________________ 398 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ननु मूले स्वरूप इत्यादि विकल्पत्रयी कृता सा न संभवति। कथम् ? तथेति सर्वनाम्नो वुद्धिस्थे शक्तिः, तत्र च विकल्पानवसरः स्वरूपादीनामनवसरादित्यत आह - थाल्प्रत्ययस्येति टीका / यद्यपि तच्छब्दस्य बुद्धिस्थे शक्तिः तथापि तच्छब्दोपरि यः थाल्प्रत्ययस्तत्र मतभेदेनार्थत्रये शक्तिरिति / मूलकारेणोक्तमर्थत्रयमित्यर्थः / प्रकार इति टीका। ननु प्रकारे थाल्प्रत्ययस्य कथं शक्तिः ?, न हि स्वरूपसम्बन्धविशेषलक्षणं यत् प्रकारत्वं यथा घटे घटत्वं प्रकार: स च स्वरूपसम्बन्धो ज्ञानेन सह सप्रकार: थाल्प्रत्ययेनोपस्थाप्यते स्वरूपसम्बन्धप्रतीत्यभावादित्यत आह - प्रकार इति। प्रकारो नामव्यावर्तको धर्मः, न तुस्वरूपसम्बन्धविशेषलक्षणः प्रकारो थाल्प्रत्ययेनोपस्थाप्यः, तथा प्रतीतेरभावात् / व्यावर्तको धर्मो यथा यथा महानसस्तथा चायं, तच्छब्देन महानसः उपस्थापितः थाल्प्रत्ययेन धूमलक्षणः प्रकार उपस्थापितः / तेन तथाशब्देन धूमवानेव उपस्थापितः इत्यभिप्रायेण - उपनयस्येति टीका / ननु वहिव्याप्यधूमावांश्चायमित्येवोपनयस्याकारस्तथा चायमेतादृशस्तु न भवतीत्यत आह - तथा [201 B] चायमिति टीका / तथा च यन्मते उपनयस्य तथा चायमित्याकारस्तन्मताभिप्रायेणेदं द्रष्टव्यम् / ननु मूलकृतोक्तं तथा चायमिति प्रक्रमात् निगमनस्थतथाशब्देन हेतुमानेव परामृश्यते इति / न हि प्रक्रममात्रेण तथाशब्देन हेतुमत्त्वं बोधयितुं शक्यते इत्यत आह - उपनयस्थेति टीका। आदौ चायमित्युपनयः पश्चात् तस्मात् तथेति निगमनम्, ततोऽनयोः उपनयनिगमनयोः सन्निधानात् यदुपनयस्थतथाशब्देनोपस्थाप्यते तदेव निगमनस्थेनापि तथाशब्देनोपस्थाप्यते / सन्निधानात् सन्निहितत्वात् / तथा चोपनयस्थतथाशब्देन हेतुमानेवोपस्थाप्यते एवं निगमनस्थतथाशब्देन हेतुमानेवोपस्थापनीय इत्यर्थः / द्वितीये पक्षे सामान्येनेति मूलं व्याचष्टे - सामान्येनेतीति टीका / यदि प्रकारवाची थाल्प्रत्ययः तदा तच्छब्दरूपप्रकृत्योपस्थापितो योऽर्थस्तद्वृत्तिावर्तकधर्मलक्षणो यःप्रकारः सथाल्प्रत्ययेनोपस्थापनीयः, तत्रच तच्छब्देन च बुद्धिस्थः पदार्थ उपस्थापनीयः, तत्रान्येषां महानसादीनाम् आदिशब्दात् पर्वतादेः साध्यवत्त्वेन रूपेण व्याप्तिग्रहकाले उपस्थितत्वात् तन्मध्ये पक्षस्याप्युपस्थितत्वात् पक्षवृत्तिर्यः प्रकार: पर्वतत्वं तस्यान्वयः पर्वते कर्तव्यः। तथा चतथाशब्देन प्रकृतिप्रत्ययाभ्यां मिलित्वा वह्रिमत्त्वसामान्येनोपस्थितपर्वतवृत्तिपर्वतत्वस्यान्वयः पर्वते कर्तव्यः न च पर्वतत्वेन रूपेणान्वयः पर्वते संभवति उद्देश्यविधेययोर्भेदाभावात् / पर्वतत्वेन रूपेण पर्वत उद्देश्यः पर्वतत्वमेव विधीयत इति कृत्वाऽनन्वयः पर्वते सम्भवति उद्देश्यविधेययोर्भेदाभावात् घटो घट इत्यादिवत् / एतदेवाह - यो यो धूमवानिति टीका / यो यो धूमवान् सोऽग्निमान् इत्यत्रोदाहरणे पक्षसाधारणं यत् साध्यवत्पदं तेन वह्रिमत्त्वेन रूपेणोपस्थापितो हि यः पर्वतः पक्षस्तस्य पर्वतस्य तत्पदेन परामर्शसम्भवात् / थाल्प्रत्ययोपस्थाप्यमाह - पक्षवृत्तीति टीका। तथा च पक्षवृत्तियः प्रकार: तस्यान्वयः पक्ष एव, तथा चानन्वयो 1. घटोऽयमिति ज्ञाने / प्रतौ टिप्पणी।