________________ / अथ हेत्वाभासनिरूपणम् / / हेत्वाभाससामान्यनिरुक्तिः। अथ हेत्वाभासास्तत्त्वनिर्णयविजयप्रयोजकत्वान्निरूप्यन्ते। प्रसङ्गात्तत्त्वनिर्णयविजयप्रयोजकत्वाच्चहेत्वाभासान् निरूपयति। अथेति। पूर्वमनुमानं निरूपितम्, तच्चानुमितिहेतुरेव, स च सदसद्भेदात् द्वेधा भवतीति। हेतुः स सद्धेतुः स्मृतः, तस्य चोपेक्षानहत्वं विजयप्रयोजकत्वात् / न चासद्धेतोर्विजयप्रयोजकत्वम्।कुतः? सद्धेतोरेव विजयप्रयोजकत्वात्। न ह्यसद्धेतुप्रयोगेण वादिविजयो भवतीति वाच्यम् / असद्धेतुज्ञाने सद्धेतुः प्रयुज्यते वादिना इति तज्ज्ञानस्य विजयप्रयोजकत्वात् / प्रयोजकत्वं तु कारणकारणत्वम् / विजये कारणम् असद्धेतुभिन्नसद्धेतुज्ञानम्, असद्धेतोश्च प्रतियोगिविधया सद्धेतुज्ञानं प्रति कारणत्वम्, अतः कारणकारणत्वम् / तत्त्वनिर्णयजनकत्वं च सद्धेतोरेव तेनैव तज्जननम्, तस्यापि असद्धेतुभिन्नत्वेन ज्ञानं प्रयोजकम्, तत्रापि असद्धेतुभिन्नज्ञानेन विचारकस्य निर्णयो भवतीत्यसद्धेतोः प्रतियोगिविधया प्रयोजकत्वं तत्त्वनिर्णये भवतीति।नन्वत्र कस्य लक्षणं क्रियते? - धर्मस्य व्यभिचारादेस्तदाश्रयस्य धर्मिणो व्यभिचारिवह्नयादेर्वा ? न तावद्धर्मस्य अग्रिमग्रन्थविरोधात्। तथाहि उपधेयसङ्करेत्यादिन(ना) धर्मिण एव लक्षणकरणात्।नापि[203 A] द्वितीयः तस्य धर्मिणो वन्यादेप्रतिबन्धकत्वात्। .. - [अथ टीका] ।प्रतिबन्धकत्वं तु व्यभिचारज्ञानस्य, न तु धर्मिज्ञानस्येत्यत आह - हेतुवदिति टीका। तथा चात्र योगबलाद् व्युत्पत्तिबलात् हेतुवदाभासत इति रूपात् धर्मी व्यभिचाराश्रयो वन्यादिरेवात्र लक्ष्यः। न चतस्योक्तरीत्या प्रतिबन्धकत्वमेव नास्तीति वाच्यम् / अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वशब्देन तंद्वत्त्वस्य विवक्षिततद्वत्त्वस्य विवक्षितत्वादतो धर्मिणि नाव्याप्तिरिति भावः / धर्मीति वह्नयादिर्व्यभिचारी हेतुरित्यर्थः / तल्लक्षणमिति टीका। हेतुवदाभासमानलक्षणमाहेत्यर्थः / ते च पञ्च। तदुक्तम् - सव्यभिचारविरुद्धसाध्यसमप्रकरणसमातीतकाला इति। अस्यार्थः - तत्र सव्यभिचारो धूमे साध्ये वढ्यादिः / विरुद्धश्च गोत्वे साध्ये अश्वत्वादिः / साध्यसमश्च असिद्धः त्रिधाऽपि / प्रकरणसमः सत्प्रतिपक्षः यथा शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यः व्योमैकगुणत्वात् इत्यादि।अतीतकालश्चपक्षे बाधितसाध्यः यथा वहिरनुष्णः कृतकत्वात् इत्यादि। ननु एवं कृते लक्षणे व्यभिचारिविरुद्धासिद्धेष्वव्याप्तिः, तेषामनुमितिकारणीभूताभावप्रतियोगिज्ञानविषयत्वाभावात्।न चव्यभिचारादिज्ञानस्यैव अनुमित्यनुत्पादनियतत्वेन तदभावस्यैव कारणत्वं दाहादौ मण्याद्यभावस्यैवेति वाच्यम्, व्यभिचारादिज्ञानाभावापेक्षया परामर्शस्य कारणत्वे लाघवादित्यत आह - अनुमितीत्यादि टीका। तथा चानुमितौ यद्यपि व्यभिचारादिज्ञानस्य प्रतिबन्धकत्वं नास्ति उक्तरीत्या व्याप्तिज्ञानस्य कारणत्वात् तथापि