________________ 24 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका रसवत्त्वावच्छिन्नसाध्यव्यापकता, रसवत्त्वावच्छिन्नसाध्यस्य जल एवभावात्, इत्यत आह - इदमपीति टीका। जलं प्रमेयं रसवत्त्वात् इत्यत्र पृथिवीत्वस्योपाधित्वापादनरूपं पक्षातिरिक्ते साध्यव्यापकताऽभिप्रायेण, तथा च पृथिवीत्वस्योपाधेरपि जलपक्षे रूपपक्षे भिन्ने रसवत्त्वावच्छिन्नप्रमेयव्यापकत्वात् तत्रातिव्याप्तिरिति सुखं (स्थं) दूषणम्। ननु तथापिकथमतिप्रसङ्गापादनम् ?, पृथिवीत्वस्योपाधेः वस्तुगत्या साध्यव्यापकता नास्ति। वस्तुगत्या रसवत्त्वावच्छिन्नं प्रमेयत्वं जल एव वर्तते, तत्र पृथिवीत्वं नास्तीत्यत आह - परमार्थतस्त्विति / वस्तुगत्या पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधौ वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्रोद्भूतरूपवत्त्वे चार्वाको]क्तप्रकारेणाव्याप्तिरेव द्रष्टव्या / तत्र साधनावच्छिन्नसाध्यव्यापकत्वाभावादित्यर्थः / जलं प्रमेयं रसवत्त्वात् इदं दूषणं वस्तुगत्या न लगति, साधनावच्छिन्नसाध्यव्यापकत्वाभावादितीह भावः / ____ दूषणान्तरमाह - सोपाधित्वादिति मूलम् / अयं हेतुरसाधकः सोपाधित्वादित्यनुमानमुपाधिदायकेनं वादिना कर्तव्यम् / तत्र सोपाधिकत्वादित्यस्य हेतोरयमर्थः - साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वादिति। तत्र च व्यर्थविशेषणता, यतः साध्यव्यापकव्यभिचारित्वादित्यस्यैव हेतुः (तोः) साधुत्वं यतो यो हेतुः साध्यव्यापकव्यभिचारी सोऽवश्यं साध्यासाधकः इत्येतावन्मात्रेणैव चरितार्थत्वम् / साधनावच्छिन्नेति साध्यविशेषणं व्यर्थम्, प्रयोजनाभावात्, इति मूलार्थः / नन्विति [10B] टीका / साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वादित्यत्र व्यर्थविशेषणता न सम्भवति, यतो व्यभिचारित्वं नाम साध्याभाववृत्तित्वं तच्च भावगर्भत्वम् / तथा च साध्यव्यापकव्यभिचारित्वं हेतुर्भिन्नः साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वं चहेतुर्भिन्नः। ततः साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वरूपहेतुनिष्ठा व्याप्तिः साधनावच्छिन्नेति विशेषणं विना ग्रहीतुं न शक्यते / अतः साधनावच्छिन्नेति विशेषणमपि सार्थकम्। अन्यथा यदि उक्तप्रकारेण वैयर्थ्यं वे(ते)नोच्यते तदा केवलं साध्यव्यापकव्यभिचारित्वादिति हेतुपक्षेऽपि व्यापकपदं व्यर्थं स्यात्, यतः साध्यव्यभिचारित्वादित्यस्यैव हेतोः सा(स)म्याक्]त्वात् / यतः यत् साध्यस्य व्यभिचारि तत् साध्यासाधकमिति व्याप्तिसत्त्वात् / तस्मात् येन साध्यव्यापकव्यभिचारित्वमिति हेतुः कर्तव्यः तेनापि अखण्डाभावतया वैयर्थ्यं निरसनीयम् / तथाहि साध्यव्यभिचारित्वं भिन्नम्, साध्यव्यापकव्यभिचारित्वं च भिन्नम् / कथम् ? साध्यव्यभिचारित्वेन हेतुना ह्रदत्वादेरपि सङ्ग्रह आयाति, यथा यत्र यत्र हूदत्वं तत्र धूमव्यभिचारित्वं वर्तते इति / अथ च साध्यव्यापकव्यभिचारित्वेन हृदत्वादेः सङ्ग्रहो न भवति / यत्र हूदत्वं तत्र साध्यव्यापकद्रव्यत्वप्रमेयत्वादिकं तिष्ठत्येव। तथा द्वयं भिन्नम्। साध्यव्यभिचारित्वं साध्यव्यापकव्यभिचारित्वं च भिन्नम् इति कृत्वा साध्यव्यापकव्यभिचारित्वरूपहेतुनिष्ठा व्याप्तिर्व्यापकपदं विना ग्रहीतुं न शक्यते इति व्यापकपदं सार्थकं वाच्यम् / एवं मयाऽपि साध्यव्यापकव्यभिचारित्वरूपो हेतुर्भिन्नः अथ च साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वरूपो हेतुर्भिन्नः। तथा च साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वरूपहेतुनिष्ठा