________________ 403 हेत्वाभाससामान्यनिरुक्तिः उपाधिव्यभिचारानुमितिद्वारा प्रतिबन्धकत्वम् / न च साक्षादेव तस्य तत्र प्रतिबन्धकत्वमस्तु इति वाच्यम् / उपाधिज्ञानस्यानुमितिविषयाभावानवगाहितयाऽनुमितिकारणीभूतव्याप्तिविशिष्टपक्षधर्मताज्ञानविषयाभावानवगाहितया साक्षादप्रतिबन्धकत्वात् / तथाहि अनुमितौ विषयः पक्षे साध्यवत्ता, तदभावश्च पक्षे साध्याभावः, उपाधिज्ञानं चसाध्यव्यापकत्वसाधनाव्यापकत्वविषय इतिकथंग्राह्याभावावगाहित्वमुपाधिज्ञानस्य यतः पर्वतो न वह्रिमानिति ज्ञानं [204 A] पर्वतो वह्रिमानिति ज्ञानस्य ग्राह्याभावावगाहि भवति। तद्यथा ग्राह्यो भवति पर्वते वह्निः, ग्रहणविषयो हिग्राह्यः, तदभावः पर्वते ग्राह्याभावो भवति, सोऽभावोन वह्रिमानितिज्ञानेनगृह्यते।न चोपाधिाह्याभावः, वन्यभावत्वेनोपाधेरग्रहणात् / किन्तु साध्यव्यापकत्वादिनैव गृहीतः सः / एवं च अनुमितिकारणं भवति व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शरूपम् / न चोपाधिज्ञानं परामर्शविषयाभावावगाहि भवति, तस्य साध्यव्यापकत्वसाधनाव्यापकत्वविषयत्वात् परामर्शस्य च व्याप्तिविशिष्टपक्षधर्मताविषयत्वात्। न च तयोरुपाधिज्ञानपरामर्शयोः परस्पराभावविषयत्वम्। परामर्शस्य व्याप्तिपक्षधर्मते विषयौ, तदभावश्च व्याप्तिपक्षधर्मताभावः, न चोपाधिस्तथा, तस्य साध्यव्यापकत्वसाधनाव्यापकत्वरूपत्वादिति / नानुमितिकारणविघटकतयोपाधिज्ञानस्यानुमितौ प्रतिबन्धनियतत्वमिति प्रकृतविवक्षायां न तत्रातिव्याप्तिरिति भावः / तथा चानुमितिप्रतिबन्धनियतज्ञानविषयत्वं हेत्वाभासत्वमिति पर्यवसन्नम् / नियमश्चात्र यस्मिन् सति अनुमित्यनुत्पादो भवत्येवंरूपः इत्यर्थे पर्यवसितेशङ्कते - नन्विति टीका।व्यभिचारादीति टीका। अत्र व्यभिचार्यादिधर्मिण एव पूर्वं लक्ष्यत्वाभिधानात् न व्यभिचारादिधर्मस्य लक्ष्यत्वमिति साधूक्तं तत्रातिव्याप्तिरिति। तथाहि वहिधूमव्यभिचारीति ज्ञानं वह्निहेतुकधूमानुमितौ प्रतिबन्धकमिति। तथा वह्नौ अनुमितिप्रतिबन्धकज्ञानविषयत्वं वर्तते तथा व्यभिचारस्यापि यतो व्यभिचारविंशिष्टवल्यादिधर्मिज्ञानस्यैवप्रतिबन्धकत्वमितिभवतिप्रतिबन्धकीभूतज्ञानविषयत्वं व्यभिचारस्यापीति लक्षणमतिव्याप्तम्।नचेति टीका।तथा चानुमितिप्रतिबन्धनियतज्ञानविषयत्वे सति हेतुत्वेनाभिमतत्वं लक्षणार्थः / वह्निधूमव्यभिचारीति ज्ञानविषयत्वेऽपि धर्मस्य व्यभिचारस्य हेतुत्वाभिमतत्वाभावात् वढेरेव हेतुत्वेनाभिमतत्वात् धर्मे व्यभिचारादावतिव्याप्तिरित्याशङ्कार्थः / हेतुत्वाभिमतं विकल्प्य दूषयति - हेतुत्वेति टीका। अभिमानोऽत्रज्ञानम्, कादाचित्कः किञ्चित्कालसम्बन्धी। तथाहि धूमवान् वढेरित्यत्र वर्हेतुत्वाभिमानो यदि वहिर्हेतुत्वेन प्रयुज्यते तदेति / तात्कालिक इति टीका। यदा लक्षणं हेत्वाभासलक्षणं क्रियते तदानीं यो हेतुत्वेनाभिमानः। तथाहि आद्य इति टीका।कादाचित्कत्वेन हेतुत्वाभिमानपक्षे इत्यर्थः / व्यभिचारादाविति टीका। यदेत्थं हेतुः क्रियतेपर्वतोधूमवान्धूमाभाववद्वृत्तित्वादित्येव व्यभिचारीहेतुः प्रयुज्यते तदा व्यभिचारस्यापि हेतुत्वेनाभिमानो वर्तते इति कादाचित्कपक्षे व्यभिचाररूपधर्मेऽतिव्याप्तिस्तथैवेत्यर्थः / अन्ते(न्त्ये) इति / धूमवान् वढेरित्यादौ वह्नौ धूमाभाववद्वृत्तित्वं साधारणानैकान्तिकत्वम्, तदाश्रयो [204 B] वह्निः साधारणा