________________ 10 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रत्यक्षे वह्नौ कृतकत्वेन अनुष्णत्वे साध्येऽतेजस्त्वादेरुपाधित्वसम्भवादिति चेत् / न / तेजोमात्रपक्षत्वेऽतेजस्त्वं विना अन्यस्य उपाधेरभावात् / किञ्च पर्वतावयववृत्त्यन्यत्वं पर्वतेतरद्रव्यत्वं हूद-पर्वतसंयोगानाधारत्वं हृद-पर्वतान्यत्वादिकमुपाधिः स्यादेव व्यतिरेकेऽसाधारण्याभावात् व्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्च। बाधोनीतोऽपीति मूलम् / वहिरनुष्णः पदार्थत्वात् इत्यत्र वहीतरत्वमुपाधिर्भवति / न स्यात्, तत्रापि व्यतिरेकेऽसाधारण्यात् / यथाऽयमुष्णः वहीतरत्वाभावः, सकलोष्णत्ववन्ति सौरालोकादीनि, [4B] तत्र वहीतरत्वाभावो नास्तीति सकलसपक्षव्यावृत्तोऽसाधारण इत्यर्थः / यद्यपीति टीका / यतोऽत्रोष्णत्ववान् वह्निरेव तत्र वहीतरत्वाभावो वर्तते एवेति पक्षस्यैव पक्षत्वेन तद्व्यावृत्तिर्नास्ति। तथापीति।असाधारणः पक्षमात्रवृत्तिरेवेति मतं तदभिप्रायेणेदमुक्तम्। अत्र वहीतरत्वाभावो वह्निमात्रवृत्तिर्भवति। तेनासाधारणोऽयमिति टीकार्थः / अत्रेति। तटस्थ इष्टापत्तिं शङ्कते - बाधोनीतपक्षेतरोऽपि उपाधिर्मा भवतु / इतीष्टापत्तिस्तटस्थस्य / नैयायिकेनेयमाशङ्का न भवति यतस्तेन बाधे उपाधिनियम उच्यते एवेति कृत्वा तटस्थस्याशङ्केयमित्यर्थः / धूमेनेति / यथा हृदो वह्निमान् धूमात् इत्यत्रोपाधिः कोऽपि नास्ति, बाध एवास्तीत्यर्थः / न पक्षमात्रवृत्त्येति टीका / यतोऽग्रेऽनेनैवोच्यते / यत्र प्रत्यक्षे वह्नौ कृतकत्वेनानुष्णत्वं साध्यते तत्रातेजस्त्वादेरुपाधिता संभवति इत्युच्यते / अत्रोक्तं बाधे न उपाधिनियम इति विरोधवारणायान्यथा व्याचष्टे / नपक्षेति। बाधेपक्षमात्रवृत्तिव्यतिरेक प्रतियोग्युपाधिनियमो नास्ति।अयमर्थः / यस्योपाधेय॑तिरेकः पक्षमात्रवृत्तिस्तादृशोपाधिनियमो नास्ति इति व्याख्यातम् / तथा च वहीतरत्वमुपाधिन भवति / वहीतरत्वव्यतिरेकः पक्षमात्रवृत्तिर्भवति / इति कृत्वाऽयमुपाधिन भवतीतीष्टापत्तिरिति भावः / नच(? तु) इति मूलम् / यत्र पक्षे हेतुर्वर्तते तत्र चेत् बाधः तदा तत्र पक्षमात्रवृत्तिव्यतिरेकप्रतियोग्युपाधिः तिष्ठत्येवेत्याशङ्कार्थः / प्रत्यक्षइति। यत्र प्रत्यक्षो वह्निस्तत्रानुष्णत्वंसाधितं तदाऽतेजस्त्वमुपाधिर्भवति।अनुमान यथा वह्निरनुष्णः कृतकत्वात् इत्यत्र अतेजस्त्वमुपाधिर्भवति।यत्र कृतकत्वंतत्रातेजस्त्वं नास्ति। साधनाव्यापकत्वं वह्रौ, साध्यव्यापकत्वं तु जलादौ।अनहेतुमात्रपक्षोभवतिवह्निः। तत्र बाधोऽपिवर्तते।अत्रपक्षेतरत्वमेवोपाधिरेव तत्रेति नियमो नास्ति / यतोऽतेजस्त्वमप्युपाधिर्भवति / तद्व्यतिरेकश्च पक्षमात्रवृत्तिर्न भवति / प्रदीपादावपि अतेजस्त्वव्यतिरेकोऽस्तीति पक्षमात्रवृत्तिरेतस्य व्यतिरेको नास्ति, दीपादावपि सत्त्वादिति भावः। अतेजस्त्वमितीति टीका। ननु त्वयोक्तं स्थलविशेषे यत्र तेजोमात्रपक्षः अनुष्णत्वं साध्यं तत्रातेजस्त्वमेवोपाधिर्भवतीति तन्न लगति / यतस्तत्र वहीतरत्वमप्युपाधिर्भवति / तत्र हेतुमाह - उपाधेरिति / यथा