________________ 408 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका न च तयोः परस्परविरहरूपत्वमिति न करणविघटनद्वाराऽप्यसाधकतानुमितेः प्रतिबन्धकत्वमिति समाधानार्थः / अन्यथेति / असाधकतानुमितेरिदमसाधकं सत्प्रतिपक्षितत्वादित्यसाधकतानुमितेः व्यभिचारादिवत् करणविघटकत्वे / हेत्वाभासान्तरेति / न चात्र सिद्धयसिद्धिव्याघातः / तथाहि - हेत्वाभासान्तरत्वं किं [207 A] व्यभिचारादिपञ्चकभिन्नहेत्वाभासत्वंवाव्यभिचारादिपञ्चकभिन्नत्वमात्रंवा? न तावदाद्यः, आपाधाप्रसिद्धेः व्यभिचारादिपञ्चकभिन्नत्वे सति हेत्वाभासत्वस्य कुत्राप्यप्रसिद्धेः / नापि द्वितीयः इष्टापत्तेः असाधकत्वस्य व्यभिचारादिपञ्चकभिन्नत्वस्य सर्वैरेवाङ्गीकारादिति वाच्यम् व्यभिचारादिभिन्नस्यासाधकत्वस्य हेत्वाभासत्वापादनात्। तथाहि व्यभिचारभिन्नमिदं यदिव्याप्त्यादिकरणविघटकंस्यात् हेत्वाभासः स्यात् इत्यापादनेन हेत्वाभासत्वमापादनीयम् / ननु असाधकतानुमानं नानुमितिप्रतिबन्धकं तदा कथमसाधकताप्रयोगः क्रियते तान्त्रिकैरित्यत आह - असाधकतानुमानं चेति / किन्त्विति / वादिना एतादृशी व्यवस्था कृता हेत्वाभासाः प्रयोज्या असाधकतानुमानं च कार्यमिति, तत्रावश्यमसाधकतानुमानमपि उद्देश्यं कर्तव्यमित्यर्थः / अन्यथा तदकरणे व्यवस्थाभङ्गापत्त्या हेत्वाभासोद्भावकस्य निग्रहापत्तेरितिभावः। किञ्चेति।हेत्वाभासलक्षणेऽनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वमित्यत्र पुरुषे दण्डवद्विशेषणं विद्यमानं सत् व्यावर्तकम् गुरूणां टीकेति वत् गुरोरुपलक्षणत्ववदुपलक्षणत्वं वेति विकल्पार्थः / नाद्य इति। न विशेषणत्वपक्ष इत्यर्थः / अज्ञायमाने नित्यदोषे व्यभिचारादौ अव्याप्तिः, अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वस्य विशेषणस्य तदाऽभावात् / अज्ञायमानदशायां यदा व्यभिचारो न ज्ञायते तस्यां दशायाम् अनुमितिप्रतिबन्धकज्ञानविषयत्वमेव नास्तीति भावः / नित्यदोषा अनुमितौ साध्याभाववद्वृत्तित्वरूपो व्यभिचारः 1, विरुद्धत्वम् 2, असिद्धत्वम् 3, बाधश्चेति 4 / [धूमो वहेरित्यत्र] वहेरयोगोलके धूमाभाववद्वृत्तित्वमेवास्ति 1 / गौरश्वत्वादित्यत्र अश्वत्वस्य गोत्वासमानाधिकरणं सर्वदैवास्ति 2 / जलह्रदो वह्निमान् धूमादित्यत्र धूमस्य जलहृदावृत्तित्वं सदास्तीति स्वरूपासिद्धत्वम् / एवं काञ्चनमयोऽद्रिरग्निमान् धूमादित्यत्र काञ्चनमयत्वविशेषणस्याभावात् आश्रयासिद्धत्वंसर्वदेति कृत्वा नित्यदूषणम् / एवं वह्रिमान् नीलधूमादित्यत्र नीलधूमत्वस्य वैयर्थ्यं नित्यदूषणम् 3 / बाधो यथा जलह्रदो वह्रिमान् धूमादित्यादौ जलहदे साध्याभावो नित्यदोषः 4 / एतेषु अज्ञायमानदशायां ज्ञायमानरूपविशेषणाभावात् हेत्वाभासलक्षणाव्याप्तिरिति पर्यवसितोऽर्थः / न चेति तदेति / अज्ञायमानतादशायां तत् नित्यदोषो व्यभिचारादिरसङ्ग्राह्यमलक्ष्यमेवेत्यर्थः।समाधत्ते - साध्यव्यापकेति।अयंगौरश्वत्वादित्यत्र गोत्वरूपसाध्यस्यव्यापकीभूतो योऽभावोऽश्वत्वाभावस्तत्प्रतियोगित्वरूपविशेषलक्षणस्य विरुद्धलक्षणस्य अज्ञायमानतादशायामपि सत्त्वेन लक्ष्यत्वमेवेति। न हि विशेषलक्षणाक्रान्तं सामान्यलक्षणेनासङ्ग्राह्यं भवतीति। [207 B] अन्यथेति।अज्ञायमानदशायां सामान्यलक्षणस्यालक्ष्यत्वे विशेषलक्षणस्य साध्यव्यापकीभूताभावप्रतियोगित्वादेः तदा अज्ञाय