________________ 12 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पर्वतावयववृत्त्यन्यत्वाभावो वर्तते एवेति नासाधारण्यमित्यर्थः / पूर्वमुक्तं पर्वते[तारत्वेऽसाधारण्यं वर्तते इति कृत्वा पर्वतेतरत्वं नोपाधिरिति आह। व्यतिरेकिणेतिमूलम्। पर्वतो वह्नयभाववान् पर्वतेतरत्वाभावात् इत्यत्र व्यतिरेके व्याप्तिरस्ति यथा यत्र वह्निस्तत्र पर्वतेतरत्वम् / एवं व्याप्तिपुरस्कारेण वह्निसाधकानुमाने सत्प्रतिपक्षः सम्भवति। तथा चोपाधेर्दूषकताबीजं सत्प्रतिपक्षोन्नायकत्वं सम्भवत्येवेति पक्षेतरोऽप्युपाधिः स्यादित्यर्थः / न चासाधारण्यम्, तस्यापि सत्प्रतिपक्षोत्थापकतया दोषत्वात् / तस्मादुभयोरपि व्याप्तिग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः, किन्तूभयत्र व्यभिचारसंशयः, तथा च व्यभिचारसंशयाधायकत्वेनोपाधेर्दूषकत्वम्, तच्च पक्षेतरेऽप्यस्ति, तदुक्तम् उपाधेरेव व्यभिचारशङ्केति / भवतु वा उक्तन्यायेन सकलानुमानभङ्गभिया पक्षेतरोऽनुपाधिः, . तथापि लक्षणमतिव्यापकम्। न चासाधारण(ण्य)मिति मूलम् / पर्वतो वह्नयभाववान् पर्वतेतरत्वाभावात् इत्यत्र पर्वतेतरत्वाभावोऽसाधारणः, यतः सपक्षाद् हृदादेरपि व्यावृत्तोऽस्तीति। न चवाच्यमित्यन्वयः। तस्यापीति मूलम्।असाधारणस्यापि सत्प्रतिपक्षोन्नायकत्वेनैव दूषकत्वम् / तथाहि पर्वतो वह्नयभावाभाववान् पर्वतेतरत्वाभावाभावात् इत्येवं सत्प्रतिपक्षोन्नयनं कर्तव्यम्। तत्तु व्यर्थम्। पूर्वानुमानादेव साध्यसिद्धेरित्यर्थः / अत्र सपक्षा वन्यभाववन्तो हूदादयः, ततो व्यावृत्तो भवति पर्वतेतरत्वाभावः / अथ च विपक्षा भवन्ति महानसादयः, तेभ्योऽपि [5B] व्यावृत्तो भवति पर्वतेतरत्वाभावः / इत्यसाधारण एव। तथा च यथा पर्वतेतरत्वाभावः साध्यते तथा वह्निरपि साधनीयः यथा पर्वतो वह्रिमान् पर्वतेतरत्वाभावात् / एवंप्रकारेण(णा)साधारणेनापि सत्प्रतिपक्षोन्नयनमेव कर्तव्यम्। तत्तु व्यर्थम्। वह्निस्तु मूलानुमानेनैव सिद्ध इति भावः। तथा चेति टीका / यथा सत्प्रतिपक्षे सत्प्रतिपक्षान्तरं नोद्भाव्यते / पूर्वानुमानेनैव साध्यसिद्धिः / तत्रेति सत्प्रतिपक्षे इत्यर्थः / सत्प्रतिपक्षेऽसाधारण्यं यथा नो दोषो यतोऽसाधारणेनापि सत्प्रतिपक्षोन्नयनमेव कर्तव्यम् / तत्तु व्यर्थं, पूर्वानुमानेनैव वह्निसिद्धेः / शतमपीति टीका / वह्निसाधकानि बहूनि अनुमानानि सन्ति इति द्योतयितुं सत्प्रतिपक्षे असाधारण्योद्भावनं कर्तव्यम्। तथा च(चा)साधारणेन वह्निरेव साधनीयः / ततो वह्रिसाधकानुमानबाहुल्यमिति सिद्धं स्यादित्यत आह - शतमिति / यदि अन्धाः शतम् एकः चाक्षुषः तदा तेन शतान्धानामपि प्रतिबन्धः क्रियते एव, शतान्धेस्तु न किमपीति / तथा प्रकृते वह्निसाधकानि बहून्यनुमानानि, तथाप्येकेन वढ्यभावसाधकसत्प्रतिपक्षेण दृढेन बहूनां वह्निसाधकानां प्रतिबन्धः कर्तव्य इत्यर्थः / नन्विति। यद्यपाधेाप्तिविरहोन्नायकतया दूषकत्वमिति पक्षो दूषितस्तदाऽतः परमुपाधेः दूषकतैव न स्यात् / व्यभिचारोन्नायकतया दूषकत्वं मया प्रागेव[दूषितम्] इति। यथा साध्यव्यापकोपाधिव्यभिचारत्वेन हेतोः साध्यव्यभिचारित्वं] साधनीयं