________________ उपाधिवादः तत्सद्भावेऽनुमितिर्न भवत्येवोपाधिसद्भावादित्यर्थः / न त्विति / समव्याप्तोपाधिवादिमते समव्याप्तोपाधिव्यतिरेकेऽनुमितिनियमो नास्ति।कथमिति तदेवाह - जलेति।जलहूदो वह्निमान् [धूमात्] इत्यत्र समव्याप्तोपाधिः कोऽपिनास्तीति। तद्वयतिरेकोऽस्ति परमनुमितिनियमो नास्ति।स्वरूपासिद्धानुमितिबन्धात्।स्वरूपासिद्धिरित्युपलक्षणम्। बाधो द्रष्टव्यः / स्वरूपासिद्धिस्तु[9A] पक्षे हेतुस्वरूपस्यासिद्धेरित्याशङ्कार्थः / पक्षवृत्तित्व इति। तथा च पक्षवृत्तित्वे सति बाधप्रतिरोधाभावे च सति यद्व्यतिरेके हि लिङ्गस्य हेतोः समीचीनत्वनियमस्तत्तु अत्र दूषणम् / अत्र पङ्क्तिद्वयं लिख्यते / तथा च जलहूदो वह्निमान्] धूमादित्यत्र समव्याप्तोपाधिव्यतिरेको यद्यपि वर्तते तथापि धूमस्य हेतोः पक्षवृत्तित्वमेव नास्ति। पक्षवृत्तित्वाभावादेव तत्र नोक्तदोषः / व्यभिचारादिपरिग्रह इति / तथाचव्यभिचारस्य दूषकता नस्यात्।व्यभिचाराभावे जलहृदो वह्निमान् धूमात् इत्यादौ व्यभिचाराभावेऽपि अनुमितेरभावादित्यर्थः / एतदेवाह - अन्यतरेति।व्यभिचारिणि विरुद्धत्वव्यतिरेके लिङ्गस्य समीचीनत्वनियमो नास्ति। अथ चव्यभिचारस्य व्यतिरेके अत्रपक्तिचतुष्टयं विलोक्यते।शङ्कते - यद्यपीति। यथाश्रुते यद्यतिरेके इति मूलस्यास्यायमर्थः / यद्वयतिरेके भवत्येव व्यभिचाराभावः तदेव तत्र दूषणम् इत्युच्यते चेत्, तदा पक्षवृत्तित्वे इत्यादिविशेषणत्यागेनाप्युपाप]त्तिर्भवति / कथम् ? जलहूदो वह्निमान् धूमात् इत्यत्रानुमाननियमो यद्यपि नास्ति तथापि समव्याप्तोपाधिव्यतिरेके व्यभिचाराभावनियमो वर्तते एवेत्यर्थः / उपपादकान्तरमाह - युक्तं चेति। तथा युक्तं यद्यतिरेके व्यभिचाराभाव इत्येवोक्तम् / कुतः ? यतो यदभावो व्यभिचारविरोधी इत्यनेन यद्व्यतिरेके व्यभिचाराभाव इत्युक्तमस्ति / तथा च तदेव दूषणीयम् / ननु अनुमितिर्न भवत्येवेति नोक्तमस्ति। न तद् दूषणीयमित्याशङ्कार्थः / समाधत्ते - तथापीति / तत्रेति कुसुमाञ्जलिप्रकाशो(शे) यद्यतिरेके अनुमितिर्न भवत्येवेति साक्षादुक्तमस्तीति / तथैवोक्तम् / उपाधेर्लक्षणान्तरमनूद्य दूषयति। नापि पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधित्वं साधनावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात्।शब्दोऽभिधेयः प्रमेयत्वात् इत्यत्र अश्रावणत्वस्योपाधित्वापत्तेश्च शब्दधर्मगुणत्वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्र अश्रावणत्वं व्यापकं पक्षे प्रमेयत्वस्य साधनस्याव्यापकं हि तत् / आर्टेन्धनवत्त्वादौ उपाधौ पक्षनियततादृशधर्माभावाच्च। अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक: उपाधिः तेन ध्वंसस्य जन्यत्वेन ध्वंसप्रतियोगित्वे साध्ये साधनावच्छिन्नसाध्यव्यापकं भावत्वमुपाधिः श्यामत्वे शाकपाकजत्वमुपाधिरिति / तन्न / पक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात् जलं प्रमेयं रसवत्त्वात् इत्यत्र रसवत्त्वावच्छिन्नसाध्यव्यापकपृथिवीत्वस्योपाधित्वप्रसङ्गात् सोपाधित्वादसाधकमित्यत्र साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वे साधनावच्छिन्नेत्यस्य व्यर्थत्वप्रसङ्गात् च।