________________ हेत्वाभाससामान्यनिरुक्तिः 407 तस्याऽयथार्थत्वात् / तथाहि - कम्बुग्रीवादिमत्त्वं घटत्वव्याप्यं घटे वर्तते, गन्धवत्त्वं पृथिवीत्वव्याप्यं पक्षे घटे च वर्तते इति हेत्वोरन्यतरव्याप्त्यादिभङ्गज्ञानमयथार्थमेवेति यथार्थत्वघटितं हेत्वाभासलक्षणं तत्राव्याप्तमेवेति समाधानार्थः / तज्ज्ञानस्येति / घटत्वव्याप्यकम्बुग्रीवादिमत्त्वपृथिवीत्वव्याप्यगन्धवत्त्वज्ञानस्य यत् अन्यतरव्याप्तिभङ्गज्ञानं तस्येत्यर्थः। तादृशज्ञानमितिटीका।साध्यव्याप्यवत्ताज्ञानं साध्याभावव्याप्यवत्ताज्ञानं चेत्यर्थः / तथा चयदि तस्य प्रतिबन्धकत्वंस्यात् तदायथार्थत्वघटितप्रकृतलक्षणमव्याप्तस्यादित्यभिसन्धिः। किन्त्विति / अयंघट: कम्बुग्रीवादिमत्त्वात् इयं पृथिवी गन्धवत्त्वात् इत्यत्र घटत्वपृथिवीत्वविरोधज्ञानदशायां सत्प्रतिपक्षे इमौ हेतूघटत्वपृथिवीत्वे स्वसाध्यासाधके इतिज्ञा–प्रतिबन्धकं तच्च यथार्थमेव तस्य तदानीं स्वसाध्यासाधकत्वात्, [206 B] तदा घटत्वपृथिवीत्वानुमित्यभावादिति यथार्थत्वटितप्रकृतलक्षणाव्याप्तिः सत्प्रतिपक्षे न भवति प्रतिबन्धकीभूतस्य स्वंसाध्यासाधकत्वज्ञानस्य यथार्थत्वादिति प्रघट्टकार्थः / अन्यथेति / सत्प्रतिपक्षस्थले याऽसाधकतानुमितिः तस्या अप्रतिबन्धकत्वेऽसाधकतानुमानप्रयोगवैयापत्तेरित्यर्थः / सत्प्रतिपक्षस्थलेऽसाधकतानुमितिरेवं यथा तव हेतुरसाधकः सत्प्रतिपक्षितत्वादिति सिद्धान्तएवेति भावः।साध्यासाधकतानुमितेः प्रतिबन्धकत्वं विकल्प्य दूषयति - साध्यासाधकत्वं हीति। साध्यस्य या सिद्धिस्तदजनकत्वं तदुपधानाभावः तत्सम्बन्धाभाव इति यावत्। साध्यानुमितेः प्रतिबन्धकतावच्छेदको यो धर्मो व्यभिचारादिस्तद्वत्त्वं वा। तज्ज्ञानं चेति / हेतौ साध्यानुमित्यजनकत्वज्ञानं चेत्यर्थः / न साक्षादिति धर्मान्तरम् अद्वारीकृत्येत्यर्थः / बाधवदिति। यथा बाधस्यानुमितिविषयीभूतं यत् पक्षे साध्यवत्त्वं तद्विरोधि यत् पक्षे साध्याभाववत्त्वं तदवगाहित्वेनैव प्रतिबन्धकत्वम्, तथा न साध्याजनकत्वज्ञानम् / अनुमितिविषयस्य योऽभावः साध्याभावस्तदवगाहित्वेन प्रतिबन्धकत्वम् अनुमितेः साध्यसाधकत्वस्याविषयत्वात् असाधकताज्ञानस्य साध्यानुमित्यजनकत्वस्य विषयत्वात् / द्वितीयविकल्पम् अनुमितिप्रतिबन्धकतावच्छेदकरूपवत्त्वज्ञानमपि न साक्षात् बाधवत् ग्राह्याभावावगाहितया प्रतिबन्धकम् अनुमितेः साध्यवत्त्वस्य विषयत्वात् एतस्य चासाधकतानुमानस्यानुमितिप्रतिबन्धकतावच्छेदकरूपवत्त्वस्य विषयत्वात् / न च तयोः परस्पराभावरूपत्वमित्यभिसन्धिः / अतोऽसाधकतानुमितेः न प्रतिबन्धकत्वम्।प्रतिबन्धको परामर्शीघटत्वव्याप्यकम्बुग्रीवादिमत्त्वपृथिवीत्वव्याप्यगन्धवत्त्वपरामर्शी, तयोश्च यथार्थत्वमेवेति अन्यतरव्याप्त्यादिभङ्गज्ञानद्वारा सत्प्रतिपक्षस्थलेऽव्याप्तिर्नास्तीति यदुक्तं तदसमीचीनं पूर्वं दूषितत्वात् / ननु मास्तु साक्षादसाधकताऽनुमितेः साध्यानुमितिप्रतिबन्धकत्वम्, [किन्तु करणविघटनद्वारा प्रतिबन्धकत्वं व्यभिचारादिवत् भविष्यतीत्यत आह - नापीति। व्यभिचारादीति / यथाव्यभिचारादिज्ञानस्यपरामर्शविषयीभूतव्याप्त्याद्यभावविषयतया करणविघटकत्वंन तथाऽसाधकतानुमितेः करणविषयाभावावगाहित्वं करणस्य व्याप्तिपक्षधर्मताविषयत्वात् असाधकतानुमितेश्चासाधकताविषयत्वात्।