________________ 15 उपाधिवादः सम्भवति तथापि साध्यमेव साध्येन सह समव्याप्तोपाधिर्भवति। ननु साध्यं कथमुपाधिः ?, साध्यं स्वस्य व्यापकं न भवति यतो भेदे व्याप्यव्यापकभाव इत्यत आह - अभेदेऽपीति। तथा च साध्यमपि साध्यस्य व्यापकं भवति / यत्र साध्यं तत्र साध्यम् / एवं साध्यं साधनाव्यापकमपि भवति, साधनस्य साध्येन समं व्यभिचरितत्वात्, साध्याभाववत्यपि साधनसत्त्वादिति / तत्र साध्यस्योपाधित्वम् / वस्तुत इति टीका / साध्यमेव तत्र किमर्थमुपाधिरुच्यते ? साध्यसमव्याप्तं यदा, नक(नु) साध्यवत्त्वप्रकार[क]प्रमाविशेषत्वं धर्मस्तत्रोपाधिर्भवत्येव / यत्र साध्यं तत्र साध्यवत्त्वप्रकारकप्रमाविशेषत्वं धर्मस्तत्रोपाधिर्भवत्येव / यत्र साध्यं तत्र साध्यवत्त्वप्रकारकप्रमाविशेषत्वं वर्तते / अयं साधनस्याव्यापको भवति, यतः साध्यवत्त्वप्रकारकप्रमा-विशेषत्वाभाववत्त्व(त्त्वेऽ)पि साधनस्य वृत्तेरित्यर्थः / यदभावेत्यादिना समव्याप्तस्यैवोपाधित्वमुक्तम् / तद् दूषयति। तन्न / तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्रमावश्यकत्वात् लाघवाच्च न तुसाध्यव्यापकव्याप्यत्वमपि,भवतैवव्यभिचारस्यदर्शितत्वात्।नचसाध्यव्याप्यव्याप्यत्वमेवानौपाधिकत्वम्, साध्यव्याप्यमित्यत्रापि ह्यनौपाधिकत्वंतदेव वाच्यं तथा चानवस्थेति, अनौपाधिकत्वे च व्याप्तिलक्षणे यावदिति पदं साध्यव्यापकत्वे विशेषणं दत्तमेव। किञ्चयस्मिन् सति अनुमितिर्न भवति तदेवतत्र दूषणंनतु यद्व्यतिरेके भवत्येवेत्येतद्ग) विरुद्धत्वादेरप्यदोषत्वापत्तेः / तन्नेति।पूर्वकृतेमतेतवसमव्याप्तोपाधिःसाध्यव्यापकः साध्यव्याप्योऽपि, तत्रोच्यते - उपाधेः साध्यव्यापकत्वं व्यर्थम्। तत्र हेतुमाह - अव्यभिचारे किं तन्त्रम्। साध्यव्यापकव्याप्यत्वं साध्यव्याप्यव्याप्यत्वंवा? तत्र प्रथमं न, त्वयैव व्यभिचारदर्शितत्वात्। यथारूपमनित्यं गुणत्वात्इत्यत्रअनित्यत्वस्यव्यापकंप्रमेयत्वम्, तद्व्याप्यं भवति गुणत्वं यथा यत्रगुणत्वंतत्र प्रमेयत्वमिति। तथाप्यव्यभिचारो नास्ति जलपरमाणा(ण्वा)दौ व्यभिचारात् / तस्मात् अव्यभिचारे द्वितीयमेव तन्त्रं वक्तव्यं साध्यव्याप्यव्याप्यत्वम् / तथा च साध्यस्य वक़्यादेाप्य वह्निसामा यादिकम्, तस्य च धूमो व्याप्यस्तदा वहेरप्यवश्यं व्याप्य एव भवति, व्याप्यव्याप्यस्य सुतरां व्याप्यत्वात् / तथा च साध्यव्यापकत्वस्य प्रयोजनं नास्ति / साध्यव्यापकत्वमव्यभिचारे प्रागेव दूषितमेव / एवं च साध्यव्यापकत्वमव्यभिचारे तन्त्रं न भवति। तथा च साध्यव्याप्य एवोपाधिरिति सम्पन्नम् / यद्यप्युपाधे र्व्यापकत्वं गतं तदा समव्याप्त उपाधिरिति भग्नमित्यर्थः / एवं च यत्रोपाधिस्तत्र साध्यमिति साध्यव्याप्यमेवोपाधिरित्यभिप्रायार्थः खण्डयितु यः / आवश्यकत्वादिति मूलम् / व्याप्यव्याप्यत्वस्य सुतरां व्याप्यत्वमिति न्यायेन(ना)व्यभिचारो नियतो भवतीत्यर्थः / लाघवादिति / साध्यव्याप्यः साध्यव्यापकश्च,