________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पर्वतपदं व्याप्तिग्राहकं भवति / इतरान्यत्वस्याप्रसिद्धत्वात् व्याप्तिर्ग्रहीतुं न शक्यते इति। पर्वतपदेन व्याप्तिर्ग्रहीतुं शक्यते / तथा च बाधानुन्नीतपक्षेतरेऽपि व्यर्थविशेषणराहित्यासत्त्वात् उक्तोपाधिलक्षणातिव्याप्तिस्तदवस्थेति मूलार्थः। वस्तुगत्येतीति।वस्तुगत्या यः साध्यव्यापकः पक्षेतरः स उपाधिः / बाधानुन्नीतस्तु वस्तुगत्या साध्यव्यापक एव न भवति यतः साध्यं पर्वते वर्तते तत्र पक्षेतरत्वं नास्तीति न स उपाधिरित्याशङ्कार्थः। ___ तथापीतिमूलम्। येन रूपेण ज्ञातस्योपाधेषकता, प्रकृते पक्षातिरिक्तेसाध्यव्यापकत्वेन ज्ञातस्योपाधेर्दूषकता इति कृत्वा पक्षातिरिक्तसाध्यव्यापकत्वे सति साधनाव्यापकतेति लक्षणमुपाधेः। तच्चेतिमूलम्।पक्षातिरिक्तेत्यादि तल्लक्षणं बाधानुन्नीतपक्षेतरेऽप्यस्तीत्यर्थः / अन्यथेति मूलम् / यदि पक्षातिरिक्ते साध्यव्यापकता नोच्यते किन्तु केवलसाध्यव्यापकतोच्यते तदोपाधिमात्रमुच्छिद्येत। तत्र हेतुमाह - पक्षे इति मूलम् / पक्षे साध्यं वर्तते न वेतिसन्देहेन उपाधिर्नास्तीति कृत्वा नोपाधित्वं तदोपाधिमात्रमुच्छिद्येत, सर्वस्योपाधेः पक्षे साध्यसन्देहेन साध्यव्यापकत्वसंशयादित्यर्थः। विपक्षाव्यावर्तकविशेषणशून्यत्वं विशेषणं तेन बाधोनीतपक्षेतरस्य परिग्रहः, तत्र पक्षस्यैव विपक्षत्वात्, न तु पर्वतेतरत्वादेरिति चेत् / न / न हि वस्तु विपक्षाव्यावर्तकविशेषणशून्यम्, सर्वत्र प्रमेयत्वादेः सत्त्वात् / तत्रोपात्तेति विशेषणे सिद्धयसिद्धिव्याघातः / तथापि चसाध्यव्यापकत्व-साधनाव्यापकत्वेतत्रस्त इति तद्व्यावृत्त्या पक्षे साध्यव्यावृत्तिरतो हेतोर्व्यभिचारएव व्यभिचारेचावश्यमुपाधिरितिपक्षेतरएव तत्रोपाधि: स्यात् तावन्मात्रस्यैव दूषकत्वाच्च व्यर्थं विशेषणम्। शङ्कते - विपक्ष इति मूलम् / विपक्षाव्यावर्तकविशेषणशून्यत्वे सति साध्यव्यापकत्वे सति साधन (ना)व्यापकत्वम्, तथा च बाधोनीतपक्षेतरस्य सङ्ग्रहो भवति। तथाहि - वह्निरनुष्णः कृतकत्वात् इत्यत्रानुष्णत्वस्य विपक्षोभवति वह्निः, तस्माद्व्यावर्तकं विशेषणंतच्चास्तिवह्निपदम्, यतइतरत्वस्य केवलान्वयित्वात् / इतरत्वं वहावप्यस्तिवहीतरत्वं नास्तीत्यतोवह्रिपदं विपक्षव्यावर्तकविशेषणं] भवति।विपक्षो वह्निरनुष्णत्वस्य, तस्माद् व्यावर्तकं विशेषणं वह्निरूपं वर्तते इति कृत्वा विपक्षव्यावर्तकविशेषणयुक्तत्वं वर्तत एवेति मूलार्थः / निर्विशेषणेति टीका / ननु विपक्षाव्यावर्तकविशेषणशून्यत्वमित्यत्र नब्वयान्तर्भावः किमर्थं क्रियते ? विपक्षव्यावर्तकविशेषणवत्त्वमित्येवोचितमित्यत आह - निर्विशेषणेति।निर्विशेषणं यद्गोत्वरूपमुपाधिस्तत्राव्याप्तिवारणाय। यथाऽयं सास्नावान् अश्वत्वात् इत्यत्र गोत्वमुपाधिर्वर्तते, सन स्यात्। कथम् ? विपक्षो घटादिः,