________________ उपाधिवादः तस्माद्यथासाध्यव्याप्येन हेतुनासाध्यं साधनीयंतथासाध्यव्यापकोपाधिव्यावृत्त्या साध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्यादिति दूषकताबीजम् / सोऽयं सत्प्रतिपक्ष एवेति चेत् / मैवम् / एवं हि सत्प्रतिपक्षे उपाध्युद्भावनं न स्यात् सत्प्रतिपक्षान्तरवत् / तस्मादिति मूलम्। सत्प्रतिपक्षोत्थापकत्वमेव दूषकताबीजं समर्थयति - यथंति। यथा त्वया साध्यव्याप्येन हेतुना साध्यं साधनीयं तथा मया साध्यव्यापको य उपाधिस्तस्य व्यावृत्त्या तदभावेन पक्षे साध्याभावोऽपि साधनीयः / हेतुमाह - व्याप्तीति / यथा हेतौ साध्यनिरूपिता व्याप्तिर्वर्तते यथा यत्र धूमस्तत्र वह्रिरिति तथा साध्येऽप्युपाधिनिरूपिता व्याप्तिर्वर्तते यथा यत्र धूमस्तत्रार्दैन्धनमिति / व्याप्तिग्राहकं व्यभिचारज्ञानाभावसहकृतं सहचारदर्शनं वर्तत एवेति व्याप्तिविरहोन्नायकतया चेत्यपि द्रष्टव्यमिति / ननु व्यभिचारोन्नायकता दूषकताबीजं न भवतीति उक्तम्, व्याप्तिविरहोन्नायकत्वं दूष्यते, तत्तु व्याप्तिपूर्वं दूषयितुमुपक्रान्तमेव नास्तीति मनसि सन्धाय दूषितम्। व्यभिचारोन्नायकत्वं दूषयितुमुपक्रान्तमपि न दूषितमिति टीकाकारेणपूर्यते इत्यर्थः / साध्यव्यभिचारित्वं चेत्यपि द्रष्टव्यमित्यनेन पूरितं मूलम् / एतेन व्यभिचारोनायकत्वं दूषितं व्याप्तिविरहोन्नायकत्वमपि दूषितम् / तथा च सत्प्रतिपक्षोत्थापकतया एव दूषकत्वम् / तत्तु पक्षेतरे नास्ति व्यतिरेकेऽसाधारण्यादिति नैयायिकेन समाधान कृतम् / तद् दूषयति - मैवमिति मूलम् / एवं हीति / यदि सत्प्रतिपक्षोत्थापकतयैव दूषकत्वं तदा सत्प्रतिपक्षे उपाध्युद्भावनं न स्यात् / कुतः ? यत उपाधिनाऽपि सत्प्रतिपक्ष एवोद्भावनीयः, सत्प्रतिपक्षणानेन वह्निरेव साधनीयः, सच स्थापनानुमानेनैव सिद्ध इति व्यर्थः उपाधिरित्यर्थः / सत्प्रतिपक्षान्तरवदिति। यथा सत्प्रतिपक्षो नोद्भाव्यते / यथा वह्रिसाधकानुमानेनै(ने)व, वन्यभावसाधकानुमानं यथाऽयं वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र यदि सत्प्रतिपक्षः क्रियते, अनेनापि वह्रिसाधनं भवति / तत्तु पूर्वानुमानेनैव सिद्धमित्यर्थः / पक्षवृत्तिश्शेव(ति) टीका / पक्षवृत्तिर्यथा पर्वतो धूमवान् वढेः इत्यत्र आर्टेन्धनं पक्षवृत्तिर्भवति, स उपाधिन स्यात्। कुतः ? यतस्तद्व्यतिरेकेण पक्षे साध्यभावोन्नयनं कर्तुं न शक्यते यथा पर्वतो धूमवान् आर्टेन्धनाभावात् इति, आर्टेन्धनाभावः पर्वते नास्ति आर्दैन्धनस्य पर्वते सत्त्वात् / यदि सत्प्रतिपक्षोन्नायकतया दूषकत्वं तदा अस्योपाधिता न स्यात् इत्यर्थः / इष्टापत्तिरिति त्वयोक्तम् / सत्प्रतिपक्षे उपाध्युद्भावनं न स्यादेव न भवत्येव इतीष्टापत्तिरित्यर्थः / एवं च पक्षवृत्तिरप्युपाधिन भवत्येव। यतस्तद्व्यतिरेकेण साध्याभावसाधनं कर्तुं न शक्यते। स्वरूपासिद्धत्वादित्यपि ज्ञेयम्। किञ्चैवं बाधोनीतोऽपि पक्षेतरो नोपाधि: स्यात् व्यतिरेकेऽसाधारण्यात् / ननु बाधे नोपाधिनियमः धूमेन हूदेवह्निसाधने तदभावात्न तुहेतुमतिपक्षेबाधेपक्षेतरोपाधिनियम: