________________ उपाधिवादः यत्र गन्धः तत्र पाकजं रूपं [यत्र च पाकजं रूपं] तत्र गन्ध इति / साध्ये सति उपाधेः सत्त्वं साध्यासत्त्वे उपाधेरसत्त्वमित्यस्त्येवेति अर्थः। अन्यथेति मूलम् / यदि समव्याप्तोऽप्युपाधिस्तदा पक्षेतरोऽप्युपाधिः [इति] शब्दार्थः / यद्यपीति टीका / पक्षेतरे साध्यव्यापकता नास्ति / कथम् ? यत्र वह्निस्तत्र पक्षेतरत्वमिति पक्षे एव व्यभिचारात् / तथा च साध्यव्यापकता एव नास्ति तस्येति पक्षेतरत्वस्यापीति / तथापीति / पक्षेतरत्वस्यापि पक्षातिरिक्ते साध्यव्यापकता नास्तीति मते मूलाभिप्रायम् इत्यर्थः / एवं प्रतीति / यदि पक्षातिरिक्तसाध्यव्यापकता पक्षेतरत्वस्य तदा पक्षेतरवृत्तिवह्रिसाम यादेरप्युपाधिता स्यात् / कथम् ? यत्र पक्षातिरिक्ते वह्निस्तत्र पक्षेतरवृत्तिवह्निसामग्री वर्तते इति प्रयोज्यप्रयोज्य(जक)भावोऽपि वर्तते व्याप्तिरपि वर्तते / न चेष्टापत्तिरनुमानमात्रोच्छेदापत्तेरित्यर्थः / न त्वधिकमिति / साध्यव्याप्यत्वमित्यर्थः / तथा च साध्यव्यापकत्वे साध्यव्याप्यत्वं साध्यसमव्याप्तत्वम् / अत्र साध्यव्याप्यत्वमित्यधिकं प्रथमदले व्यर्थत्वात् दूषणे अनौपयिकत्वात् / ननु उपाधिः स उच्यते यद्धर्मोऽन्यत्र प्रतिबिम्बते यथा जपाकुसुमं स्फटिकलौहित्य उपाधिः, तथा चोपाधिवृत्तिव्याप्यत्वं हेतुत्वाभिमते चकास्ति तेनासावुपाधिः / न च व्याप्यत्वमात्रेण दूषकत्वमिति, साध्यव्यापकताऽपीष्यते, तथाचसमव्याप्त एवोपाधिरिति चेत्, तत् किं विषमव्याप्तस्य दृषकताबीजाभावानोपाधिशब्दवाच्यत्वंतथात्वेऽप्युपाधिपदप्रवृत्तिनिमित्ताभावाद्वा, नाद्यः तस्यापि व्यभिचाराद्युन्नायकत्वात्, नापरः न हि लोके समव्याप्त एवान्यत्र स्वधर्मप्रतिबिम्बजनक एवोपाधिपदप्रयोगः, लाभाधुपाधिना कृतमित्यादौ लाभादावप्युपाधिपदप्रयोगात् / किञ्च न शास्त्रे लौकिकव्यवहारार्थमुपाधिपदव्युत्पादनं किन्त्वनुमानदूषणार्थम्, तच्च साध्यव्यापकत्वेसति साधनाव्यापकत्वमात्रमिति शास्त्रे तथैव उपाधिपदप्रयोगः। पुनः समव्याप्तोपाधिवादी शङ्कते - नन्विति / पूर्वमुपाधिपदरूढिर्व्याख्याता, इदानीं योगं व्याख्याति / उपाधिरिति मूलम् / उप समीपे आगत्य स्वीयं रूपमादधात्यन्यत्र संक्रामयति स उपाधिरिति / प्रकृते आनयति / तथा चेति मूलम् / यथा जपाकुसुमं स्वधर्म लौहित्यं स्फटिके उपदधाति, तथा अत्र आर्टेन्धनप्रभववह्रिमत्त्वं स्वव्याप्यधूमे व्याप्तिरूपं धर्ममुपसंक्रामयति इति तस्योपाधिता।