________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदपेक्षया साध्यव्याप्यव्याप्यत्वं लाघु], तत्र साध्यव्यापकव्याप्य एतस्याधिकस्य प्रवेशात् गौरवमित्यर्थः / न त्विति मूलम् / साध्यव्यापकव्याप्यत्वमव्यभिचारे तन्त्रं न भवति / रूपमनित्यं गुणत्वात् इत्यादौ व्यभिचारस्य दर्शितत्वात् इत्यर्थः / अथेष्टापत्तिमाह - यथा व्यापकत्वं व्यर्थं भवतु / मया साध्यव्याप्यव्याप्यत्वमेवानो (नौ)पाधिकत्वे तन्त्रं वक्तव्यम् / उपाधिश्च साध्या(ध्य)व्याप्यत्वं [8B] साधनाव्यापकत्वमेवोच्यते इष्टापत्तिरित्यर्थः / इष्टापत्तिं दूषयति - साध्यव्याप्यमित्यत्रापि हीति / त्वयोक्तं साध्यव्याप्यव्याप्यत्वमेवानौषाधिकत्वे तन्त्रमिति तत्र मयोच्यते अत्रापि साध्यव्याप्यमित्यत्रापि अनौपाधिकत्वं प्रवष्टिम्, व्याप्यपदेन व्याप्तेः प्रवेशात्, तत्रापि अनौपाधिकत्वं साध्यव्याप्यव्याप्यत्वमिदमेव वक्तव्यम्, तत्रापि व्याप्यत्वं प्रविष्टमित्यनवस्था स्यादित्यर्थः। तथा चेति।अनवस्थामुपपादयति।साध्यव्याप्यत्वनिश्चयो यः सोऽनौपाधिकत्वज्ञानाधीनः, तत्राप्यनौपाधिकत्वं साध्यव्याप्यव्याप्यत्वमेवेत्यनवस्था / ननु पूर्वमेवोक्तम् अनौपाधिकत्वज्ञानं व्याप्तिज्ञाने कारणं न भवतीति, साम्प्रतमनौपाधिकत्वज्ञानं व्याप्तिज्ञाने कारणमिति कथमनवस्थेत्यत आह - एतच्चेति / एतद् अनवस्थारूपदूषणमित्यर्थः / एतावता तव किमभिप्रेतम् ? साध्यव्यापकव्याप्यत्वमेवानौपाधिकत्वमभिप्रेतम् / साध्यव्याप्यव्यापकव्याप्यत्वं त्वयैव निराकृतम्, व्याप्यत्वांशस्य व्यर्थत्वात् / तथा च शब्दोऽनित्यो गुणत्वात् इत्यत्र व्यभिचारिणि गुणत्वेऽतिव्याप्तिः / कथम् ? साध्यमनित्यत्वम्, तस्य व्यापकं प्रमेयत्वम्, तस्य व्याप्यं गुणत्वं भवत्येव, इति गुणत्वे तवाभिप्रेतानौपाधिकत्वलक्षणमतिव्याप्तमित्याह - तत् किमिति / तदनौपाधिकत्वं साध्यव्यापकव्याप्यत्वरूपं व्याप्तिलक्षणं न स्यात् / गुणत्वे व्यभिचारिण्यपि गतत्वादित्याहेत्यर्थः। ___ अनौपाधिकत्वे चेतीति टीका। तथा चानौपाधिकत्वरूपं यत् व्याप्तिलक्षणं तत्र यावत्पदं साध्यव्यापके दत्तमेव / तथा चायमर्थः - न केवलंसाध्यव्यापकव्याप्यत्वमेवानौपाधिकत्वं ब्रूमः येनोक्तगुणत्वेऽतिव्याप्तिः स्यात् किन्तु यावत्साध्यव्यापकव्याप्यत्वम्। यावन्ति साध्यस्य वयादेापकानि द्रव्यत्वप्रमेयत्वादीनि तावतां हेतु प्प्यः, यत्रहेतुस्तत्र तावतीति, तथा चगुणत्वे नातिव्याप्तिः। यावन्ति अनित्यत्वस्य साध्यस्य व्यापकानि अनित्यत्वप्रकारकप्रमाविशेष्य(?ष)त्वादीनि, तावतां गुणत्वं व्याप्यं न भवति, जलपरमाणुरूपे व्यभिचारात् / तत्र गुणत्वमस्ति, अनित्यत्वप्रकारकप्रमाविशेष्य(?ष)त्वं नास्ति, तस्य नित्यत्वात् / किञ्चेति मूलम् / यदभावो व्यभिचारविरोधीत्यत्र दूषणान्तरमाह - यस्मिन्निति / यस्मिन् सति अनुमितिर्न भवति तदेव तत्र हेतौ दूषणम् / यद्व्यतिरेकेऽनुमितिर्न भवत्येवेति तत्र तदूषणमिति / एतद्गर्भा(भ) विरुद्धत्वादेरिति मूलम् / विरुद्धत्वं नाम साध्याभावव्याप्यत्वम्, हेतोस्तद् दूषणं न स्यात् यतः विरुद्धत्व(त्वं) व्यतिरेके। अ(त)देवेतीति टीका। यस्मिन् सति अनुमितिर्न भवति तत् तत्र दूषणमिति चेत् जातं ततो विषमव्याप्तस्य आर्टेन्धनादेरप्युपाधित्वमागतम् / 1. साध्यव्यापकव्याप्यत्वम् इति शुद्धं प्रतिभाति /