________________ उपाधिवादः तदव्यावर्तकं विशेषणं गोत्वोपाधौ किमपि नास्ति [इति] कृत्वा नद्वयान्तर्भावस्तत्रापि विपक्षाव्यावर्तकविशेषणशून्यत्वमितिरूपो वर्तते / कथम् ? निर्विशेषणत्वादेव विशेष्याभावादेव विशिष्टाभावः / अत्र विशेष्यं विशेषणपदं तदभावादेव विशिष्टाभावोऽस्त्येवेत्यर्थः / नत्विति मूलम्। पर्वतेतरत्वरूपोपाधौ विपक्षोभवति हृदः / तस्मादव्यावर्तकमेव विशेषणं पर्वतरूपं वर्तते / तथा च हूदे इतरत्वमपि वर्तते पर्वतेतरत्वमप्यस्ति इति नातो व्यावृत्तं पर्वतपदम् / ततः पर्वतेतरत्वं नोपाधिरिति मूलार्थः / न हीति मूलम् / वस्तुगत्या विपक्षाव्यावर्तकविशेषणशून्यत्वमुच्यते उत तत्रोपात्तविपक्षाव्यावर्तकविशेषण]शून्यत्वं वा इति विकल्पद्वये प्रथमे आह - विपक्षाव्यावर्तकाविशेषण]शून्यं किमपि वस्तु नास्ति / कथम् ? विपक्षस्याव्यावर्तकं विशेषणं प्रमेयत्वम्, तत् सर्वत्र इति तच्छून्यत्वाप्रसिद्धेः / द्वितीये प्राह - तत्रोपात्तेति / तत्र तस्मिन्नुपाधौ उपात्तं यद् विपक्षाव्यावर्तकं विशेषणं तच्छून्यत्वम् / तदाह - सिद्धयसिद्धिव्याघातः / तत्रोपात्तं विशेषणं प्रसिद्धं वा अप्रसिद्धं वा ? यदि प्रसिद्धम्, तदा तच्छून्यत्वं न सम्भवति / यदि अप्रसिद्धम्, तथापि तच्छून्यत्वं न सम्भवति, प्रतियोग्यप्रसिद्धेरभावाप्रसिद्धेरिति मूलार्थः / [3B] परेति टीका / नैयायिकसिद्धान्तानुसारेण नैयायिकोक्तमुपाधिलक्षणम् / साध्यव्यापकत्वे सति साधनाव्यापकत्वरूपं यदुपाधिलक्षणं तस्य पक्षेतरेऽतिव्याप्तिर्दत्ता चार्वाकेण / स एव चार्वाकस्तस्य पक्षेतरस्योपाधित्वं स्थापयतीत्याह - तथापि चेति मूलम् / यद्यपि पक्षेतरे विपक्षाव्यावर्तकविशेषणशून्यत्वं नास्ति तथापि केवलं साध्यव्यापकत्वसाधनाव्यापकत्वं पक्षेतरेऽस्ति / ततः तद्व्यावृत्त्या पक्षेतरव्यावृत्त्या पक्षेतरत्वं पर्वते नास्ति इति कृत्वा साध्यो यो वह्निस्तस्यापि निवृत्तिः, यतो व्यापकनिवृत्तिाप्यनिवृत्तिर्भवत्येव / साध्याभावे धूमरूपहेतुसत्त्वे व्यभिचार एवेत्यर्थः / पक्षेतरत्वादेरिति टीका / पक्षेतरत्वस्योपाधेः पक्षनिष्ठं यत् साध्यं पर्वतीयवह्रिरूपं तद्व्यापकता नास्त्येव, किन्तु महानसीयवह्रिव्यापकता पक्षेतरत्वस्य वर्तते इति कृत्वा महानसीय[व]न्यभावसाधनं कृतम्, तावता कथं व्यभिचारः ?, यतः साध्यतावच्छेदकं वह्नित्वं तदवच्छिन्नप्रतियोगिता]को योऽत्यन्ताभावस्तेन समं सामानाधिकरण्यमेव व्यभिचारः। प्रकृते च साध्यतासामानाधिकरण्यं धूमस्य नास्ति, यतः पक्षातिरिक्ते साध्यव्यापकतोपाधेर्वर्तते। अतः पक्षातिरिक्तसाध्यस्याभावः साधितः / तेन न व्यभिचार इत्यर्थः। तावदिति मूलम् / साध्यव्यापकत्वसाधनाव्यापकत्वमात्रस्य दूषकत्वा[1] व्यर्थः (थ) (विशेषणम्], विपक्षाव्यावर्तकविशेषणशून्यत्वं व्यर्थमित्यर्थः। अत एवानुमानमात्रोच्छेदकतया जातित्वान्न पक्षेतर उपाधिरित्यपास्तं दूषणसमर्थत्वेन जातित्वाभावात् / एतेन पक्षेतरव्यावृत्त्यर्थं प्रकारान्तरमपि निरस्तम् उपाधि