________________ उपाधिवांदः तथा चार्टेन्धनप्रभववह्निरेवोपाधिः, न तु आर्टेन्धनम् / तथा चार्टेन्धनप्रभववढ्यभावो वह्रौ एवास्ति / वह्नौ वढेरभावात् तत्र च वह्नयव्यभिचारस्यापि सद्भावात् / तथा हि यत्र यत्र वह्निस्तत्र धूम इति नास्ति। अयोगोलके व्यभिचारः / ततो नाट्टैन्धनप्रभववढ्यभावस्य व्यभिचारविरोधित्वमुपाधिर्भवति। परं तदभावो न व्यभिचारविरोधीत्यन्यथा व्याचष्टे। __ यस्येति टीका / यस्य साध्यव्यापकतया [इति] त्व(? कृ)त्वा योऽभावऽकोऽर्थः साधनव्यापकत्वम्, तद् यस्योपाधेः व्यभिचारविरोधिः (धि) स उपाधिः / ननु तथाप्या!न्धनप्रभववह्नः साधनव्यापकं(पकत्वं) व्यभिचारिणि वह्रिव्यापकत्वमप्रसिद्धम्, यत्र वह्निस्तत्रा!न्धनप्रभववह्निरिति नास्ति / अयोगोलके वह्रिसत्त्वे आर्टेन्धनप्रभववह्रिमत्त्वाभावात् इत्यत आह - तदपीति टीका। साधनव्यापकत्वमपीत्यर्थः / वस्तुगत्या यद्यपि आर्टेन्धनप्रभववह्नः साधनव्यापकत्वमप्रसिद्ध तथापि साधनव्यापकत्वं प्रसञ्जितं बोद्धव्यम् / तथाहि - साधनं वह्निर्यद्याइँन्धनप्रभववहिव्याप्य: स्यात् तर्हि धूमव्याप्यः स्यात् इत्यापादनं कर्तुं शक्यते / अन्यथेति / यदि साधनव्यापकत्वं प्रसञ्जितं नोच्यते, तदा असम्भव(म्) एव / असम्भवमेवाह - उपाधेरिति टीका / उपाधिः साधनस्य व्यापक एव भवतीति कृत्वा कथनम् / तस्य साध्यव्यापकत्वमेवं लक्षणस्य पर्यवसन्नम् / अर्थमाह - एवं चेति / यदि येनोपाधिसम्बन्धिना प्रसञ्जितेन साधनव्यापकत्वेन हेतुसाध्ययोरव्यभिचार आपादयितुं शक्यते स साधनव्यापकरूपहेतावुपाधिः / अस्यार्थः। धूमवान् वढेः इत्यत्राइँन्धनप्रभववह्नौ उपाधौ इदं लक्षणं गच्छति / कथम् ? आर्दैन्धनप्रभववह्निसम्बधिना साधनव्यापकत्वेन वह्निधूमयोरव्यभिचार आपादयितुं शक्यते। कथम् ? वह्निर्यदिआर्दैन्धनप्रभववढेाप्यो भवति, अभेदेऽपिव्याप्यव्यापकभावो वर्तते इत्यग्रे वक्तव्यम् / तादृशश्चेति टीका / यदि येन साधनव्यापकत्वेन हेतुसाध्यसो(यो)र()व्यभिचाराभाव आपादयितुं शक्यते / कथम् ? वह्निहेतुर्यदि आर्दैन्धनव्याप्यः स्यात् तर्हि धूमव्याप्यः स्यात् इत्यापाद[ने] क्रियमाणे व्याप्ति स्ति। कथम् ? यो यः आर्टेन्धनव्याप्यः ससधूमव्याप्य इति नियमो नास्ति। यतः आर्टेन्धनव्याप्यमार्टेन्धनमेवाभेदसम्बन्धेन भवति, तच्चा!न्धनं धूमव्याप्यं न भवति / हूदे आर्टेन्धनं वर्तते, तत्र धूमो नास्तीति व्यभिचारः। आर्टेन्धनप्रभववाप्यस्तु धूमः, आर्टेन्धनप्रभववहिर्वाऽवश्यं धूमव्याप्य एवेति / तस्येति / समव्याप्तस्य साध्यव्याप्यतया समव्याप्तो य उपाधिस्तद्व्याप्यं चेत् साधनं तदा अवश्यं साध्यस्यापि] व्याप्यं भवत्येव / हेतुमाह - व्याप्यव्याप्यस्येति / साध्यस्य धूमस्य यो व्याप्य [7B] आर्टेन्धनप्रभववह्निः तस्य यद् व्याप्यं तद् अवश्यं साध्यस्यापि व्याप्यं भवत्येव / तथा चावगतं समव्याप्त एवार्टेन्धनप्रभववह्रिमत्त्वमेवोपाधिः, नत्वाइँन्धनादिर्विषमव्याप्त उपाधिर्भवति। एवं पक्षेतरत्वमपि विषमव्याप्तत्वादुपाधिन भवतीतिप्रघट्टकार्थः। अथ शङ्कते - नन्विति / त्वदीयं लक्षणं विषमव्याप्तोपाधीति व्यापकमिति रूपयति। ध्वंसो विनाशी जन्यत्वात्। अत्र भावत्वमुपाधिर्विषमव्याप्तो भवति। यथा यत्र यत्रभावत्वं तत्र तत्र विनाशित्वं नास्ति, आकाशादौ व्यभिचारात् / यत्र जन्यत्वावच्छिन्नं विनाशित्वं तत्रभावत्वमस्त्येवेति कृत्वाऽयं विषमव्याप्तोपाधिः / अत्रातिव्याप्तिः / कथम् ?