________________ 402 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्याप्तिज्ञानमनुमितौ कारणं तत्कारणं च व्यभिचारज्ञानाभावादिरिति तेषां प्रयोजकत्वात् कारणकारणत्वं वर्तत एवेति भावः / एवं विरुद्धस्य साध्यसामानाधिकरण्यज्ञानप्रतिबन्धकत्वात् असिद्धस्य. पक्षधर्मतादिज्ञानप्रतिबन्धकत्वात् तदभावयोरनुमितिप्रयोजकत्वमस्त्येव / यथाऽनुमितौ वह्निसमानाधिकरणो धूम इति ज्ञानं कारणम्, तज्ज्ञानं वन्यसमानाधिकरणोधूमइतिज्ञानान्न भवतीतिसाध्यसामानाधिकरण्यज्ञाने साध्यासामानाधिकरण्यज्ञानाभावस्य कारणत्वादनुमितौ प्रयोजकत्वं वर्तते। एवं हेतौ पक्षधर्मतादिज्ञानमनुमितौ कारणम्, तत्प्रतिबन्धकंचपक्षवृत्तित्वादिज्ञानमिति तदभावस्यासिद्ध्यादिज्ञानाभावस्यानुमितिप्रयोजकत्वम्, कारणं चपक्षवृत्तित्वज्ञानं तत्कारणं च पक्षावृत्तित्वज्ञानाभाव इति कारणकारणत्वात् / तथा च व्यभिचारादिज्ञानस्याप्रतिबन्धकत्वं कारणीभूताभावाप्रतियोगित्वेऽपि, तथापि व्यभिचारादिज्ञाने सत्यनुमित्यनुत्पादनियमो वर्तते एवेति / तथैव सङ्गतिरिति भावः / तेनेति / अनुमित्यनुत्पादनियतत्वविवक्षणेनेत्यर्थः / व्यभिचारादीत्यत्र [203 B] आदिपदग्राह्यश्चविरुद्धोऽसिद्धश्चेत्यर्थः / कारणविघटकस्य व्याप्तिविशिष्टपक्षधर्मताज्ञानप्रतिबन्धकस्येत्यर्थः / स्वव्याख्यानबीजं प्रकटयति - अन्यथेति टीका। यद्येवं न व्याख्यायते तदा। यथाश्रुते इति। अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वे इत्यर्थः / तदभावस्येति टीका।व्यभिचारादिज्ञानाभावस्येत्यर्थः / व्यभिचारादिज्ञानाभावश्चानुमितौ कारणं न भवति। कथम् ? लाघवाद्व्याप्त्यादिज्ञानस्यैवानुमितौ कारणत्वात् इत्युक्तत्वात् / अन्यथासिद्धत्वादिति टीका / अनुमितौ कारणं व्याप्त्यादिज्ञानम्, तत्कारणं च व्यभिचारज्ञानाभाव इति घटे कुलालपितृवद्अन्यथासिद्धत्वादित्यसङ्गतिः स्यादित्यर्थः। ननु अनुमितिकारणीभूताभावेत्यत्र कारणपदेनानुमितिप्रयोजकत्वमेवोच्यताम्, तच्चानुमितिप्रयोजकत्वं व्यभिचारादिज्ञानाभावस्यवर्तत एवानुमितिजनकव्याप्त्यादिज्ञानजनकत्वात्, किमित्यनुमितिप्रतिबन्धनियतत्वविवक्षणेनेत्यत आह - कारणपदस्येति टीका / प्रकृतलक्षणस्थकारणपदस्येत्यर्थः / प्रयोजकत्वं च नियमे सति नियतपूर्ववर्तित्वे सत्यन्यथासिद्धिचतुष्टयाभावः, सच कारणेऽपि वर्तते कारणकारणेऽपि वर्तते कुलालपितृवत् / एतच्च कारणत्वकारणकारणत्वोभयसाधारणमिति भावः / यदि प्रयोजकपदं कारणपरमेव व्याख्यायते तदोपाधावतिव्याप्तिरित्याह - तादृशतयेति / अनुमितिप्रयोजकतया / कथमनुमितिकारणं भवति / व्याप्तिज्ञानं तत्कारणं भवति / व्यभिचारज्ञानाभावो व्यभिचारज्ञानं चोपाधिज्ञानेन जन्यते / उपाधिज्ञानाभावे सति व्यभिचारज्ञानं न भवतीति / भवत्युपाधिज्ञानाभावस्यानुमितिप्रयोजकत्वमिति चिन्तामणिकारमते। उपाधेर्हेत्वाभासत्वाभावादलक्ष्यत्वम् उदयनमते च लक्ष्यत्वेऽप्यन्यमतेऽतिव्याप्तिः सुदृढेत्यर्थः / यथोक्ते इति टीका। कारणपदस्य अनुमित्यनुत्पादनियतत्वविवक्षणे त्वित्यर्थः / तत्रेति। उपाधौ नातिप्रसङ्गो नातिव्याप्तिर्लक्षणस्येत्यर्थः / ननु अनुमित्यनुत्पादनियातत्वाविवक्षणेनापि कथमुपाधौ नातिव्याप्तिरित्यत आह - उपाधिज्ञानेऽपीति। उपाधिराइँन्धनादिस्तस्य साध्यव्यापकत्वादिज्ञानेऽपिहेतौ