________________ निगमननिरूपणम् 397 निगमनं नास्तीति भावः / ननु बहूनां प्रक्रमेऽपि योग्यतया यत् पर्वते योग्यं तस्यैवान्वयो भविष्यति / योग्यं च वह्निमत्त्वादिकम्, तस्यैवान्वय इत्यतआह-वादिवाक्येतिमूलम्। तथाचवादिवाक्ये यदि योग्यतयाऽन्वयस्तदा पर्वतो वह्रिमानित्यपि प्रतिज्ञा न स्यात्, किन्तु पर्वतस्तद्वान्, यो यद्वान् स तद्वान्, यथा स इति / तथा च वादिवाक्यात् योग्यतयैव तेषां तेषामन्वयो भविष्यति। तेन सर्वत्रैव तच्छब्दप्रयोगः स्यात्, योग्यतयैवान्वयेऽतिप्रसङ्ग इत्यर्थः / ननु तथा इत्यत्र वहूनां प्रक्रमे एकस्यान्वये नियामकाभावात् चेत् तथाशब्दप्रयोगो नास्ति तदा तस्मादिति शब्दस्यापि प्रयोगो न स्यात् तच्छब्देन हेतोरेव परामर्शो न स्यात्, अत्रापि बहूनां प्रक्रान्तत्वात्, इत्यत आह - तस्मादितिमूलम्। तस्मादित्यत्रबहूनांप्रक्रमेऽपिपञ्चम्यर्थस्यान्यत्रान्वयाभावात्वह्निव्याप्यधूमादित्यस्यैवान्वयः, नान्येषाम् / एतदेवोसंहरति - तस्मादिति मूलम् / तस्मादनित्यः शब्द इति चेन्निगमनं क्रियते तदा विभक्त्यर्थत्वान्वयबलात् हेतुरेव लब्धः अनित्य इति पदााता तु साध्यवानेवोपस्थित इति तस्मादनित्य इति निगमने विशिष्य सिद्धताऽवगम्यते। ननु सिद्धता कथमवगम्यते इत्यत आह - पूर्वसाध्यतयेति।प्रतिज्ञावाक्यात् पूर्वं साध्यतयोक्तस्य साध्यस्य तस्यैव पुनः समर्थहेतुशब्देनोत्कीर्तनात् सिद्धतावगम्यते। यदि च सिद्धता न स्यात् तदा पुनर्हेतुसम्बन्धेन पुनरुत्कीर्तनं व्यर्थं स्यादित्यर्थः / ननु पञ्चैवावयवा इत्यनुपपन्नम्, अन्येऽप्यवयवास्तिठन्तीत्यत आह - संशयेति मूलम्।आदिशब्दाद् विमर्शजिज्ञासादयोऽवयवा बोद्धव्याः। [201A] एते चावयवलक्षणाभावादेव नावयवाः / अवयवलक्षणं त्वनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वम् / एतच्च संशयादौ नास्ति, शाब्दज्ञानजनकवाक्यत्वाभावात् तेषाम् / नन्वेवं तर्हि तेषां संशयादीनां तत्र तत्र वादे प्रदर्शनं न स्यात् / अवयवत्वाभावे तेषां प्रदर्शनं न स्यादित्यत आह - किन्त्विति मूलम् / तथा च ते स्वातन्त्र्येण न्यायाङ्गत्वेनोपयुज्यन्ते यतः संशयाभावे वादिप्रवृत्तेरेवाभावात् प्रयोजनाभावे च वादो व्यर्थ इत्यतस्तेषामपेक्षा / ननु कण्टकोद्धारः स्वतन्त्रोऽवयवो भविष्यतीत्यत आह - कण्टकेति मूलम् / कण्टकोद्धारस्तु नायमाभासः / एतद्रूपस्य कण्टकोद्धारस्य यत्र वादिनोस्तथासमयस्तत्रैवप्रयोगोऽन्यत्रतुनास्तीति सार्वत्रिकाभावान्नावयवत्वमिति संक्षेपः / निगमनेन साध्याभावशङ्काविधूननं कर्तव्यम्। अथ टीका / सिद्धेति टीका / सिद्धं च पक्षादीति / विवृणोति - तथेति टीका / यथा वहिव्याप्यधूमवानयमित्यत्रोपनये इदंशब्देन पक्षस्यैव यथासिद्धस्य परामर्शः तथा निगमनस्थतथाशब्देनापि साध्यांशस्य सिद्धस्यैव परामर्शो युक्तः / विरोधवारणायेति मूलं व्याचष्टे - पक्षेति टीका। तथा च निगमनेन यद् विरोधिद्वयं - एकः साध्याभावः, अपरंसाध्याभावव्याप्यंवढ्यभावव्याप्यपाषाणवत्त्वादिकं - तयोर्द्वयोर्निरासाय निगमनम् / तथा च निगमनेन साध्याभावो बाधस्तस्य निरासः कार्यः / विपरीतसाधको हेतुः सत्प्रतिपक्षः यथाऽयं वन्यभाववान् पाषाणवत्त्वात्। एतयोर्ययोर्निरासो निगमनेन कर्तव्यः साध्यस्य सिद्धत्वज्ञापनद्वारा तयोर्निरास इत्यर्थः /