________________ 22 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका __नापीति। पक्षधर्मावच्छिन्नं यत् साध्यं तस्य व्यापकत्वे सति साधनस्याव्यापक उपाधिः। यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र पक्षधर्मो वायुधर्मो बहिर्द्रव्यत्वम्, तदवच्छिन्नं यत् प्रत्यक्षत्वं तस्य व्यापकमुद्भूतरूपवत्त्वमिति स उपाधिः / एवं धूमवान् वढेः इत्यत्रापि पर्वतमहानसान्यतरत्वरूपपक्षधर्मावच्छिन्नधूमव्यापकार्टेन्धनमुपाधिः / एवमन्यत्रापि पक्षधर्मः कोऽपि कल्पनीय इति भावः / दूषयति - साधनावच्छिन्नेति। साधनावच्छिन्नंयत्साध्यं तस्यव्यापकमुद्भूतरूपवत्त्वम्, यत्रबहिर्द्रव्यत्वावच्छिन्नंप्रत्यक्षत्वंतत्र उद्भूतरूपवत्त्वमिति साधनावच्छिन्नसाध्यव्यापकताऽस्ति परम् उद्भूतरूपवत्त्वस्य पक्षधर्मावच्छिन्नसाध्यव्यापकता नास्ति। पक्षधर्मो भवतिआत्मत्वम् आत्मघटान्यतरत्वंवा, तदवच्छिन्नंसाध्यं प्रत्यक्षत्वम्, तद्व्यापकत्वाभावात् तदवच्छिन्नसाध्यस्यआत्मन्येवसत्त्वात्, तत्र उद्भतरूपवत्त्वाभावाबहिर्द्रव्यत्वस्य चापक्षधर्मत्वात्, इति साधनावच्छिन्नसाध्यव्यापकोपाधौ अव्याप्तिरित्यर्थः / दूषणान्तरमप्याह - शब्द इति / अत्र भवु(व)दनुमानेऽश्रावणत्वमप्युपाधिः स्यात्, पक्षधर्मावच्छिन्नसाध्यव्यापकत्वात्। तथाहि पक्षधर्मो भवति गुणत्वम्, तदवच्छिन्नं यत् साध्यमभिधेयत्वं तद्व्यापकत्वात् रूपादौ अश्रावणत्वस्य / अथ च साधनाव्यापकत्वात् / साधनं प्रमेयत्वम्, तदस्ति शब्दे अश्रावणत्वं तु नास्तीति साधनाव्यापको भवतीत्यतिव्याप्तिः / दूषणान्तरमप्याह - आर्टेन्धनवत्त्वादाविति। धूमवान् वहेः इत्यत्र [9B] आर्दैन्धनादौ उपाधौ अव्याप्तिः यथा पक्षधर्मावच्छिन्नसाध्यव्यापकत्वाभावात् / तत्र तस्योपाधेः शुद्धसाध्यव्यापकाते(? कत्वे) व्याप्तिः। .. अथ टीका।साधनावच्छिन्नेतीति। प्रागभावेति। प्रागभावो विनाशी जन्यत्वात् इत्यत्र भावत्वमुपाधिर्भवति / तन्न व्याप्तिः, यथा पक्षधर्मो भवति प्रागभावत्वं प्रागभावघटान्यतरत्वं वा, [तद]वच्छिन्नं साध्यं विनाशित्वम्, तद्व्यापकत्वं भावत्वस्य नास्ति। यतः प्रागभावघटान्यतरत्वावच्छिन्नसाध्यस्य प्रागभावे सत्त्वात् तत्र चभावत्वाभावात् इतिभावः। अन्ये तुइति। एवंफक्किका योजयन्ति- इदं यत् पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति इत्युपाधिलक्षणमुक्तं तत् उपाधिमात्रस्य लक्षणनिर्वचनं न भवति, किन्तु येन रूपेण ज्ञात उपाधिः हेतोः दोषो भवति तद्रूपस्य निर्वचनमिदं पक्षधर्मावच्छिन्नत्वादिरूपमेव वक्तव्यम् / तत्र चायं दोषः / तथा च पक्षधर्मावच्छिन्नसाध्यव्यापकत्वेनैव ज्ञातस्योपाधेः दूषकता नास्ति, यतः पक्षधर्मावच्छिन्नसाध्यव्यापकत्वेन ज्ञातस्यापि साधनावच्छिन्नसाध्यव्यापकत्वेन ज्ञातस्य शुद्धसाध्यव्यापकत्वे सति साधनाव्यापकत्वेन ज्ञातस्याइँन्धनादेरपि हेतुदोषत्वात् इति कृत्वा पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति इत्यादिकं येन रूपेण उपाधिख़तः तद्रूपं न भवति इत्येतन्निर्वस(च)नेऽर्थान्तरमेवेति टीकार्थः / शब्दोऽभिधेय इति टीका / न तु शब्दधर्मगुणत्वावच्छिन्नसाध्यव्यापकत्वम् अश्रावणत्वस्य, गुणत्वावच्छिन्नाभिधेयत्वस्य शब्दे एव सत्त्वात् तत्र चाश्रावणत्वाभावान्न साध्यव्यापकत्वमित्यत आह - एतच्चेति / अश्रावणत्वोपाधौ अतिव्याप्तिरूपं दूषणं पक्षातिरिक्ते साध्यव्यापकतामादायेति मतमाश्रित्य ज्ञेयम् / तथा चाश्रावणत्वस्यापि शब्दातिरिक्ते रूपादौ गुणत्वावच्छिन्नाभिधेयत्वव्यापकत्वात् तत्रातिव्याप्तिरितिभावः।आर्टेतिटीका। यद्यपिआर्टेन्धनवत्त्वोपाधावपि