________________ हेत्वाभाससामान्यनिरुक्तिः 405 न च तदंशे वह्नयभाववद्वृत्तित्वांशेधूमो वह्रिव्यभिचारीति ज्ञानस्य याथार्थ्यमस्तीति नातिव्याप्तिरित्याशङ्कार्थः / किञ्चिदिति / तत्रापि धूमो वहिव्यभिचारीति ज्ञाने यथा वह्नयभाववद्वृत्तित्वविषयत्वं प्रतिबन्धकतावच्छेदकं तथा धूमत्वविषयत्वमपि प्रतिबन्धकतावच्छेकमस्त्येव, अन्यथाधूमो वह्रिव्याप्य इति ज्ञानदशायां किञ्चिद्वह्निव्यभिचारीति ज्ञानेन किञ्चित्त्वेन गृह्यमाणधूमेन वह्नयनुमितिर्न स्यात्। न च तत्र किञ्चित्त्वेनापिरूपेणधूमे वह्निव्यभिचारग्रहो न भवत्येवेति वाच्यम्, अधिकरणांशे समानप्रकारकज्ञानस्यैव प्रतिबन्धकत्वात्। तथाहि धूमवान् वह्रिमानिति ज्ञानेन धूमावच्छेदेन पर्वते वह्रिमत्त्वग्रहेऽपि पर्वतो वह्रिमान् न वेति संशयदर्शनात् / अतः सुलूक्तं धूमे वह्निव्याप्यत्वग्रहेऽपि किञ्चित्त्वेन वहिव्यभिचारग्रह इति किञ्चित्त्वस्य धूमत्वभिन्नत्वात् इति सिद्धं धूमो वहिव्यभिचारीतिभ्रमरूपज्ञानस्य धूमत्वविषयत्वेनापि प्रतिबन्धकत्वमिति तदंशेधूमो वहिव्यभिचारीति ज्ञानस्य याथार्थ्यमस्त्येवेति सद्धेतौ अतिव्याप्तिस्तदवस्थैवेति समाधानार्थः / न चेति सद्धेतु इत्यादि / शब्दोऽनित्यः कृतकत्वात् शब्दोनित्यो व्योमैकगुणत्वादितिसत्प्रतिपक्षेऽनित्यत्वव्याप्यपरामर्शस्य नित्यत्वव्याप्यवत्ताविषयत्वेन प्रतिबन्धकत्वे मानाभावः / तथा च न तत्रातिव्याप्तिः किन्तु अनित्यत्वानुमितौ अनित्यत्वव्याप्यकृतकत्ववत्ताविषयत्वेनैव प्रतिबन्धकत्वं तदंशे च याथार्थ्यमेवेति न सत्प्रतिपक्षेऽव्याप्तिरित्याशङ्कार्थः / समाधत्ते - तद्विषयकस्येति।अनित्यत्वानुमितौ कृतकत्वपरामर्शस्यानित्यत्वव्याप्यकृतकत्ववत्ताविषयत्वेनैव जनकत्वात् तद्विषयत्वेन प्रतिबन्धकत्वाभावात् एकत्र जनकतावच्छेदकत्वप्रतिबन्धकतावच्छेदकत्वयोर्विरुद्धत्वात्। तथा च नित्यत्वव्याप्यव्योमैकगुणत्ववत्ताविषयत्वमेवानित्यत्वपरामर्श प्रतिबन्धकतावच्छेदकं वाच्यम् / न च तदंशेऽनित्यत्वव्याप्यकृतकत्वपरामर्शस्य [205 B] याथार्थ्यमस्तीत्यव्याप्तिस्तदवस्थैवेति समाधानार्थः / नन्विति।शब्दोऽनित्यः कृतकत्वात्शब्दो नित्योव्योमैकगुणत्वात् इतिसत्प्रतिपक्षस्थले अनित्यत्वनित्यत्वानुमितौ कृतकत्वव्योमैकगुणत्वयोर्मध्येऽन्यतरत्साध्यव्याप्यपक्षवृत्ति न भवतीति व्याप्त्यादिभङ्गज्ञानमेव सत्प्रतिपक्षे प्रतिबन्धकमिति। तत्र च याथार्थ्यमस्त्येव, एकत्र विरुद्धनित्यत्वानित्यत्वव्याप्याभावात्। तत्रप्रतिबन्धकीभूतज्ञानस्य यथार्थत्वात्नप्रकृतलक्षणाव्याप्तिरित्याशङ्कार्थः ।समाधत्ते- तादृशं हीतिटीका।अनयोरेका व्याप्तिपक्षधर्मताभङ्ग इति ज्ञानं न प्रत्यक्षरूपम् / अन्यथा प्रत्यक्षरूपत्वेऽस्य ज्ञानस्य व्याप्त्यादिज्ञानापेक्षाभावात् सर्वत्रावश्यकत्वात् नाव्याप्तिर्भवतीत्यभिप्रायः / विरुद्धोभयेति। एकत्रानित्यत्वनित्यत्वयोर्विरुद्धयोर्व्याप्यं न वर्तते। कथम् ? यदि नित्यत्वव्याप्यं तत्र वर्तेत तर्हि तत्र नित्यत्वमपि वर्तेत, व्यापकं विना व्याप्याभावात् / एवमनित्यत्वव्याप्यं यदि तत्र वर्तेत तदाऽनित्यत्वमपि तत्र वर्तेत, व्यापकं विना व्याप्याभावात् / तथा चानित्यत्वनित्यत्वयोर्विरोध एव न स्यादेकाधिकरणवृत्तित्वात् अत एव तादृशविरुद्धत्वरूपव्याप्त्यवधारणात् इति अनुमितिरूपं कृतकत्वव्योमैकगुणत्वयोरन्यतरव्याप्तिपक्षधर्मताभङ्गरूपंज्ञानं वाच्यम्। तथा चानित्यत्वनित्यत्वव्याप्यपरामर्शानन्तरं विषयान्तरेति