________________ 406 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विषयान्तरसञ्चारः सुखदुःखसाक्षात्कारः, आदिपदात्कामिनीजिज्ञासादिः, तत्रानित्यत्वनित्यत्वानुमितिप्रतिबन्धो नस्यात्, कृतकत्वव्योमैकगुणत्वान्यतरव्याप्त्यादिभङ्गज्ञानस्यानुमितिरूपस्याभावात्, तज्जनकीभूतव्याप्तिपक्षधर्मताज्ञानस्य विषयान्तरसञ्चारेणप्रतिबन्धात्। सचप्रतिबन्धोनस्यात्। तस्मादनित्यत्वव्याप्यवत्तानित्यत्वव्याप्यवत्तापरामर्शयोरेवानित्यत्वनित्यत्वानुमितौ प्रतिबन्धकं वाच्यम्। न च तयोर्याथार्थ्यमस्तीत्यव्याप्तिः सत्प्रतिपक्षे तदवस्थैवेति समाधानार्थः / न चेति टीका / यत्र शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वादित्यत्र सत्प्रतिपक्षे हेत्वोरन्यतरव्याप्त्यादिभङ्गानुमितिहेतुव्याप्त्यादिज्ञानं यदा न जातं कामिनीजिज्ञासादिना प्रतिबन्धसम्भवात् तदा तत्रानित्यत्वनित्यत्वामुमितिप्रतिबन्धाभावात् हेत्वाभासत्वेनालक्ष्यत्वात्न तत्राव्याप्तिर्दूषणायेति शङ्कार्थः। तादृशज्ञानाभावेनेति।हेत्वोरन्यतरव्याप्त्यादिभङ्गानुमित्यभावेन। तथा च तत्रैव यत्रानुमितिप्रतिबन्धो भवतीति, न तस्य लक्ष्यत्वमेवेतिभावः / समाधत्ते - विरुद्धोभयेति टीका। विरुद्धयोः साध्यसाध्याभावयोः यो व्याप्यवत्तापरामर्शः यथाऽनित्यत्वव्याप्यकृतकत्ववानयं शब्दो यद्वा नित्यत्वव्याप्यव्योमैकगुणत्ववानयं शब्द इत्येवंरूप: परामर्शः तयोर्विरोधिसामग्रीत्वेन साध्यज्ञानस्य [206 AJविरोधियत् साध्याभावज्ञानं तत्सामग्रीत्वेन तत्र प्रतिबन्धकत्वात्। तथा च शङ्कयोक्तम् पूर्वं हेत्वोरन्यतरव्याप्त्यादिभङ्गज्ञानं विना सत्प्रतिपक्षस्थले प्रतिबन्ध एव न भवतीति, तदसमीचीनम्, प्रतिबन्धकतावच्छेदकस्य साध्यज्ञानविरोधिसामग्रीत्वस्य तत्रापि परामर्शद्वये सम्भवात् अनित्यत्वनित्यत्वानुमितिप्रतिबन्धस्यावश्यकत्वात् / तथा च यदुक्तं तत्र हेत्वाभासत्वमेव नास्ति अनुमित्यप्रतिबन्धत्वात् अलक्ष्यत्वात् नाव्याप्तिर्दूषणायेति तदशुद्धमेव तत्राप्यनुमितिप्रतिबन्धस्य दर्शितत्वादिति समाधानार्थः / अन्यथेति। साध्यसाध्याभावव्याप्यवत्तापरामर्शयोर्विरोधिज्ञानसामग्रीत्वेनाप्रतिबन्धकत्वे साध्यसाध्याभावव्याप्यवत्तापरामर्शप्रयुक्तं हेत्वोरन्यतरव्याप्त्यादिभङ्गज्ञानस्य प्रतिबन्धकत्वे इत्यर्थः / तस्यापीति टीका। तस्यसत्प्रतिपक्षस्य साध्यानुमितिहेतुव्याप्तिपक्षधर्मताज्ञानाविघटकत्वात् बाधसत्प्रतिपक्षयोः साक्षादनुमितिप्रतिबन्धकत्वेन हेत्वाभासत्वमिति सिद्धान्तो भज्येत, हेत्वोरन्यतरव्याप्त्यादिभङ्गानुमितिद्वारा साध्यव्याप्यवत्तासाध्याभावव्याप्यवत्ताज्ञानयोस्त्वयाऽनुमितिप्रतिबन्धकत्वाभ्युपगमात्। करणे इति। व्याप्तिपक्षधर्मताज्ञानं तदविघटकत्वात्। यद्यपि बाधप्रतिरोधाभ्यां करणं न विघट्यते तथापि बाध्यस्य ग्राह्याभावावगाहित्वात् साक्षादनुमितिप्रतिबन्धकत्वम्।सत्प्रतिपक्षस्य तुसाध्यस्य विरोधिज्ञानसाध्याभावज्ञानम्, तत्सामग्रीयः साध्याभावव्याप्यवत्तापरामर्शः, तत्त्वेन साक्षादनुमितिप्रतिबन्धकत्वम् / साक्षात्प्रतिबन्धकत्वं च द्वारान्तरं विना प्रतिबन्धकत्वम् / तच्च सत्प्रतिपक्षेऽप्यस्त्येवेति न्यायसिद्धान्तः, एतस्यभङ्गः स्यात् इति समाधानार्थः।अभ्युपेत्याह-किञ्चेति / यत्रेति / यथाऽयं घटः कम्बुग्रीवादिमत्त्वात् इयं पृथिवी गन्धवत्त्वात् इत्यत्र घटत्वपृथिवीत्वयोर्विरोधज्ञानदशायां सत्प्रतिपक्षेभ्रमात् विरोधो गृहीतस्तत्रहेत्वोरन्यतरव्याप्त्यादिभङ्गज्ञानस्य द्वारत्वेन प्रतिबन्धकत्वेन त्वयाभ्युपगमात्