वं तस्य हेतोः तं प्रति [208 A] तत्पुरुषनिरूपितहेत्वाभासत्वम् / अन्यं प्रतीति / यस्य कस्याप्यनुमितिप्रतिबन्धकज्ञानविषयत्वेन पुरुषमात्रनिरूपितमेव हेत्वाभासत्वमिति वा / प्रथमपक्षे उदाहरणं यथासत्प्रतिपक्षादौ चैत्रानुमितिप्रतिबन्धकज्ञानविषयत्वेन चैत्रनिरूपितमेव हेत्वाभासत्वमिति / द्वितीये उदाहरणं यथा पर्वतो धूमवान् वढेरित्यादौ हेतोर्विपक्षवृत्तित्वज्ञानस्य चैत्राद्यनुमितिप्रतिबन्धकत्वेऽपि पुरुषमात्रं प्रत्यपि तस्य हेत्वाभासत्वं साधारणस्य नित्यदोषत्वादिति द्वितीयविकल्पोदाहरणम् / प्रथमं दूषयति -