________________ 23 उपाधिवादः पक्षधर्मावच्छिन्नसाध्यव्यापकत्वमस्त्येव / कथम् ? पक्षधर्मो भवति द्रव्यत्वम्, तदवच्छिन्नं साध्यं धूमस्तद्व्यापकमस्त्येव / अन्यथेति। यदि द्रव्यत्वरूपं पक्षधर्ममादाय तदवच्छिन्नसाध्यव्यापकता नोच्यते तदा सिद्धान्तेऽप्यगतेः / अयमर्थः पर्यवसितः साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधेरग्रे सिद्धान्ते लक्षणं कर्तव्यमस्ति / तत्र पर्यवसितत्वं नाम पक्षधर्मताबललभ्यत्वम् / पक्षधर्मस्तु वाच्य एव / स चार्टेन्धनादौ द्रव्यत्वादिरेव / तथा च 'तमादाय इदमपि लक्षणमार्टेन्धनादावपि गच्छत्येव / तथापीति टीका / येन रूपेण उपाधिख़तो दोषः तद्रूपस्य निर्वचनमिदम्, तथा च पक्षधर्मावच्छिन्नसाध्यव्यापकत्वं येन रूपेणोपाधिर्दोषस्तद्रूपं न भवति / यतः पक्षधर्मावच्छिन्नसाध्यव्यापकत्वेनाज्ञातस्य शुद्धसाध्यव्यापकत्वेनैव ज्ञातस्यार्थंध(ट्रॅन्ध)नादेः धूमवान् वह्नः इत्यादौ दोषत्वादेतद्रूपस्य निर्वचनेऽर्थं विरमेतेत्यर्थः / यद्वेति टीका / यद्यप्याट्टैन्धनादावप्युपाधौ द्रव्यत्वादिरूपः पक्षधर्मोऽवच्छेदको भवति तथाप्यवच्छेदको यो धर्मः स साध्यनिष्ठा या व्याप्यता ‘साध्यं व्याप्यमुपाधिर्व्यापकः' इत्याकारिका तस्या अवच्छेदकोऽपेक्षितः / धूमवान् वह्नः इत्यत्र तु आर्टेन्धनस्य धूमे व्याप्यताऽस्ति। तस्या अवच्छेदकं द्रव्यत्वं न भवति गौरवात्, किन्तु व्याप्यतावच्छेदकं धूमत्वमेव लाघवात्। गौरवादिति [10A] उपलक्षणम् / अतिप्रसक्तत्वादित्यपि द्रष्टव्यम् / द्रव्यत्वं तु साध्यनिष्ठां व्याप्यतां विहाय गगनादावपि वृत्तेरिति द्रव्यत्वं व्याप्यतावच्छेदकं न भवतीति अर्थः / केषाञ्चिन्मतं दूषयितुमुपक्रम्यति / साधनावच्छिन्नं यत् साध्यं तस्य व्यापकत्वे सति साधनस्याव्यापक उपाधिरिति। यथा ध्वंसो विनाशी जन्यत्वात् इत्यत्र भावत्वमुपाधिः / यतः साधनं जन्यत्वम्, तदवच्छिन्नं यत् साध्यं विनाशित्वं तस्य व्यापकं भवति [भावत्वम्] / अथ च साधनं भवति जन्यत्वं तद्व्यापकं न भवति। जन्यत्वमस्ति ध्वंसे तत्र भावत्वं नास्ति। इति भावत्वमुपाधिः / यथा वा मित्रातनयः श्यामो मित्रातनयत्वात् इत्यत्र साधनं मित्रातनयत्वम्, तदवच्छिन्नं यत् साध्यं श्यामत्वंतस्यव्यापकंभवति शाकपाकजत्वम्।अथ चसाधनं मित्रातनयत्वंतस्याव्यापकंभवति गौरवर्णमित्रातनये व्यभिचारात् / [इति शाकपाकजत्वमुपाधिः] / ____ पक्षधर्मावच्छिन्नेति मूलम् / पक्षधर्मावच्छिन्नं यत् साध्यं तस्य व्यापको य उपाधिस्तत्राव्याप्तिः / कथम् ? तथाहि - वायुः प्रत्यक्षः वायुत्वात् प्रमेयत्वात् वा इत्यत्र व्यभिचारिणि उद्भूतरूपवत्त्वमुपाधिः भवति। स पक्षधर्मो बहिर्द्रव्यत्वम्, तदवच्छिन्नं यत् साध्यं प्रत्यक्षत्वं तस्य व्यापको भवति। यत्र यत्र बहिर्द्रव्यत्वावच्छिन्नं प्रत्यक्षत्वं तत्र तत्रोद्भूतरूपवत्त्वं यथा घटे।अत्रोपाधेः साधनावच्छिन्नसाध्यव्यापकता नास्ति। साधनं वायुत्वम्, तदवच्छिन्नं प्रत्यक्षत्वमेवासिद्धमिति उद्भूतरूपवत्त्वोपाधौ अव्याप्तिरित्यर्थः / जलमिति मूलम् / जलं प्रमेयं रसवत्त्वात् इत्यत्र सद्धेतोः पृथिवीत्वस्यापि उपाधित्वंस्यात्, यतः साधनंरसवत्त्वं तदवच्छिन्नं यत् साध्यं प्रमेयत्वं तद्व्यापकत्वमस्ति पृथिवीत्वस्य, यथा यत्र यत्र रसवत्त्वावच्छिन्नं प्रमेयत्वं तत्र तत्र पृथिवीत्वमित्यस्ति इत्यर्थः / ननु कथमस्योपाधे 5. द्रव्यत्वादि / / प्रतौ टिप्पणी। ..