SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका त्वाभावेऽपि दूषणसमर्थत्वात् / अथोपाधि: स्वव्यतिरेकेण सत्प्रतिपक्षतया दूषणं पक्षेतरत्वव्यतिरेकश्च न साध्याभावसाधकोऽसाधारणत्वात्, न तु(? च) व्यभिचारोनायकतया दूषणं यथाहि साध्यव्यापकोपाध्यव्याप्यतया हेतोः साध्याव्याप्यत्वं तथा साध्यव्याप्यहेत्वव्यापकतयोपाधेर्न साध्यव्यापकत्वमपि सिध्येत् व्याप्तिग्राहकस्योभयत्रापि साम्येन विनिगमकविरहात्। अत एवेति / यतः केवलं साध्यव्यापकत्वसाधनाव्यापकत्वे तत्र स्त इति अत एवेति निरस्तम् / केचिद् वदन्ति - पक्षेतर उपाधिन भवति / अनुमानमात्रोच्छेदकतया जातित्वात् असदुत्तरत्वात् / तथा च पक्षेतरो यत्र दीयते तत्रोपाध्यभावेन साध्याभावः साधनीयस्तत्रापिपक्षेतरत्वं भवतीतिअसदुत्तरं पक्षेतरस्येतिपक्षेतरो नोपाधिरिति परास्तम् / दूषणेति मूलम् / दूषणासमर्थम् उत्तरं जातिरिति लक्षणं जातेः / पक्षेतरे तु साध्यव्यापकसाधनाव्यापकरूपं यद् दूषणं तत्र समर्थं यद् रूपं तद्वत्त्वं वर्तते पक्षेतरे इति कृत्वा दूषणसमर्थमेव तत् इति मूलार्थः। यद्यपीति टीका। येनोपाधिना यत्र व्यभिचारोन्नयनं कर्तव्यं तत्रापि पक्षेतरस्योपाधित्वं सम्भवति तथापि हि वह्निधूमव्यभिचारी आर्टेन्धनव्यभिचारित्वात् इत्यत्रापि पक्षेतरत्वं भवत्येवेति नास्य दूषणसमर्थत्वम् / तथाप्यापातत इति। वस्तुगत्या दृषणं नास्ति परमुद्भाव्योक्तमित्यर्थः / तदन्यत्वे इति। बाधानुन्नीतपक्षेतरान्यत्वे सति साध्यव्यापकत्वे [सति] साधनाव्यापकत्वम् / अत्र हेतुमाह मूले - उपाधीति। लक्षणसत्वे उपाधित्वं वर्तते एवेति कृत्वा उपाधित्वाभाव इति न लगतीति कृत्वोक्तं टीकाकारेणोपाधित्वाभावानङ्गीकारेऽपीत्यर्थः। . उपाधिरिति मूलम् / दूषकताबीजं सत्प्रतिपक्षोत्थापनम्, तत् बाधानुन्नीतपक्षेतरे नास्ति / तथाहि पर्वतो वढ्यभाववान् पर्वतेतरत्वाभावात् / एवंप्रकारेण सत्प्रतिपक्षोन्नयने कर्तव्ये असाधारण्यं भवति हेतुः (तोः) / सकलसाध्यवान् वयभाववान् भवति हृदादिस्तत्र पर्वतेतरत्वाभावो नास्ति इति कृत्वा असाधारण्यं भवति / ततः पक्षेतरो नोपाधिरित्यर्थः / न चेति मूले / व्यभिचारोन्नायकतयाऽपि उपाधिर्दूषणं न भवतीति दर्शयति - त(य)थाहीति। यदा व्यभिचारोन्नयनं क्रियते यथाऽयं हेतुः साध्यव्यभिचारी साध्यव्यापकोपाधिव्यभिचारित्वात् इति हेतोः साध्यव्यभिचारित्वं साधनीयं [4A] तथा मयोपाधेरपि साध्याव्यापकत्वं साधनीयं यथा उपाधिः साध्याव्यापकः साध्यव्याप्यहेतु(त्व)व्यापकत्वात्। यो यद्व्याप्याव्यापकः स तदव्यापकः यथा द्रव्यत्वव्याप्यपृथिवीत्वाव्यापकजलत्वं तत् द्रव्यत्वस्याव्यापकं भवति / अयमर्थः / त्वया हेतोर्यथा साध्यव्यभिचारित्वं साध्याव्याप्यत्वं वा साधनीयं तथा मयोपाधेः साध्याव्यापकत्वमपि साधनीयम् / ततो व्यभिचारोन्नयनमुपाधिना कर्तुं न शक्यत इत्यर्थः /
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy