________________ उपाधिवादः सत्प्रतिपक्षोऽनित्यदोषो यदा तस्य स्फ(स्फूर्तिस्तदैवस दोषः एवमुपाधिः, न यत्रोपाधिस्तत्रावन(त्रोद्भावन)मुपाधिर्भवत्येवेत्यर्थः।नचेति।वहीतरत्वव्यतिरेकः पक्षतेजोमात्रेभागासिद्धः। तथाहि - यथा तेजोऽनुष्णत्वाभाववत् वहीतरत्वाभावात् इत्यत्रवहीतरत्वाभावोवह्निमात्रेवर्ततेतेजोऽन्तरे नास्तीतिभागासिद्धिरितिनोपाधिरित्याशङ्कार्थः। अतेजस्त्वेति / तेजोऽनुष्णमित्यत्र तेजस्त्वसमनियतमतेजस्त्वप्रकारकप्रमाविषयत्वादिकं तत्र सम्भवति। तथेति / अतेजस्त्वं विना इत्यस्यायमर्थः कर्तव्यः - यस्य व्यतिरेकः पक्षमात्रे वर्तते एतादृशोपाधिं विना पक्षमात्रवृत्तिव्यतिरेकप्रतियोग्युपाधिं विनाऽन्य उपाधिर्न सम्भवति / इति तदपि शुद्धसाध्यव्यापकोपाधिर्न सम्भवतीत्यभिप्रायेण। अन्यथेति टीका / तेजोमात्रमनुष्णं कृतकत्वात् इत्यत्र तेजो घटश्च एतद्वयान्यतरत्वाव[5]च्छिन्नं यत्रानुष्णत्वंतत्रघटत्वम् एवंप्रकारेण साध्यव्यापकत्वं साधनाव्यापकत्वंवह्नौ एव तत्रघटत्वाभावात्। अन्यस्योपाधेरसम्भवादिति यदुक्तं तदसम्भविस्यादित्यर्थः / नन्विति टीका। ननु त्वयोक्तं वहीतरत्वाभावोऽसाधारणो भवतीति वहीतरत्वमुपाधिन स्यात् / तत्रोच्यते सपक्षाद् व्यावृत्तोऽसाधारणः, वहीतरत्वाभावस्तु सपक्षाद् वढेरेव व्यावृत्तो नभवति, ततो नासाधारणः / असाधारण्यं पक्षमात्रवृत्तित्वं नोच्यते। तत्र हेतुमाह - केवलेति। केवलव्यतिरेकिणि सपक्षो नास्ति, पक्षमात्रवृत्तिर्भवतीति सोऽप्यसाधारणः स्यात् / तथा चेति / वहिरनुष्णः कृतकत्वात् इत्यत्र वहीतरत्वाभावो वह्निमात्रवृत्तिर्भवति। तथापि सपक्षो वह्निरेव। यत्र वह्रीतरत्वाभावेनोष्णत्वं साध्यते तत्र सपक्षो वह्निरेव, अ(त)तोव्यावृत्तो वहीतरत्वाभावोनभवतीतिकृत्वावहीतरत्वाभावोऽसाधारणो न स्यादित्यपरितोषादाह - किञ्चेतीति। पर्वतेति।यदि साध्यव्यापकत्वे सतिसाधनाव्यापकमात्रमुपाधिलक्षणं तदा पक्षेतरेऽतिव्याप्तिर्दत्ता। अतः परमुच्यते पर्वतो वह्निमान् धूमात् इत्यत्र साध्यो वह्निस्तद्व्यापकं पर्वतावयववृत्त्यन्यत्वम् / यत्र वह्निस्तत्र पर्वतावयववृत्त्यन्यत्वं वर्तते, यथा महानसे।साधनाव्यापकत्वंतुपर्वतएवयतस्तत्रधूमो वर्ततेपर्वतावयववृत्त्यन्यत्वं नास्तिं [इति प्रथमः / एवं पर्वतेतरद्रव्यत्वं महानसादौ वर्तते, वह्निरप्यस्ति महानसे, तत्र पर्वतेतरद्रव्यत्वमप्यस्ति इति साध्यव्यापकत्वं, साधनाव्यापकत्वं पर्वते एवेति द्वितीयः / एवं हृद-पर्वतसंयोगानाधारत्वं महानसेऽस्ति। वह्निरपि तत्र वर्तते / साधनाव्यापकत्वं तु पर्वत एवेति तृतीयः / एवं हृदपर्वतान्यत्वं वहिव्याप्तं महानसे / साधनाव्यापकत्वं तु पर्वत एवेति [चतुर्थः] / 'आदि शब्दान्मूले पर्वतावयववृत्त्यन्यत्वप्रकारकप्रमाविषयमपि तथेति मूलार्थः / पर्वतो यत्रेति टीका। यथाश्रुते पर्वत-हृदसंयोगो प्रसिद्धो वर्तते इत्यन्यथा व्याचष्टे / यत्र पर्वतेन सह हृदस्य संयोगो वर्तते तदनाधारत्वम् एतच्च प्रसिद्धमित्यर्थः / व्यतिरेकेति मूलम् / पर्वतो वह्नयभाववान् पर्वतावयववृत्त्यन्यत्वाभावात् इत्यत्र नासाधारण्यम्, यतः सकलसपक्षमध्ये पर्वतरूपमपि वह्नयभाववदस्ति। ततः पर्वतावयववृत्त्यन्यत्वाभावो व्यावृत्तो न भवति, रूपादौ