________________ 396 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिको चिन्तामणिकारमते तु तस्माद् वह्निमानित्येव निगमनम्। प्राचीनाः स्वमतं वर्णयन्ति - यथेति। यथा तस्मादिति सर्वनाम्ना हेतोर्यः परामर्शः पूर्वोक्तं यत् पक्षधर्मताव्याप्त्यादिकं तल्लाभार्थं तथा साध्यांशस्य तथेति सर्वनाम्ना परामर्शः तस्य प्रयोजनं तु सिद्धस्थले इव विरोधवारणाय / तथा वह्रिव्याप्यधूमवानयमित्यत्र इदंशब्देन सिद्धस्य पक्षस्य परामर्शः तद्वत्तथेतिसर्वनाम्नाऽपिसाध्यांशस्यापिवह्निमत एव परामर्शोऽपियुक्त एव। विरोधवारणायेति मूलम्।पक्षे साध्याभावशङ्काविधूननार्थं तथाशब्दप्रयोग इत्यर्थः / इदं दूषयति - तन्नेतिमूलम्। तथा च तथाशब्दो निगमने योऽस्तिसस्वरूपेवाप्रकारे वा सादृश्ये वा।आये दूषणमाह - तथा चायमितीतिमूलम्। तथा चायमिति उपनये वह्रिव्याप्यधूमवानयमिति प्रक्रमात् तथाशब्देनापि स्वरूपवाचिना तादृशस्वरूपमेव वक्तव्यं यादृशस्वरूपमेव वक्तव्यम् / यादृशस्वरूपमयमिति शब्देनोक्तमस्ति / तथा चास्यानन्वयः, यथा तस्मादित्यनेन वह्रिव्याप्यधूमवत्त्वादित्युक्तं तथेत्यनेनापि वह्रिव्याप्यधूमवान् उक्तः, तथा चानन्वयः, न हि वहिव्याप्यधूमवत्त्वात् वह्रिव्याप्यधूमवान् / अनन्वयमेवोपपादयति - न हीति मूलम् / हेतुमत्त्वात् हेतुमत्त्वं [न] कुत्राप्यन्वितं भवतीत्यर्थः। द्वितीयं दूषयति-न द्वितीयइतिमूलम्।यदि तथाशब्दः प्रकारे तदापूर्वेप्रतिज्ञोदाहरणोपनयादिस्थले वह्निवत् पक्षादीनामपिप्रकारत्वात् ततस्तस्मिन्नेवपक्षे तस्यैव पक्षस्य प्रकारत्वेनासम्भवात् तथा चायमर्थो भवति तथा इतिशब्देन पर्वतवृत्तिः प्रकार: पर्वतत्वं - साध्यवान् यः पक्षस्तद्वृत्तिः प्रकार: पर्वतत्वं- तेन पर्वतत्वप्रकारस्य पर्वतेऽनन्वय एव। तथा चपक्षवृत्तिः प्रकारः पर्वतत्वं तस्य प्रकारस्य पर्वतत्वस्य पर्वतत्वेन रूपेण पर्वत एवान्वयो न भवति, [पर्वतः] पर्वत इति प्रतीतेरभावात्। तथा चेदं पर्यवसन्नम्। तस्मात् तथेति निगमने तस्मादिति शब्दाद् वहिव्याप्यधूमवत्त्वादिति परामृष्टम्, तथा इत्यनेन तच्छब्देन [200 B] प्रकारवाचिना प्रकारः परामृष्टः / स च व्याप्तौ यथा वह्निमत्त्वेन रूपेण महानसादयः प्रविष्टास्तथा पर्वतोऽपि प्रविष्टः, तथा च तद्वृत्तिर्यः प्रकारः पर्वतत्वं तस्य प्रकारस्य पर्वतत्वेन रूपेण पर्वतेऽन्वयो न भवति, [यथा] घटो घट इति प्रतीतेरभावः तथा पर्वतः पर्वत इति प्रतीतेरभावात् / अथ तृतीयं सादृश्यमिति विकल्पं दूषयति - अत एव न तृतीयोऽपीति मूलम् / तथाशब्देन सादृश्यं परामृष्टम् / सादृश्यवाची तथाशब्दो न भवति। अभेदानुमाने तथाशब्देन भेदघटितं सादृश्यं न भवति। तथाहि - अयमेतदभिन्नः एतत्त्वादिति, अत्र यत्र यत्र एतत्त्वं तत्र तत्र एतदभिन्नत्वम्, यथा एतस्मिन्नेव, तथा चायम्, तस्मात् तथा, इत्यत्र तच्छब्देन यद् दृष्टान्तसादृश्यं परामृश्यते तत् पक्षे नास्ति सादृश्यस्य भेदघटितत्वात् प्रकृते च दृष्टान्तस्य भेदघटितस्याभावात् / तथा चाभेदानुमाने तथाशब्दस्यानन्वय एव / दूषणान्तरमाह - बहूनामिति मूलम् / बहूनां यत्र प्रक्रमो महानसधूमवहिपर्वतानां बहूनां यत्र प्रक्रमस्तत्र विशिष्य पर्वतत्वेन रूपेणान्वये नियामकाभावात्। कस्य तथाशब्देनान्वयः?, सर्वेषां पर्वतमहानसादीनां प्रक्रान्तत्वात् एकस्यैवान्वये नियामकाभावात् / तथा च निगमनवाक्ये तथाशब्देन कस्याप्यन्वयो न स्यात् / एतेनैतादृशं तस्मात् तथेति रूपं