________________ 13 उपाधिवादः तथा साध्यहेत्वव्यापकतयोपाधेः साध्यव्यापकत्वमपि साधनीयमित्याधुक्तप्रकारेणेत्यर्थः / उभयोरिति / यथा हेतौ साध्यनिरूपितव्याप्तिग्राहकं व्यभिचाराभावसहकृतसहचारदर्शनादिकं वर्तते, तथा साध्ये उपाधिनिरूपितव्याप्तिग्राहकमेव वर्तते यथा यत्र साध्यं तत्रोपाधिरिति / एवं व्याप्तिग्राहकसाम्यमुभयत्रापि व्याप्तिग्राहकं वर्तते। एकत्रैव व्याप्तिनिश्चयो नास्ति। इदमेवोपाधेर्दूषकताबीजं यत् साध्यसाधनयोर्व्याप्तिनिश्चये विघटनं क्रियते इति / ___ उभयत्रेति मूलम्। हेतौ साध्ये चेत्यर्थः। हेतौ साध्यव्यभिचारित्वसंशयः ।साध्ये उपाधिव्यभिचारित्वसंशयः / एवं व्यभिचारसंशयाधायकत्वेन दूषकत्वं सिद्धम् / तच्चेति / एवं व्यभिचारसंशयाधायकत्वं पक्षेतरेऽप्यस्ति / तथाहि यत्र वह्निस्तत्र पर्वतेतरत्वं वर्तते, यथा महानसे / एवमुपाधिनिरूपितव्याप्तिग्राहकं साध्ये वर्तते / तथा हेतावपिधूमादावपि वह्निनिरूपितव्याप्तिग्राहकं वर्तते। यथा यत्रधूमस्तत्र वह्निरिति व्याप्तिनिश्चयो न भवति, किन्तु व्यभिचारसंशय एवेति। ___ तथा चेति टीका / पक्षेतरव्यावृत्त्यर्थं यद्विशेषणोपादानं क्रियते यथा विपक्षाव्यावर्तकविशेषणशून्यत्वे सति साध्यव्यापकत्वसाधनाव्यापकत्वमिति / यतो दूषणबीजसत्त्वे उपाधित्वमङ्गीकरणीयमित्यर्थः / _ उपाधेरेवेतिमूलम्। उपाधेरेव शङ्कास्यात् व्यभिचारशङ्का जायते। इदमनुपपन्नम्। कथम्? व्यभिचारित्वशङ्का तु अप्रयोजकत्वशङ्कादितोऽपि भवति इति कृत्वा उपाधेः व्यभिचारशङ्का इति अशुद्धम्। तत एवकारः भिन्नक्रमः कार्यः / उपाधेः व्यभिचारशकैवेति अर्थः / तथा च उपाधिव्यभिचारशङ्काद्वारे[ण] दूषकत्वम् / अन्यथा दूषकत्वं नास्तीत्यर्थः / पक्षेतरेति चार्वाको वदति। पक्षेतरोपा[6AJधिना यदा असाधकत्वानुमानं कर्तव्यम् यथाऽयमसाधकः सोपाधित्वात् इति तत्रापि पक्षेतर उपाधिर्भविष्यति इति / सकलानुमानोच्छेदभयात् पक्षेतर उपाधिर्न भवति इति चार्वाकेणाङ्गीकृतम् / पक्षेतर उपाधिन भवति / . परचार्वाकः / लक्षणमते(ति)व्यापकमिति दूषणं दत्तमित्यर्थः / आचार्येति उदयनाचार्यः / . नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वम्, दूषकताबीजस्य व्यभिचारोन्नयनस्य सत्प्रतिपक्षस्य वा साम्येन विषमव्याप्तस्याप्युपाधित्वात् तथा दूषकतायां साध्यव्याप्यत्वस्याप्रयोजकत्वाच्च / अथ साध्यप्रयोजको धर्म उपाधिः प्रयोजकत्वं च न न्यूनाधिकदेशवृत्तेः तस्मिन् सत्यभवतस्तेन विनापि भवतस्तदप्रयोजकत्वात्, अन्यथा पक्षेतरस्याप्युपाधित्वप्रसङ्ग इति चेत् / न / दूषणोपयिकं हि प्रयोजकत्वमिह विवक्षितम्, तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवेति, तदेव प्रयोजकं न तु अधिकं व्यर्थत्वात् /