________________ निगमननिरूपणम् 399 यथा न भवत्येवं पर्वतः पर्वत इत्यर्थः / ननु तच्छब्देन उदाहरणकाले वह्निमत्त्वसाधारण्येनोपस्थितस्य पर्वतस्य परामर्शसम्भवेऽपि थाल्प्रत्ययेन तद्वृत्तिः प्रकार: पर्वतत्वमेव किमर्थमुपस्थापनीयं वह्निमत्त्वमपि कुतो नोपस्थापनीयम् ? तथाशब्देनोपस्थापितं यद् वह्रिमत्त्वादिकं प्रकारस्तेन सह पर्वतस्यान्वयो भविष्यत्येवेत्याशङ्कते - यद्यपीतिटीका।पक्षवृत्तिः प्रकारोवह्निमत्त्वम्, तस्य वह्निमत्त्वस्य पक्षे नानन्वयः, उद्देश्यविधेययोर्भेदसम्भवात् / पर्वतत्वेन रूपेणोद्देश्यता वह्निमत्त्वेन विधेयता इति नानन्वय इत्याशङ्कार्थः / समाधत्ते - तथापीति टीका। प्रकृत्यर्थभिन्न एव प्रत्ययार्थस्यान्वयः तत्पदार्थो वह्निमान् / यदि थाल्प्रत्ययेनापि [202 A] वह्निमत्त्वमेवोपस्थाप्यते तदा प्रकृत्यर्थप्रत्ययार्थयोर्भेदाभावान्न पक्षेऽन्वयः / एतदेवाह - तथैव व्युत्पत्तेरिति मूलम् / भिन्नत्वेन प्रकृत्यर्थादुपस्थाप्यतेऽर्थः, तथैव थाल्प्रत्ययस्य व्युत्पत्तिरिति भावः / तृतीयपक्षे दूषणेऽत एवेत्यस्यार्थमाह - तत्पदस्येति / तत्पदेन पक्ष उपस्थापनीयः, थाल्प्रत्ययेन सादृश्यमुपस्थापनीयम् / तथा च पक्षसादृश्यं पक्षे नान्वेति, सादृश्यास्या भेदगर्भितत्वात्, अभेदे सादृश्याभावात् / अत्राभासमाह - नन्विति। तत्पदस्यार्थो दृष्टान्तो महानसादिः। थाल्प्रत्ययेन च सादृश्यमुपस्थाप्यते, तच्च पर्वते अन्वेत्येव / वह्निमत्त्वेन रूपेण महानससादृश्यं पर्वते तिष्ठत्येव महानसपर्वतयोर्भेदादिति। तृतीयपक्षे सादृश्यपक्षे थाल्प्रत्ययस्य नान्वय इत्याभासार्थः / अत्रेति टीका / अभेदानुमाने / ननु दृष्टान्तः पक्षभिन्नः, प्रकृते चाभेदानुमाने पक्षदृष्टान्तयोरभेदात् कथमनुमानं तदित्यतआह - पक्षस्यैवेति टीका।तथा चपक्षस्यैव दृष्टान्तत्वे बाधकाभावात्तत्राभेदानुमाने उक्तदोषतादवस्थ्यात् सादृश्यानन्वयदोषतादवस्थ्यादित्यर्थः / अभेदानुमाने सादृश्यस्यानन्वये आभासमाह - नन्विति टीका / तथा च यद्यपि व्यक्त्योरभेदस्तथापि कालाद्यवस्थाभेदमादाय सादृश्यान्वयो भविष्यतीत्यर्थः / बहूनामितीति टीका। तच्छब्देन महानसधूमवह्निपर्वतादयः सर्वेऽप्युपस्थापनीयास्ततस्तच्छब्देन महानसस्यैव कथमुपस्थितिर्भविष्यतीत्याशङ्कार्थः / अतिप्रसङ्गादित्यस्यार्थमाह - अवयवेति टीका / यदि वादिवाक्ये न्यायरूपे योग्यतया कश्चनार्थोऽन्वेति तदाऽवयवविपर्यासवचनरूपं निग्रहस्थानं न स्यात्। कुतः ? यथा पर्वतो वह्रिमानिति प्रतिज्ञाऽनन्तरं यो यो धूमवान् इत्युदाहरणं प्रयुक्तम्, पश्चाद् धूमादिति हेतुवाक्यं प्रयुक्तम्, इदं यदवयवविपर्यासवचनं तन्निग्रहस्थानदोषो न स्यात् / प्रतिज्ञार्थे उदाहरणार्थोऽयोग्यतयैव नान्वेति / आकाङ्क्षायोग्यतावशात् तु हेतुवाक्यार्थस्यैवान्वयो भविष्यति / योग्यतया सर्वस्यान्वयावयवविपर्यासवचनं दोषो न स्यादित्यर्थः / अतिप्रसङ्गोऽत्रावयवविपर्यासोऽपि दोषो न स्यादित्यर्थरूपः / अयमतिप्रसङ्ग आपादनरूपो न तु लक्षणदोषरूप इति भावः। स्वोक्ते निगमने तस्माद् वह्निमान् इतिरूपे तस्माद् अनित्य इति रूपे वा साधकमाह - तस्मादनित्य इति मूलम् / तत्राशङ्कते - न चेति / तस्मादनित्य इति निगमनं यथा भवता क्रियते तथा कृतकत्वादनित्यो धूमवत्त्वाद्वा वह्रिमान् इत्येव किमिति न क्रियते ?, तच्छब्देन बहूनां प्रक्रमदोष इत्याशङ्कार्थः / समाधत्ते -