________________ 16 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका स्ववृत्तीति टीका / साध्यव्याप्यत्वं तु साध्यनिष्ठव्याप्त्युपसंक्रामकत्वम्, इदमुपाधिपदप्रवृत्तिनि[मि]त्तम् / दूषकताबीजं च साध्यव्यापकत्वमिष्यते / तेन साध्यसमव्याप्त उपाधेः (धिः) / तदिति मूलम् / विषमव्याप्तस्याइँन्धनादेः त्वया अनुपाधित्वमुच्यते, तस्य किं दूषकताबीजाभा[वा]त् उपाधिपदप्रवृत्तिनिमित्ताभावाद् वा ? नाद्यः इत्याह / यत्र धूमस्तत्रा!न्धनमिति विषमव्याप्तस्याप्युपाधित्वं व्यभिचारोन्नायकम्, यथा वह्निधूमव्यभिचारी धूमव्यापकार्टेन्धनव्यभिचारित्वादिति व्यभिचारोन्नयनम्। . नन्विति टीका। आचार्यमतेऽपिविषमव्याप्तस्याऽऽर्दैन्धनादेरुपाधित्वं कथन स्यादित्यन्वयः।यत्किञ्चिद्धर्मोपसंक्रामकत्वज्ञानात् उपाधिज्ञानं दूषकताबीजसत्त्वाच्च इत्याशङ्कार्थः / तथा च विषमव्याप्तस्य साध्यव्याप्यत्वज्ञानं भ्रमरूपं भवत्येव / ततोऽपि साध्यव्याप्य[त्वज्ञानं तस्य वर्तते एव / नचेति। व्याप्ति[संक्रामकत्वरूपं] उपाधिपदप्रवृत्तिनिमित्तं तस्य नास्तीति न स उपाधिरित्याशङ्कार्थः / नापर इति। उपाधिपदप्रवृत्तिनिमित्तत्वाभावपक्षे इत्यर्थः / न हीति। लोके समव्याप्त एवोपाधिपदप्रयोग इति न हि। तत्र हेतुमाह - लाभादीति / यथा लाभादौ उपाधिपदप्रयोगस्तथा विषमव्याप्ते आर्टेन्धनादावुपाधिपदप्रयोगो भवतु इत्यर्थः / नन्विति तत्र हेतुमाह - लाभादीति / यथा लाभादौ उपाधिसङ्केत उपाधिसंज्ञा लोकव्यवहारादस्ति तथाऽत्रापि विषमव्याप्तेऽपि [7A] उपाधिपदप्रयोगो लोकव्यवहारार्थं भवतु इत्यशेषोऽर्थः / परीक्षकेति टीका / परीक्षकाणामुपाधिव्यवहारो विषमव्याप्तेऽपि भवत्यनुमानदूषणार्थमिति भावः। तच्चेति। अनुमानदूषणोपयिकमित्यर्थः / अन्ये तु यदभावो व्यभिचारविरोधी स उपाधिः / न च विषमव्याप्तस्याभावो व्यभिचारंविरुणद्धि, तस्याभावेऽपिव्यभिचारात्। अस्ति हि अनित्यत्वव्यापकं प्रमेयत्वं तद्व्याप्यं च गुणत्वम् / न चानित्यत्व-गुणत्वयोः व्याप्तिरस्ति, समव्याप्तिकस्य च व्यतिरेकस्तथा, न हि साध्यव्यापकव्याप्यीभूतस्य व्याप्यं यत् तत् साध्यं व्यभिचरति, व्यभिचारे चान्ततः साध्यमेवोपाधिः, अभेदेऽपि व्याप्यव्यापकत्वात् साधनाव्यापकत्वाच्चेति स्वीचक्रुः। __ न चेति मूलम् / पक्षेतरत्वस्याइँन्धनस्य वा अभावो न व्यभिचार विरुणद्धि / कथम् ? तत्राह - तस्याभावेऽपीति मूलम् / यथा वह्निमान् धूमात् इत्यत्र पक्षेतस्वं(क्षेतरत्वं) दीयते / अत्र व्यभिचाराभावादेव पक्षेतरत्वाभावस्य व्यभिचारविरोधकत्वं न स्यादित्यर्थः / किञ्चिदत्र न्यूनमस्ति। अन्ये त्विति मूलम्।यस्याभावो व्यभिचारविरोधी स उपाधिरित्यर्थः / ननु यथाश्रुतमनुपपन्नम् / कथम् ? यतः समव्याप्तोपाधिमतेनैवं लक्षणम् /