________________ 18 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका एतदेव दर्शयति - जन्यत्वमिति। जन्यत्वं साधनं यदि भावत्वस्योपाधेाप्यं स्यात् तदा विनाशित्वस्य व्याप्यं स्यात्। यो जन्यो भावः सोऽवश्यं विनाश्येवेयं व्याप्तिर्वर्तते। जन्यभावत्वं नाश्यतावच्छेदकम् / अयं विषमव्याप्तो भवति / अस्य साधनव्यापकत्वेन हेतुसाध्ययोरव्यभिचार आपादयितुं शक्यते / वस्तुगत्या विषमव्याप्तो भवत्ययम् / उपाधिस्तु तन्मते न भवतीत्यतिव्याप्तिरित्याशङ्कार्थः / समाधत्ते - यव्याप्यत्वमिति / तथा च भावत्वमुपाधिन भवति / तन्निरासाय विवक्षापूर्वं लक्षणं करोति / यद्व्याप्यत्वं(त्वमिति) यस्योपाधेाप्यत्वं सर्वत्र साधने सर्वस्मिन् हेतौ व्यभिचार(रा)भावमापादयति स उपाधिः, भावत्वं च नोपाधिः यतो भावत्वव्याप्यत्वं सर्वत्र साधने व्यभिचारविरोधि न भवति। भावत्वव्याप्यत्वं वर्तते आकाशत्वे(? शे), तत्र विनाशित्वव्याप्यत्वं नास्ति इति व्यभिचारात् सर्वत्र साधने व्यभिचारविरोधि न भवति / प्रमेयत्वादाविति / प्रमेयत्वं यदि भावत्वव्याप्यं स्यात् तदा विनाशित्वव्याप्यं स्यात् इत्यापादनं न सम्भवति। तेन प्रतिवादिना वक्तव्यम् - प्रमेयत्वं भावत्वस्य व्याप्यमपि भविष्यति विनाशित्वव्यभिचार्यपि भविष्यति इति कृत्वा तत्रापादनं न सम्भवति, तथा च भावत्वं नोपाधिः / यद्यपि जन्यत्वादौ भावत्वव्याप्यत्वं व्यभिचारविरोधि भवति तेन कृत्वाऽऽपादनं सम्भवति तथापि ध्वंसो विनाशी प्रमेयत्वात् इत्यादौ आपादनं न सम्भवति इति न स उपाधिः। न च विषमेति मूलम् / विषमव्याप्तस्य प्रमेयत्वस्याभावो व्यभिचारविरोधी नास्ति / हेतुमाह - तस्य विषमव्याप्तस्य अभावेऽपीति / कोऽर्थः ? साधनव्यापकत्वेऽपीत्यर्थः / कथमित्यत आह - अस्तीति मूलम् / शब्दोऽनित्यः गुणत्वात् रूपवत् / अत्र प्रमेयत्वमुपाधिन भवति, विषमव्याप्तत्वात् / यद्यपि यत्रानित्यत्वं तत्र प्रमेयत्वमिति विद्यते, तथापि यत्र प्रमेयत्वं तत्रानित्यत्वमेवं नास्ति। प्रमेयत्वमाकाशे, तत्र चानित्यत्वमेव नास्ति, इति विषमव्याप्तः / तस्य प्रमेयत्वस्य साधनव्यापकत्वं व्यभिचारविरोधि न भवति / गुणत्वं यदि प्रमेयत्वव्याप्यं स्यात् तदा अनित्यत्वव्याप्यं स्यादित्यापादनं न सम्भवति। कथम् ? प्रमेयत्वव्याप्यत्वं वर्तते गुणत्वे, तत्रानित्यत्वव्याप्यत्वं नास्ति। तथा च यत्र यत्र गुणत्वं तत्र तत्रानित्यत्वमिति चा(ना)स्ति। गुणत्वे(त्वं) वर्तते जलपरमाणुरूपे तत्रानित्यत्वं नास्ति। व्यभिचारात् गुणत्वं नानित्यत्वस्य व्याप्यमिति कृत्वाऽऽपादनं तेन न सम्भवतीत्यर्थः / अथसमव्याप्तोपाधौ लक्षणयति।समव्याप्तिकस्येतिमूलम्।आर्टेन्धनप्रभववढ्यादेस्त्वभावो व्यभिचारविरोधी भवत्येव / एतदेवाह - न हीति। साध्यस्य धूमस्य [8A] व्याप्यम् अथ च व्यापकमेतादृशं यदा आर्टेन्धनप्रभववयादिकं यद्व्याप्यं यत् तत् साध्यं धूमं न व्यभिचरति / यथा धूमवान् वह्नः इत्यत्राट्टैन्धनप्रभववह्निरुपाधिः, तस्य उपाधेर्यद्व्याप्यमार्टेन्धनप्रभववह्निरेव / अभेदेऽपीति न्यायेन स धूमस्य व्याप्यं भवत्येवेत्यर्थः / नन्विति टीका।सर्वत्र व्यभिचारिणि समव्याप्तोपाधिर्न सम्भवति, विषमव्याप्तस्योपाधिर्भवता नोच्यते। तथा च व्यभिचारे वाऽवश्यमुपाधिरिति नियमो भग्न इत्याशङ्कार्थः / व्यभिचार इति मूलम् / यत्र त्वयोक्तं समव्याप्तः कोऽप्युपाधिर्न संभवति विषमव्याप्तस्योपाधित्वं ये(च) नोच्यते तत्र व्यभिचारेऽवश्यमुपाधिरिति नियमो भग्नः, तत्रोच्यते यद्यपि साध्यातिरिक्तः समव्याप्तः कोऽप्युपाधिर्न