________________ 400 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सर्वनामेति टीका / कृतकत्वादनित्य इत्युच्यमाने कृतकत्वमात्रस्यैवोपस्थितिर्भवति न त्वनित्यत्वव्याप्तिविशिष्टकृतकत्वस्य, तस्मादित्यनेन सर्वनाम्ना यावबुद्धिस्थं तावत्[202B]उपस्थितिः कर्तव्या, व्याप्तिविशिष्टकृतकत्वस्य बुद्धिस्थत्वात् व्याप्तिविशिष्टस्य तस्यैवोपस्थितिः कार्येत्यर्थः / न च पक्षादीनामपि बुद्धिस्थत्वात् तेषामप्युपस्थितिर्भविष्यतीति वाच्यम्, तत्र विभक्त्यर्थानन्वयात् इति। विभक्त्यर्थान्वययोग्यं कृतकत्वादिकमेवोपस्थाप्यते इति भावः / सर्वनाम्ना पूर्वोक्ताशेषरूपलाभो भवतीत्यत्र सम्मतिमाह - तदुक्तमिति टीका। सर्वनाम्नामयं महिमा यत् सर्वं पूर्वोक्तमनुसंहितं तदेवोपस्थितं भवतीत्यर्थः / तेन तस्मादिति सर्वनामपदेन व्याप्तिविशिष्टकृतकत्वोपस्थितिः कर्तुं शक्यत इति भावः / ननु समर्थहेतुसम्बन्धेन पुनरुत्कीर्तनात् विशिष्य सिद्धताऽवगम्यते, सा च किमर्थं प्रतिज्ञादिवत् साध्यतयैवोपपत्तेरित्यत आह - अन्यथेति मूलम् / यदि प्रतिज्ञादिवत् निगमनेनापि साध्यतयैव प्रतिपादनीया तदा साध्यतायाः प्रतिज्ञादिनैव प्रतिपादितत्वात् निगमनं व्यर्थमेव स्यादित्यर्थः / तथा च समर्थे (र्थ)हेतुसम्बन्धेन तस्मादिति रूपेणोत्कीर्तनात् वढ्यादिसाध्यस्य सिद्धतैवावगम्यते / तेन सिद्धत्वज्ञानेन विपरीतशङ्कानिवृत्तिरेवेति / विपरीतशङ्का साध्याभावया(व्या)प्यसत्प्रतिपक्षशङ्का, [तानिवृत्तिद्वारा निगमनमुपयोगीति सिद्धं न्यायावयवाः पञ्चैवेति / कण्टकेति मूलम् / कण्टकोद्धारस्तु पर्वत इत्यादिना या(यद)वयवात्मकं वाक्यमुक्तं तन्नाभासरूपं न मिथ्यारूपम् इति कण्टकोद्धारः सार्वत्रिको न भवति / यत्र वादिनोस्तथाविधः समयः त्वया कण्टकोद्धारप्रयोगः कर्तव्यस्तत्रैव कण्टकोद्धारस्य प्रयोगः, नान्यत्रेति न तस्य सार्वत्रिकत्वमिति। // अवयवग्रन्थः समाप्तः॥ // सम्पूर्णा टीका ॥'कृष्णदुर्गे लिखिता॥ 1. कृष्ण = किशन, दुर्ग = गढ, कृष्णदुर्ग = किशनगढ।