________________ उपाधिवादः व्याप्तिः साधनावच्छिन्नेति विशेषणं विना ग्रहीतुं न शक्यते इति साधनावच्छिन्नेति विशेषणं सार्थकम् / अखण्डाभावतयेति टीका / अखण्डाभाव'शब्देन प्रकृतसाधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वं साध्यव्यापकव्यभिचारित्वापेक्षया भिन्नमित्यर्थः / अखण्डाभावेऽभिन्नाभावे इत्यर्थः / तथाचसाध्यव्यापकव्यभिचारित्वमित्यस्य साध्यव्यापकाभावववृत्तित्वमित्यर्थः / साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वमित्यस्य साधनावच्छिन्नसाध्यव्यापकाभावववृत्तित्वादि(त्तित्वमि)त्यर्थः। तत्र च साध्यव्यापकाभावो भिन्नः साधना[वच्छिन्न]साध्यव्यापकाभावो भिन्न इत्यखण्डाभावतयेत्यर्थः / स्पष्टं तथा च न वैयर्थ्यम् इत्यर्थः स्पष्टो दर्शितः / किञ्च पक्षद्वयेऽपि विशिष्टसाध्यव्यभिचारं विशिष्टसाध्यव्यतिरेकं वा प्रसाध्य पश्चात् केवलसाध्यव्यभिचारः केवलसाध्यव्यतिरेको वासाधनीयस्तथा चार्थान्तरं केवलसाध्ये हि विवादो न तु विशिष्टे। अथ प्रकृतसाध्यव्यभिचारसिद्धयर्थं विशिष्टसाध्यव्यभिचारः साध्य इति चेत् / न / अप्राप्तकालत्वात् / प्रथमं साध्यव्यभिचार एवोद्भाव्यस्तत्रासिद्धावुपाधिरिति चेत्, तर्हि प्रकृतानुमाने नोपाधिर्दूषणं स्यात्। किञ्च साध्यव्यभिचारहेतुत्वेन पक्षधर्मावच्छिन्नसाध्यव्यापकव्यभिचार एवोपन्यसनीयो नोपाधिः / किञ्चेति मूलम् / पक्षद्वयेऽपि साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमित्येकः पक्षः / द्वितीयस्तु पक्षधर्मेत्यादिकः / अत्र पक्षद्वयेऽपि दूषणम् / यथा प्रथमं साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वेन किं साधनीयम् ? विशिष्टसाध्यव्यभिचारित्वं साधनीयम्, यथा साधनं साधनावच्छिन्नसाध्यव्यभिचारि / साधनावच्छिन्नसाध्यव्यापकोपाधिव्य(1)भिचारीति पूर्वं साधनीयं पश्चात् केवलसाध्यव्यभिचारः साधनीयः, यथा हेतुः साध्यव्यभिचारी साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वादिति शुद्धसाध्यव्यभिचार: साधनीयः / विशिष्टसाध्यव्यतिरेको यथा इदं साधनवदधिकरणं साधनावच्छिन्नसाध्याभाववत् साधनावच्छिन्नसाध्यव्यापकोपाध्यभाववत्त्वात्। इदं पूर्व साधनीयं पश्चात् शुद्धसाध्याभावः पूर्ववत् साधनीयः। तथा च एवं च साधनेऽर्थान्तरं स्यात् / प्रकृतानुपयुक्तमर्थमर्थान्तरं यतः केवलसाध्ये विवादोऽस्ति / [11A] तत्र केवलेन हेतुना साध्यं साधनीयम्। प्रतिवादिना चोपाधिदात्रा साध्याभावः साधनीयः इति। विशिष्टसाध्याभावसाधनं तु व्यर्थमेव / यदि विशिष्टसाध्ये विवादः स्यात् तदा विशिष्टसाध्याभावसाधनमुपयुक्तं स्यात् इत्यर्थान्तरं स्पष्टमित्यर्थः / परम्परयेति टीका / पूर्वं विशिष्टसाध्यव्यभिचारः, तस्य सिद्धयर्थम् / प्रथमतो विशिष्टसाध्यव्यभिचार: साधनीयः, न चार्थान्तरमिति वाच्यम् / शुद्धसाध्यव्यभिचारस्य शुद्धसाध्यव्यभिचारहेतुभूतो यो विशिष्टसाध्यव्यभिचारः तस्य सिद्धयर्थम् / अथेतीति प्रकृतेति / प्रकृतं साध्यं शुद्धसाध्यम्, तद्वयभिचारो विशिष्टसाध्यव्यभिचारित्वेन हेतुना भवतीति नार्थान्तरमित्याशङ्कार्थः / तदानीमिति टीका / प्रथमतो विशिष्ट