________________ 404 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नैकान्तिकः, तत्र यदा हेतुत्वाभिमानो नास्ति अयं हेतुरिति ज्ञानं नास्ति तदा तत्र वह्रावव्याप्तिः, साधारणानैकान्तिकस्य नित्यदोषत्वात् अज्ञातोऽपि दोष इति तत्राव्याप्तिः / लक्षणस्यानुमितिप्रतिबन्धनियतज्ञानविषयत्वे सति तात्कालिकहेतुत्वेनाभिमतरूपस्य तत्राभावादित्यर्थः / अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमिति लक्षणे यथार्थपदं किमिति दत्तम् ? तत्र वह्निमान्धूमादित्यत्रधूमो वहिव्यभिचारीतिभ्रमरूपज्ञानविषये धूमेऽतिव्याप्तिवारणार्थं तदत्तम्।धूमस्य वह्नयभाववद्वृत्तित्वाभावात् तद्ज्ञानंन यथार्थमितिन तत्रातिव्याप्तिरिति वक्तव्यम् / तथापि यथार्थपदे दत्ते वह्नयभाववद्वृत्तित्वभ्रमविषयधूमादावतिव्याप्तिस्तदवस्थैवेत्यत आह - किञ्चेति टीका। धूमो वह्निव्यभिचारी[ति] भ्रमे धूमत्ववैशिष्ट्यांशे यथार्थत्वात् धूमो वह्निव्यभिचारीति ज्ञानस्य धूमे धूमत्वांशे यथार्थत्वात् व्यभिचारांशेऽयथार्थत्वेऽपि धूमेऽनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं वर्तत इति धूमे सद्धेतौ अतिव्याप्तिरित्यर्थः। नचेति टीका। तादृशज्ञानेऽनुमितिप्रतिबन्धनियतज्ञाने यस्मिन् सति अनुमितिप्रतिबन्धो भवतीति यावत् / यद्विषयतयेति टीका / यद्विषयत्वमनुमितिप्रतिबन्धकतावच्छेदकं तदंशे याथार्थ्य विवक्षितम् / अस्ति च धूमवान् वढेरित्यत्र वह्निधूमव्यभिचारीति ज्ञाने धूमाभाववद्वृत्तित्वविषयत्वमनुमितिप्रतिबन्धकतावच्छेदकं व्यभिचारविषयत्वेनैव तस्य वह्निधूमव्यभिचारीति ज्ञानस्य वह्निहेतुकधूमानुमितिप्रतिबन्धकत्वात् / तदंशे च तस्य ज्ञानस्य याथार्थ्यमेव, अयोगोलके वढेधूमाभाववंद्वृत्तित्वस्य सत्त्वात्, अतस्तत्र लक्षणगमनम्। ननु वह्निमान् धूमादित्यत्र धूमो वहिव्यभिचारीति ज्ञानस्य धूमाभाववद्वृत्तित्वविषयत्वं प्रतिबन्धकतावच्छेदकम् / न च व्यभिचारांशे याथार्थ्यम्, धूमस्य वह्निव्याप्यत्वात् / धूमत्वांशे याथार्थ्यमस्त्येवातो न तत्र विवक्षितलक्षणस्यातिव्याप्तिरितिभावः।समाधत्ते - आद्ये इति टीका।अनुमितिप्रतिबन्धकयावद्विषययाथार्थ्यपक्षे इत्यर्थः / अपरेति। शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वात् इति सत्प्रतिपक्षेऽव्याप्ति, तत्रानित्यत्वव्याप्यपरामर्शेन नित्यत्वानुमितिः प्रतिबध्यते, शब्दे नित्यत्वव्याप्यव्योमैकगुणत्ववत्त्वव्याप्यपरामर्शेन चानित्यत्वानुमितिः प्रतिबध्यते / तत्र च नित्यत्वव्याप्यव्योमैकगुत्ववत्त्वविषयत्वं ज्ञाननिष्ठं प्रतिबन्धकतावच्छेदकम् अनित्यत्वानुमितौ। न च तावत्कविषये नित्यत्वव्याप्यव्योमैकगुणत्ववानिति परामर्श याथार्थ्यमस्ति, व्योमैकगुणत्वस्य नित्यत्वाव्याप्यात्वात्, [205 A] व्योमैकगुणत्वं वर्तते शब्दे न च तत्र नित्यत्वं शब्दस्य वस्तुतोऽनित्यत्वात् / तथासत्प्रतिपक्षेऽव्याप्तिरित्यर्थः / उक्तदोषापरिहारोऽव्याप्त्यपरिहारः / अन्त्य इति टीका / यद्विषयकत्वेन ज्ञानस्य प्रतिबन्धकत्वं तन्मध्ये कुत्राऽप्यंशेऽनुमितिप्रतिबन्धकज्ञानस्य याथार्थ्यं विवक्षितमिति पक्षेइत्यर्थः / वह्निमान्धूमादित्यत्रधूमोवहिव्यभिचारीति ज्ञानस्यधूमवढ्यभाववद्वृत्तित्वम् अनुमितिप्रतिबन्धकतावच्छेदकमितिधूमत्वांशे तस्य याथार्थ्यमेवेति पुनरप्यतिव्याप्तिस्तदवस्थैवेत्यर्थः। नचेति। तस्य धूमो वह्निव्यभिचारीति ज्ञानस्यधूमविषयतयेतिधूमविषयतया प्रतिबन्धकत्वं नास्ति किन्तु वह्नयभाववद्वृत्तित्वविषयतया /