________________ 14 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ___ नापीति मूलम्। साध्येन समं समव्याप्तः / तथा यत्र साध्यं तत्रोपाधिार्यत्रोपाधिास्तत्र साध्यमिति समव्याप्तः / पक्षेतरस्तु साध्येन सह समव्याप्तो नास्ति / यत्र वह्निस्तत्र पर्वतेतरत्वमिति यद्यपि महानसादावस्ति, परं यत्र पर्वतेतरत्वं तत्र वह्निरिति नास्ति ह्रदेऽभावात्। तथा च विषमव्याप्तत्वात् पक्षेतरो नोपाधिः / दूषयति - दृषकतेति मूलम् / उपाधेर्दूषकताबीजं व्यभिचारोनायकत्वम्, अथवा सत्प्रतिपक्षोन्नायकत्वम् / एतदुभयमपि विषमव्याप्ते आर्टेन्धनादा[व]प्यस्ति इति कृत्वा स उपाधिर्भवति / तत्र त्वदीयं समव्याप्तत्वगर्भ लषणमव्याप्तं जातम् / दूषणान्तरमाह - तथेति मूलम् / व्यभिचारोनायकत्वेन दूषकतायां साध्यव्याप्यत्वं प्रयोजकं न किन्तु साध्यव्यापकत्वमेव प्रयोजकम्, यतः उपाधिः साध्यव्यापको यदि जातस्तदा हेतोः व्यापकव्यभिचारेण व्याप्यस्य व्यभिचार आयात्येव।अथवोपाधिर्यदि साध्यव्याप्यस्तदा नकिञ्चित्प्रयोजन(क) यतः साध्यव्याप्यव्यभिचारित्वेन हेतोः साध्या(ध्य)व्यभिचारित्वं नायाति इति कृत्वा साध्यव्याप्यत्वं प्रयोजकं न भवति। आचार्येण समव्याप्तत्वाङ्गीकारे साध्यव्याप्यत्वमप्यङ्गीकृतमस्तीति तदप्रयोजकम्।साधनावच्छिन्नेति।आत्माप्रत्यक्षो बहिर्द्रव्यत्वात् इत्यत्र उद्भूतरूपवत्त्वं बहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकं भवति समव्याप्तस्तु नास्ति, यथा यत्रोद्भूतरूपवत्त्वं तत्र प्रत्यक्षत्वमेवं नास्ति। परमाणौ व्यभिचारात् इत्यर्थः / समव्याप्तस्योपाधेः आचार्यमते उपपादकं शङ्कते इत्यर्थः / साध्यप्रयोजकेति मूलम्।प्रयोजकत्वं विचारयति। प्रयोजकत्वमिति।न्यूनेऽधिकेव(वा) वर्तते तन्न्यूनाधिकवृत्ति / उपाधिश्च एतादृशो न भवति / यत उपाधिः साध्यसमव्याप्तो यथाऽऽन्धनप्रभववह्नित्वमुपाधिरेव, न तु आर्टेन्धनं तस्य विषमव्याप्तत्वात् / यदि च न्यूनाधिकवृत्तित्वं साध्येन सहोपाधेस्तदा दूषणम्, यथा पक्षेतरत्वमप्युपाधिः स्यात्। यद्यपि यत्रवहिर्महानसादौ तत्रपक्षेतरत्वं वर्तते तथापि पक्षेएव व्यभिचारात्न न्यूनवृत्तेरुपाधित्वम्, [यत्र वह्निस्तत्र पक्षेतरत्वं नास्तीति पक्षेतरत्वं वह्वेन्यूनवृत्ति अतस्तत्रोपाधिः / एवं च नाधिकवृत्तेरुपाधित्वं] यथा पक्षेतरत्वस्यैव / कथम् ? यत्र पक्षेतरत्वं तत्र वह्निर्नास्ति हूदे व्यभिचारात् इति पक्षेतरत्वं वढेरधिकवृत्तीति नोपाधिः / अथ न्यूनाधिकवृत्ति प्रयोजकं कुतो न भवतीति दूषणमाह - तस्मिन्निति मूलम् / तस्मिन् सति यथा पक्षेतरत्वादौ सत्यपि हृदादौ धूमस्याभावः, तेन पक्षेतरत्वेन विना पर्वते धूमस्य सत्त्वमिति अन्वयव्यतिरेकव्यभिचारात् पक्षेतरत्वस्य प्रयोजकत्वाभावादनुपाधित्वम् / आर्टेन्धनप्रभववह्रिमत्त्वस्य तु उपाधित्वम्, यथा यत्रा!न्धनप्रभववह्रिमत्त्वं तत्र धूमः यत्र च धूमस्तत्राट्टैन्धनप्रभववह्निरिति समव्याप्तिरस्त्येव प्रयोज्यप्रयोजकभावोऽपि यथा आर्टेन्धनप्रभववढेधूमं प्रति प्रयोजकत्वात्। _ अभवत इति टीका / यथाश्रुते अनुपपत्तिर्यथा - अभवत इत्यस्यार्थो यदि अनुत्पादस्तदा दूषणम्, यथा पृथिवी गन्धवती द्रा6B]व्यत्वादिति व्यभिचारिणि सद्धेतुतापत्तेः / अत्रोपाधिः पाकजरूपवत्त्वम्, परस्परं व्याप्य]व्यापकभावो वर्तते साध्योपाध्योः, परं प्रयोज्यप्रयोजकभावो नास्ति। न हि गन्धेन पाकजं रूपं जन्यते, नवापाकजरूपेणगन्धो जन्यते इति।अन्यथा व्याचष्टे - अविद्यमानस्येति। तथा च विद्यमानता वर्तते। कथम् ?